प्रीतिः सस्त्रीकुमारस्य व्रजस्य तव केशव कर्म चेदम् अशक्यं यत् समस्तैस् त्रिदशैर् अपि
बालत्वं चातिवीर्यं च जन्म चास्मास्व् अशोभनम् चिन्त्यमानम् अमेयात्मञ् शङ्कां कृष्ण प्रयच्छति
क्षणं भूत्वा त्व् असौ तूष्णीं किंचित् प्रणयकोपवान् इत्य् एवम् उक्तस् तैर् गोपैर् आह कृष्णो द्विजोत्तमाः
मत्संबन्धेन वो गोपा यदि लज्जा न जायते श्लाघ्यो वाहं ततः किं वो विचारेण प्रयोजनम्
यदि वो ऽस्ति मयि प्रीतिः श्लाघ्यो ऽहं भवतां यदि तद् अर्घा बन्धुसदृशी बान्धवाः क्रियतां मयि
नाहं देवो न गन्धर्वो न यक्षो न च दानवः अहं वो बान्धवो जातो नातश् चिन्त्यम् अतो ऽन्यथा
इति श्रुत्वा हरेर् वाक्यं बद्धमौनास् ततो बलम् ययुर् गोपा महाभागास् तस्मिन् प्रणयकोपिनि
कृष्णस् तु विमलं व्योम शरच्चन्द्रस्य चन्द्रिकाम् तथा कुमुदिनीं फुल्लाम् आमोदितदिगन्तराम्
वनराजीं तथा कूजद्भृङ्गमालामनोरमाम् विलोक्य सह गोपीभिर् मनश् चक्रे रतिं प्रति
सह रामेण मधुरम् अतीव वनिताप्रियम् जगौ कमलपादो ऽसौ नाम तत्र कृतव्रतः
रम्यं गीतध्वनिं श्रुत्वा संत्यज्यावसथांस् तदा आजग्मुस् त्वरिता गोप्यो यत्रास्ते मधुसूदनः
शनैः शनैर् जगौ गोपी काचित् तस्य पदानुगा दत्तावधाना काचिच् च तम् एव मनसास्मरत्
काचित् कृष्णेति कृष्णेति चोक्त्वा लज्जाम् उपाययौ ययौ च काचित् प्रेमान्धा तत्पार्श्वम् अविलज्जिता
काचिद् आवसथस्यान्तः स्थित्वा दृष्ट्वा बहिर् गुरुम् तन्मयत्वेन गोविन्दं दध्यौ मीलितलोचना
गोपीपरिवृतो रात्रिं शरच्चन्द्रमनोरमाम् मानयाम् आस गोविन्दो रासारम्भरसोत्सुकः
गोप्यश् च वृन्दशः कृष्णचेष्टाभ्यायत्तमूर्तयः अन्यदेशगते कृष्णे चेरुर् वृन्दावनान्तरम्
बभ्रमुस् तास् ततो गोप्यः कृष्णदर्शनलालसाः कृष्णस्य चरणं रात्रौ दृष्ट्वा वृन्दावने द्विजाः
एवं नानाप्रकारासु कृष्णचेष्टासु तासु च गोप्यो व्यग्राः समं चेरू रम्यं वृन्दावनं वनम्
निवृत्तास् तास् ततो गोप्यो निराशाः कृष्णदर्शने यमुनातीरम् आगम्य जगुस् तच्चरितं द्विजाः
ततो ददृशुर् आयान्तं विकाशिमुखपङ्कजम् गोप्यस् त्रैलोक्यगोप्तारं कृष्णम् अक्लिष्टकारिणम्
काचिद् आलोक्य गोविन्दम् आयान्तम् अतिहर्षिता कृष्ण कृष्णेति कृष्णेति प्राहोत्फुल्लविलोचना
काचिद् भ्रूभङ्गुरं कृत्वा ललाटफलकं हरिम् विलोक्य नेत्रभृङ्गाभ्यां पपौ तन्मुखपङ्कजम्
काचिद् आलोक्य गोविन्दं निमीलितविलोचना तस्यैव रूपं ध्यायन्ती योगारूढेव सा बभौ
ततः कांचित् प्रियालापैः कांचिद् भ्रूभङ्गवीक्षितैः निन्ये ऽनुनयम् अन्याश् च करस्पर्शेन माधवः
ताभिः प्रसन्नचित्ताभिर् गोपीभिः सह सादरम् रराम रासगोष्ठीभिर् उदारचरितो हरिः
रासमण्डलबद्धो ऽपि कृष्णपार्श्वम् अनूद्गता गोपीजनो न चैवाभूद् एकस्थानस्थिरात्मना
हस्ते प्रगृह्य चैकैकां गोपिकां रासमण्डलम् चकार च करस्पर्शनिमीलितदृशं हरिः
ततः प्रववृते रम्या चलद्वलयनिस्वनैः अनुयातशरत्काव्यगेयगीतिर् अनुक्रमाम्
कृष्णः शरच्चन्द्रमसं कौमुदीकुमुदाकरम् जगौ गोपीजनस् त्व् एकं कृष्णनाम पुनः पुनः
परिवृत्ता श्रमेणैका चलद्वलयतापिनी ददौ बाहुलतां स्कन्धे गोपी मधुविघातिनः