अनध्यायेष्वधीयानांस्तञ्जघान शतक्रतुः
Śatakratu (Indra) struck down those who studied during forbidden periods.
क्रुद्धं दृष्ट्वा ततः शक्रोवरं सो ऽथ पुनर्ददौ
Then, seeing him enraged, Śakra granted him another boon.
अधीयातां महाप्राज्ञौ सहस्रं संहिता उभौ
Let both the highly wise ones study a thousand Saṃhitās.
इत्युक्त्वा वासवः श्रीमान्सुकर्माणं यशस्विनम्
Having spoken thus, the illustrious Vāsava addressed the renowned Sukarmā.
तस्य शिष्यो ऽभवद्धीमान् पौष्यञ्जिर्द्विजसत्तमाः
His intelligent disciple was Pauṣyañji, best among twice-born.
अध्यापयत पौष्याञ्जिः सहस्रार्द्धं तुसंहिताः
Pauṣyañji taught a thousand and a half Saṃhitās.
सत्त्वानि पञ्च कौशिल्यः संहिताना मधीतवान्
Kauśilya mastered five collections of Saṃhitās.
पौष्यञ्जि शिष्याश्चत्वारस्तेषां भेदान्निबोधत
Pauṣyañji had four disciples; listen to their divisions.
सकोतिपुत्रः सुसहाः सुनामा चैतान्भेदान्वित्तलौगाक्षिणस्तु
Sakotiputra, Susahā, Sunāma, and Vittalaugākṣiṇa—these are their branches.
त्रयस्तु कुशुमेः शिष्या औरसः स पराशरः
Three were disciples of Kuśuma, and Parāśara was his own son.
शौरिषुः शृङ्गिपुत्रश्च द्वावेतौ तु चिरव्रतौ
Śauriṣu and Śṛṅgiputra—these two were steadfast in their vows.
प्रोवाच संहितास्ति स्रः शृङ्गिपुत्रौ महात्पाः
Śṛṅgiputra, the great soul, taught three Saṃhitās.
प्रोवाच संहिताः षट्तु पाराशर्यस्तु कौथुमः
Kauthuma, son of Parāśara, taught six Saṃhitās.
प्राचीनयोगपुत्रश्च बुद्धिमांश्च पतञ्जलिः
Prācīnayogaputra and the wise Patañjali as well.
लाङ्गलः शालिहोत्रश्च षडुवाचाथ संहिताः
Lāṅgala, Śālihotra, Ṣaḍuvāca, and the Saṃhitās—
कण्डुश्च कोहलश्चैव षडे ते लाङ्गलाः स्मृताः
Kaṇḍu and Kohala as well—these six are known as the Lāṅgalas.
एको हिरण्यनाभस्य कृतः शिष्यो नृपात्मजः
One was composed by Hiraṇyanābha, whose disciple was a prince.
प्रोवाच चैव शिष्येभ्यो येभ्यस्ताश्च निबोधत
And he indeed taught it to his disciples; listen to whom they were.
तलको माण्डुकश्चैव कालिको राजिकंस्तथा
Talaka, Māṇḍuka, Kālikā, and Rājika,
पुष्टिश्च परिकृष्टश्च उलूखलक एव च
Puṣṭi, Parikṛṣṭa, and also Ulūkhalaka,
शालिमञ्जरिपाकश्च शधीयः कानिनिश्च यः
Śālimañjaripāka, Śadhīya, and also Kāninī—
सामगानां तु सर्वेषां श्रेष्ठौ द्वौ परिकीर्त्तितौ
Of all the singers of Sāman, two are declared the foremost.
अथर्वाणं द्विधा कृत्वा सुमन्तुरददाद्द्विजाः
Sumantu divided the Atharva Veda into two and gave it to the twice-born.
कबन्धस्तु द्विधा कृत्वा पथ्यायैकं पुनर्ददौ
Kabandha, having divided it in two, gave one part again to Pathya.
मोदो ब्रह्मबलश्चैव पिप्पलादस्तथैव च
Modo, Brahmabala, and likewise Pippalāda—
देवदर्शस्य चत्वारः शिष्या ह्येते दृढव्रताः
These four steadfast disciples belonged to Devadarśa.
जाजलिः कुमुदादिश्च तृतीयः शौनकः स्मृतः
Jājali, Kumudādi, and the third is known as Śaunaka.
द्द्वितीयां संहितां धीमान्सैन्धवायनसंज्ञि ते
The wise one, called Saindhavāyana, [received] the second Saṃhitā.
नक्षत्रकल्पो वैतानस्तृतीयः संहिताविधिः
Nakṣatrakalpa, Vaitāna, and the third is Saṃhitāvidhi.
श्रेष्ठास्त्वथर्वणामेते संहितानां विकल्पकाः
These are the foremost among the Atharvans, arrangers of the Saṃhitās.