यथा च माहिषं सर्पिर् दधि चाप्य् उपहार्य वै गोपाः समानयन्त्य् आशु त्वया वाच्यास् तथा तथा
इत्य् आज्ञप्तस् तदाक्रूरो महाभागवतो द्विजाः प्रीतिमान् अभवत् कृष्णं श्वो द्रक्ष्यामीति सत्वरः
तथेत्य् उक्त्वा तु राजानं रथम् आरुह्य सत्वरः निश्चक्राम तदा पुर्या मथुराया मधुप्रियः
केशी चापि बलोदग्रः कंसदूतः प्रचोदितः कृष्णस्य निधनाकाङ्क्षी वृन्दावनम् उपागमत्
स खुरक्षतभूपृष्ठः सटाक्षेपधुताम्बुदः पुनर् विक्रान्तचन्द्रार्कमार्गो गोपान्तम् आगमत्
तस्य ह्रेषितशब्देन गोपाला दैत्यवाजिनः गोप्यश् च भयसंविग्ना गोविन्दं शरणं ययुः
त्राहि त्राहीति गोविन्दस् तेषां श्रुत्वा तु तद्वचः सतोयजलदध्वानगम्भीरम् इदम् उक्तवान्
अलं त्रासेन गोपालाः केशिनः किं भयातुरैः भवद्भिर् गोपजातीयैर् वीरवीर्यं विलोप्यते
किम् अनेनाल्पसारेण ह्रेषितारोपकारिणा दैतेयबलवाह्येन वल्गता दुष्टवाजिना
एह्य् एहि दुष्ट कृष्णो ऽहं पूष्णस् त्व् इव पिनाकधृक् पातयिष्यामि दशनान् वदनाद् अखिलांस् तव
इत्य् उक्त्वा स तु गोविन्दः केशिनः संमुखं ययौ विवृतास्यश् च सो ऽप्य् एनं दैतेयश् च उपाद्रवत्
बाहुम् आभोगिनं कृत्वा मुखे तस्य जनार्दनः प्रवेशयाम् आस तदा केशिनो दुष्टवाजिनः
केशिनो वदनं तेन विशता कृष्णबाहुना शातिता दशनास् तस्य सिताभ्रावयवा इव
कृष्णस्य ववृधे बाहुः केशिदेहगतो द्विजाः विनाशाय यथा व्याधिर् आप्तभूतैर् उपेक्षितः
विपाटितौष्ठो बहुलं सफेनं रुधिरं वमन् सृक्कणी विवृते चक्रे विश्लिष्टे मुक्तबन्धने
जगाम धरणीं पादैः शकृन्मूत्रं समुत्सृजन् स्वेदार्द्रगात्रः श्रान्तश् च निर्यत्नः सो ऽभवत् ततः
व्यादितास्यो महारौद्रः सो ऽसुरः कृष्णबाहुना निपपात द्विधाभूतो वैद्युतेन यथा द्रुमः
द्विपादपृष्ठपुच्छार्धश्रवणैकाक्षनासिके केशिनस् ते द्विधा भूते शकले च विरेजतुः
हत्वा तु केशिनं कृष्णो मुदितैर् गोपकैर् वृतः अनायस्ततनुः स्वस्थो हसंस् तत्रैव संस्थितः
ततो गोपाश् च गोप्यश् च हते केशिनि विस्मिताः तुष्टुवुः पुण्डरीकाक्षम् अनुरागमनोरमम्
आययौ त्वरितो विप्रो नारदो जलदस्थितः केशिनं निहतं दृष्ट्वा हर्षनिर्भरमानसः
साधु साधु जगन्नाथ लीलयैव यद् अच्युत निहतो ऽयं त्वया केशी क्लेशदस् त्रिदिवौकसाम्
सुकर्माण्य् अवतारे तु कृतानि मधुसूदन यानि वै विस्मितं चेतस् तोषम् एतेन मे गतम्
तुरगस्यास्य शक्रो ऽपि कृष्ण देवाश् च बिभ्यति धुतकेसरजालस्य ह्रेषतो ऽभ्रावलोकिनः
यस्मात् त्वयैष दुष्टात्मा हतः केशी जनार्दन तस्मात् केशवनाम्ना त्वं लोके गेयो भविष्यसि
स्वस्त्य् अस्तु ते गमिष्यामि कंसयुद्धे ऽधुना पुनः परश्वो ऽहं समेष्यामि त्वया केशिनिषूदन
उग्रसेनसुते कंसे सानुगे विनिपातिते भारावतारकर्ता त्वं पृथिव्या धरणीधर
तत्रानेकप्रकारेण युद्धानि पृथिवीक्षिताम् द्रष्टव्यानि मया युष्मत्प्रणीतानि जनार्दन
सो ऽहं यास्यामि गोविन्द देवकार्यं महत् कृतम् त्वया सभाजितश् चाहं स्वस्ति ते ऽस्तु व्रजाम्य् अहम्
नारदे तु गते कृष्णः सह गोपैर् अविस्मितः विवेश गोकुलं गोपीनेत्रपानैकभाजनम्