सुनिर्वातेषु देशेषु यथायोग्यम् इहास्यताम् प्रविश्य नात्र भेतव्यं गिरिपातस्य निर्भयैः
इत्य् उक्तास् तेन ते गोपा विविशुर् गोधनैः सह शकटारोपितैर् भाण्डैर् गोप्यश् चासारपीडिताः
कृष्णो ऽपि तं दधारैवं शैलम् अत्यन्तनिश्चलम् व्रजौकोवासिभिर् हर्षविस्मिताक्षैर् निरीक्षितः
गोपगोपीजनैर् हृष्टैः प्रीतिविस्तारितेक्षणैः संस्तूयमानचरितः कृष्णः शैलम् अधारयत्
सप्तरात्रं महामेघा ववर्षुर् नन्दगोकुले इन्द्रेण चोदिता मेघा गोपानां नाशकारिणा
ततो धृते महाशैले परित्राते च गोकुले मिथ्याप्रतिज्ञो बलभिद् वारयाम् आस तान् घनान्
व्यभ्रे नभसि देवेन्द्रे वितथे शक्रमन्त्रिते निष्क्रम्य गोकुलं हृष्टः स्वस्थानं पुनर् आगमत्
मुमोच कृष्णो ऽपि तदा गोवर्धनमहागिरिम् स्वस्थाने विस्मितमुखैर् दृष्टस् तैर् व्रजवासिभिः
धृते गोवर्धने शैले परित्राते च गोकुले रोचयाम् आस कृष्णस्य दर्शनं पाकशासनः
सो ऽधिरुह्य महानागम् ऐरावतम् अमित्रजित् गोवर्धनगिरौ कृष्णं ददर्श त्रिदशाधिपः
चारयन्तं महावीर्यं गाश् च गोपवपुर्धरम् कृत्स्नस्य जगतो गोपं वृतं गोपकुमारकैः
गरुडं च ददर्शोच्चैर् अन्तर्धानगतं द्विजाः कृतच्छायं हरेर् मूर्ध्नि पक्षाभ्यां पक्षिपुंगवम्
अवरुह्य स नागेन्द्राद् एकान्ते मधुसूदनम् शक्रः सस्मितम् आहेदं प्रीतिविस्फारितेक्षणः
कृष्ण कृष्ण शृणुष्वेदं यदर्थम् अहम् आगतः त्वत्समीपं महाबाहो नैतच् चिन्त्यं त्वयान्यथा
भारावतरणार्धाय पृथिव्याः पृथिवीतलम् अवतीर्णो ऽखिलाधारस् त्वम् एव परमेश्वर
महभङ्गविरुद्धेन मया गोकुलनाशकाः समादिष्टा महामेघास् तैश् चैतत् कदनं कृतम्
त्रातास् तापात् त्वया गावः समुत्पाट्य महागिरिम् तेनाहं तोषितो वीर कर्मणात्यद्भुतेन ते
साधितं कृष्ण देवानाम् अद्य मन्ये प्रयोजनम् त्वयायम् अद्रिप्रवरः करेणैकेन चोद्धृतः
गोभिश् च नोदितः कृष्ण त्वत्समीपम् इहागतः त्वया त्राताभिर् अत्यर्थं युष्मत्कारणकारणात्
स त्वां कृष्णाभिषेक्ष्यामि गवां वाक्यप्रचोदितः उपेन्द्रत्वे गवाम् इन्द्रो गोविन्दस् त्वं भविष्यसि
अथोपवाह्याद् आदाय घण्टाम् ऐरावताद् गजात् अभिषेकं तया चक्रे पवित्रजलपूर्णया
क्रियमाणे ऽभिषेके तु गावः कृष्णस्य तत्क्षणात् प्रस्रवोद्भूतदुग्धार्द्रां सद्यश् चक्रुर् वसुंधराम्
अभिषिच्य गवां वाक्याद् देवेन्द्रो वै जनार्दनम् प्रीत्या सप्रश्रयं कृष्णं पुनर् आह शचीपतिः
गवाम् एतत् कृतं वाक्यात् तथान्यद् अपि मे शृणु यद् ब्रवीमि महाभाग भारावतरणेच्छया
ममांशः पुरुषव्याघ्रः पृथिव्यां पृथिवीधर अवतीर्णो ऽर्जुनो नाम स रक्ष्यो भवता सदा
भारावतरणे सख्यं स ते वीरः करिष्यति स रक्षणीयो भवता यथात्मा मधुसूदन
जानामि भारते वंशे जातं पार्थं तवांशतः तम् अहं पालयिष्यामि यावद् अस्मि महीतले
यावन् महीतले शक्र स्थास्याम्य् अहम् अरिंदम न तावद् अर्जुनं कश्चिद् देवेन्द्र युधि जेष्यति
कंसो नाम महाबाहुर् दैत्यो ऽरिष्टस् तथा परः केशी कुवलयापीडो नरकाद्यास् तथापरे
हतेषु तेषु देवेन्द्र भविष्यति महाहवः तत्र विद्धि सहस्राक्ष भारावतरणं कृतम्