काचिद् आलोक्य गोविन्दम् आयान्तम् अतिहर्षिता कृष्ण कृष्णेति कृष्णेति प्राहोत्फुल्लविलोचना
काचिद् भ्रूभङ्गुरं कृत्वा ललाटफलकं हरिम् विलोक्य नेत्रभृङ्गाभ्यां पपौ तन्मुखपङ्कजम्
काचिद् आलोक्य गोविन्दं निमीलितविलोचना तस्यैव रूपं ध्यायन्ती योगारूढेव सा बभौ
ततः कांचित् प्रियालापैः कांचिद् भ्रूभङ्गवीक्षितैः निन्ये ऽनुनयम् अन्याश् च करस्पर्शेन माधवः
ताभिः प्रसन्नचित्ताभिर् गोपीभिः सह सादरम् रराम रासगोष्ठीभिर् उदारचरितो हरिः
रासमण्डलबद्धो ऽपि कृष्णपार्श्वम् अनूद्गता गोपीजनो न चैवाभूद् एकस्थानस्थिरात्मना
हस्ते प्रगृह्य चैकैकां गोपिकां रासमण्डलम् चकार च करस्पर्शनिमीलितदृशं हरिः
ततः प्रववृते रम्या चलद्वलयनिस्वनैः अनुयातशरत्काव्यगेयगीतिर् अनुक्रमाम्
कृष्णः शरच्चन्द्रमसं कौमुदीकुमुदाकरम् जगौ गोपीजनस् त्व् एकं कृष्णनाम पुनः पुनः
परिवृत्ता श्रमेणैका चलद्वलयतापिनी ददौ बाहुलतां स्कन्धे गोपी मधुविघातिनः
काचित् प्रविलसद्बाहुः परिरभ्य चुचुम्ब तम् गोपी गीतस्तुतिव्याजनिपुणा मधुसूदनम्
गोपीकपोलसंश्लेषम् अभिपद्य हरेर् भुजौ पुलकोद्गमशस्याय स्वेदाम्बुघनतां गतौ
रासगेयं जगौ कृष्णो यावत् तारतरध्वनिः साधु कृष्णेति कृष्णेति तावत् ता द्विगुणं जगुः
गते ऽनुगमनं चक्रुर् वलने संमुखं ययुः प्रतिलोमानुलोमेन भेजुर् गोपाङ्गना हरिम्
स तदा सह गोपीभी रराम मधुसूदनः स वर्षकोटिप्रतिमः क्षणस् तेन विनाभवत्
ता वार्यमाणाः पितृभिः पतिभिर् भ्रातृभिस् तथा कृष्णं गोपाङ्गना रात्रौ रमयन्ति रतिप्रियाः
सो ऽपि कैशोरकवया मानयन् मधुसूदनः रेमे ताभिर् अमेयात्मा क्षपासु क्षपिताहितः
तद्भर्तृषु तथा तासु सर्वभूतेषु चेश्वरः आत्मस्वरूपरूपो ऽसौ व्याप्य सर्वम् अवस्थितः
यथा समस्तभूतेषु नभो ऽग्निः पृथिवी जलम् वायुश् चात्मा तथैवासौ व्याप्य सर्वम् अवस्थितः
प्रदोषार्धे कदाचित् तु रासासक्ते जनार्दने त्रासयन् समदो गोष्ठान् अरिष्टः समुपागतः
सतोयतोयदाकारस् तीक्ष्णशृङ्गो ऽर्कलोचनः खुराग्रपातैर् अत्यर्थं दारयन् धरणीतलम्
लेलिहानः सनिष्पेषं जिह्वयौष्ठौ पुनः पुनः संरम्भाक्षिप्तलाङ्गूलः कठिनस्कन्धबन्धनः
उदग्रककुदाभोगः प्रमाणाद् दुरतिक्रमः विण्मूत्रालिप्तपृष्ठाङ्गो गवाम् उद्वेगकारकः
प्रलम्बकण्ठो ऽभिमुखस् तरुघाताङ्किताननः पातयन् स गवां गर्भान् दैत्यो वृषभरूपधृक्
सूदयंस् तरसा सर्वान् वनान्य् अटति यः सदा ततस् तम् अतिघोराक्षम् अवेक्ष्यातिभयातुराः
गोपा गोपस्त्रियश् चैव कृष्ण कृष्णेति चुक्रुशुः सिंहनादं ततश् चक्रे तलशब्दं च केशवः
तच्छब्दश्रवणाच् चासौ दामोदरमुखं ययौ अग्रन्यस्तविषाणाग्रः कृष्णकुक्षिकृतेक्षणः
अभ्यधावत दुष्टात्मा दैत्यो वृषभरूपधृक् आयान्तं दैत्यवृषभं दृष्ट्वा कृष्णो महाबलम्
न चचाल ततः स्थानाद् अवज्ञास्मितलीलया आसन्नं चैव जग्राह ग्राहवन् मधुसूदनः
जघान जानुना कुक्षौ विषाणग्रहणाचलम् तस्य दर्पबलं हत्वा गृहीतस्य विषाणयोः