सतोयतोयदाकारस् तीक्ष्णशृङ्गो ऽर्कलोचनः खुराग्रपातैर् अत्यर्थं दारयन् धरणीतलम्
लेलिहानः सनिष्पेषं जिह्वयौष्ठौ पुनः पुनः संरम्भाक्षिप्तलाङ्गूलः कठिनस्कन्धबन्धनः
उदग्रककुदाभोगः प्रमाणाद् दुरतिक्रमः विण्मूत्रालिप्तपृष्ठाङ्गो गवाम् उद्वेगकारकः
प्रलम्बकण्ठो ऽभिमुखस् तरुघाताङ्किताननः पातयन् स गवां गर्भान् दैत्यो वृषभरूपधृक्
सूदयंस् तरसा सर्वान् वनान्य् अटति यः सदा ततस् तम् अतिघोराक्षम् अवेक्ष्यातिभयातुराः
गोपा गोपस्त्रियश् चैव कृष्ण कृष्णेति चुक्रुशुः सिंहनादं ततश् चक्रे तलशब्दं च केशवः
तच्छब्दश्रवणाच् चासौ दामोदरमुखं ययौ अग्रन्यस्तविषाणाग्रः कृष्णकुक्षिकृतेक्षणः
अभ्यधावत दुष्टात्मा दैत्यो वृषभरूपधृक् आयान्तं दैत्यवृषभं दृष्ट्वा कृष्णो महाबलम्
न चचाल ततः स्थानाद् अवज्ञास्मितलीलया आसन्नं चैव जग्राह ग्राहवन् मधुसूदनः
जघान जानुना कुक्षौ विषाणग्रहणाचलम् तस्य दर्पबलं हत्वा गृहीतस्य विषाणयोः
आपीडयद् अरिष्टस्य कण्ठं क्लिन्नम् इवाम्बरम् उत्पाट्य शृङ्गम् एकं च तेनैवाताडयत् ततः
ममार स महादैत्यो मुखाच् छोणितम् उद्वमन् तुष्टुवुर् निहते तस्मिन् गोपा दैत्ये जनार्दनम् जम्भे हते सहस्राक्षं पुरा देवगणा यथा
ककुद्मिनि हते ऽरिष्टे धेनुके च निपातिते प्रलम्बे निधनं नीते धृते गोवर्धनाचले
दमिते कालिये नागे भग्ने तुङ्गद्रुमद्वये हतायां पूतनायां च शकटे परिवर्तिते
कंसाय नारदः प्राह यथावृत्तम् अनुक्रमात् यशोदादेवकीगर्भपरिवर्ताद्य् अशेषतः
श्रुत्वा तत् सकलं कंसो नारदाद् देवदर्शनात् वसुदेवं प्रति तदा कोपं चक्रे स दुर्मतिः
सो ऽतिकोपाद् उपालभ्य सर्वयादवसंसदि जगर्हे यादवांश् चापि कार्यं चैतद् अचिन्तयत्
यावन् न बलम् आरूढौ बलकृष्णौ सुबालकौ तावद् एव मया वध्याव् असाध्यौ रूढयौवनौ
चाणूरो ऽत्र महावीर्यो मुष्टिकश् च महाबलः एताभ्यां मल्लयुद्धे तौ घातयिष्यामि दुर्मदौ
धनुर्महमहायागव्याजेनानीय तौ व्रजात् तथा तथा करिष्यामि यास्यतः संक्षयं यथा
इत्य् आलोच्य स दुष्टात्मा कंसो रामजनार्दनौ हन्तुं कृतमतिर् वीरम् अक्रूरं वाक्यम् अब्रवीत्
भो भो दानपते वाक्यं क्रियतां प्रीतये मम इतः स्यन्दनम् आरुह्य गम्यतां नन्दगोकुलम्
वसुदेवसुतौ तत्र विष्णोर् अंशसमुद्भवौ नाशाय किल संभूतौ मम दुष्टौ प्रवर्धतः
धनुर्महमहायागश् चतुर्दश्यां भविष्यति आनेयौ भवता तौ तु मल्लयुद्धाय तत्र वै
चाणूरमुष्टिकौ मल्लौ नियुद्धकुशलौ मम ताभ्यां सहानयोर् युद्धं सर्वलोको ऽत्र पश्यतु
नागः कुवलयापीडो महामात्रप्रचोदितः स तौ निहंस्यते पापौ वसुदेवात्मजौ शिशू
तौ हत्वा वसुदेवं च नन्दगोपं च दुर्मतिम् हनिष्ये पितरं चैव उग्रसेनं च दुर्मतिम्
ततः समस्तगोपानां गोधनान्य् अखिलान्य् अहम् वित्तं चापहरिष्यामि दुष्टानां मद्वधैषिणाम्
त्वाम् ऋते यादवाश् चेमे दुष्टा दानपते मम एतेषां च वधायाहं प्रयतिष्याम्य् अनुक्रमात्
ततो निष्कण्टकं सर्वं राज्यम् एतद् अयादवम् प्रसाधिष्ये त्वया तस्मान् मत्प्रीत्या वीर गम्यताम्