अथोपवाह्याद् आदाय घण्टाम् ऐरावताद् गजात् अभिषेकं तया चक्रे पवित्रजलपूर्णया
क्रियमाणे ऽभिषेके तु गावः कृष्णस्य तत्क्षणात् प्रस्रवोद्भूतदुग्धार्द्रां सद्यश् चक्रुर् वसुंधराम्
अभिषिच्य गवां वाक्याद् देवेन्द्रो वै जनार्दनम् प्रीत्या सप्रश्रयं कृष्णं पुनर् आह शचीपतिः
गवाम् एतत् कृतं वाक्यात् तथान्यद् अपि मे शृणु यद् ब्रवीमि महाभाग भारावतरणेच्छया
ममांशः पुरुषव्याघ्रः पृथिव्यां पृथिवीधर अवतीर्णो ऽर्जुनो नाम स रक्ष्यो भवता सदा
भारावतरणे सख्यं स ते वीरः करिष्यति स रक्षणीयो भवता यथात्मा मधुसूदन
जानामि भारते वंशे जातं पार्थं तवांशतः तम् अहं पालयिष्यामि यावद् अस्मि महीतले
यावन् महीतले शक्र स्थास्याम्य् अहम् अरिंदम न तावद् अर्जुनं कश्चिद् देवेन्द्र युधि जेष्यति
कंसो नाम महाबाहुर् दैत्यो ऽरिष्टस् तथा परः केशी कुवलयापीडो नरकाद्यास् तथापरे
हतेषु तेषु देवेन्द्र भविष्यति महाहवः तत्र विद्धि सहस्राक्ष भारावतरणं कृतम्
स त्वं गच्छ न संतापं पुत्रार्थे कर्तुम् अर्हसि नार्जुनस्य रिपुः कश्चिन् ममाग्रे प्रभविष्यति
अर्जुनार्थे त्व् अहं सर्वान् युधिष्ठिरपुरोगमान् निवृत्ते भारते युद्धे कुन्त्यै दास्यामि विक्षतान्
इत्य् उक्तः संपरिष्वज्य देवराजो जनार्दनम् आरुह्यैरावतं नागं पुनर् एव दिवं ययौ
कृष्णो ऽपि सहितो गोभिर् गोपालैश् च पुनर् व्रजम् आजगामाथ गोपीनां दृष्टपूतेन वर्त्मना
गते शक्रे तु गोपालाः कृष्णम् अक्लिष्टकारिणम् ऊचुः प्रीत्या धृतं दृष्ट्वा तेन गोवर्धनाचलम्
वयम् अस्मान् महाभाग भवता महतो भयात् गावश् च भवता त्राता गिरिधारणकर्मणा
बालक्रीडेयम् अतुला गोपालत्वं जुगुप्सितम् दिव्यं च कर्म भवतः किम् एतत् तात कथ्यताम्
कालियो दमितस् तोये प्रलम्बो विनिपातितः धृतो गोवर्धनश् चायं शङ्कितानि मनांसि नः
सत्यं सत्यं हरेः पादौ श्रयामो ऽमितविक्रम यथा त्वद्वीर्यम् आलोक्य न त्वां मन्यामहे नरम्
देवो वा दानवो वा त्वं यक्षो गन्धर्व एव वा किं चास्माकं विचारेण बान्धवो ऽस्ति नमो ऽस्तु ते
प्रीतिः सस्त्रीकुमारस्य व्रजस्य तव केशव कर्म चेदम् अशक्यं यत् समस्तैस् त्रिदशैर् अपि
बालत्वं चातिवीर्यं च जन्म चास्मास्व् अशोभनम् चिन्त्यमानम् अमेयात्मञ् शङ्कां कृष्ण प्रयच्छति
क्षणं भूत्वा त्व् असौ तूष्णीं किंचित् प्रणयकोपवान् इत्य् एवम् उक्तस् तैर् गोपैर् आह कृष्णो द्विजोत्तमाः
मत्संबन्धेन वो गोपा यदि लज्जा न जायते श्लाघ्यो वाहं ततः किं वो विचारेण प्रयोजनम्
यदि वो ऽस्ति मयि प्रीतिः श्लाघ्यो ऽहं भवतां यदि तद् अर्घा बन्धुसदृशी बान्धवाः क्रियतां मयि
नाहं देवो न गन्धर्वो न यक्षो न च दानवः अहं वो बान्धवो जातो नातश् चिन्त्यम् अतो ऽन्यथा
इति श्रुत्वा हरेर् वाक्यं बद्धमौनास् ततो बलम् ययुर् गोपा महाभागास् तस्मिन् प्रणयकोपिनि
कृष्णस् तु विमलं व्योम शरच्चन्द्रस्य चन्द्रिकाम् तथा कुमुदिनीं फुल्लाम् आमोदितदिगन्तराम्
वनराजीं तथा कूजद्भृङ्गमालामनोरमाम् विलोक्य सह गोपीभिर् मनश् चक्रे रतिं प्रति
सह रामेण मधुरम् अतीव वनिताप्रियम् जगौ कमलपादो ऽसौ नाम तत्र कृतव्रतः