तथा च कृतवन्तस् ते गिरियज्ञं व्रजौकसः दधिपायसमांसाद्यैर् ददुः शैलबलिं ततः
द्विजांश् च भोजयाम् आसुः शतशो ऽथ सहस्रशः गावः शैलं ततश् चक्रुर् अर्चितास् तं प्रदक्षिणम्
वृषभाश् चाभिनर्दन्तः सतोया जलदा इव गिरिमूर्धनि गोविन्दः शैलो ऽहम् इति मूर्तिमान्
बुभुजे ऽन्नं बहुविधं गोपवर्याहृतं द्विजाः कृष्णस् तेनैव रूपेण गोपैः सह गिरेः शिरः
अधिरुह्यार्चयाम् आस द्वितीयाम् आत्मनस् तनुम् अन्तर्धानं गते तस्मिन् गोपा लब्ध्वा ततो वरान् कृत्वा गिरिमहं गोष्ठं निजम् अभ्याययुः पुनः
महे प्रतिहते शक्रो भृशं कोपसमन्वितः संवर्तकं नाम गणं तोयदानाम् अथाब्रवीत्
भो भो मेघा निशम्यैतद् वदतो वचनं मम आज्ञानन्तरम् एवाशु क्रियताम् अविचारितम्
नन्दगोपः सुदुर्बुद्धिर् गोपैर् अन्यैः सहायवान् कृष्णाश्रयबलाध्मातो महभङ्गम् अचीकरत्
आजीवो यः परं तेषां गोपत्वस्य च कारणम् ता गावो वृष्टिपातेन पीड्यन्तां वचनान् मम
अहम् अप्य् अद्रिशृङ्गाभं तुङ्गम् आरुह्य वारणम् साहाय्यं वः करिष्यामि वायूनां संगमेन च
इत्य् आज्ञप्ताः सुरेन्द्रेण मुमुचुस् ते बलाहकाः वातवर्षं महाभीमम् अभावाय गवां द्विजाः
ततः क्षणेन धरणी ककुभो ऽम्बरम् एव च एकं धारामहासारपूरणेनाभवद् द्विजाः
गावस् तु तेन पतता वर्षवातेन वेगिना धुताः प्राणाञ् जहुः सर्वास् तिर्यङ्मुखशिरोधराः
क्रोडेन वत्सान् आक्रम्य तस्थुर् अन्या द्विजोत्तमाः गावो विवत्साश् च कृता वारिपूरेण चापराः
वत्साश् च दीनवदनाः पवनाकम्पिकंधराः त्राहि त्राहीत्य् अल्पशब्दाः कृष्णम् ऊचुर् इवार्तकाः
ततस् तद् गोकुलं सर्वं गोगोपीगोपसंकुलम् अतीवार्तं हरिर् दृष्ट्वा त्राणायाचिन्तयत् तदा
एतत् कृतं महेन्द्रेण महभङ्गविरोधिना तद् एतद् अखिलं गोष्ठं त्रातव्यम् अधुना मया
इमम् अद्रिम् अहं वीर्याद् उत्पाट्योरुशिलातलम् धारयिष्यामि गोष्ठस्य पृथुच्छत्त्रम् इवोपरि
इति कृत्वा मतिं कृष्णो गोवर्धनमहीधरम् उत्पाट्यैककरेणैव धारयाम् आस लीलया
गोपांश् चाह जगन्नाथः समुत्पाटितभूधरः विशध्वम् अत्र सहिताः कृतं वर्षनिवारणम्
सुनिर्वातेषु देशेषु यथायोग्यम् इहास्यताम् प्रविश्य नात्र भेतव्यं गिरिपातस्य निर्भयैः
इत्य् उक्तास् तेन ते गोपा विविशुर् गोधनैः सह शकटारोपितैर् भाण्डैर् गोप्यश् चासारपीडिताः
कृष्णो ऽपि तं दधारैवं शैलम् अत्यन्तनिश्चलम् व्रजौकोवासिभिर् हर्षविस्मिताक्षैर् निरीक्षितः
गोपगोपीजनैर् हृष्टैः प्रीतिविस्तारितेक्षणैः संस्तूयमानचरितः कृष्णः शैलम् अधारयत्
सप्तरात्रं महामेघा ववर्षुर् नन्दगोकुले इन्द्रेण चोदिता मेघा गोपानां नाशकारिणा
ततो धृते महाशैले परित्राते च गोकुले मिथ्याप्रतिज्ञो बलभिद् वारयाम् आस तान् घनान्
व्यभ्रे नभसि देवेन्द्रे वितथे शक्रमन्त्रिते निष्क्रम्य गोकुलं हृष्टः स्वस्थानं पुनर् आगमत्
मुमोच कृष्णो ऽपि तदा गोवर्धनमहागिरिम् स्वस्थाने विस्मितमुखैर् दृष्टस् तैर् व्रजवासिभिः
धृते गोवर्धने शैले परित्राते च गोकुले रोचयाम् आस कृष्णस्य दर्शनं पाकशासनः
सो ऽधिरुह्य महानागम् ऐरावतम् अमित्रजित् गोवर्धनगिरौ कृष्णं ददर्श त्रिदशाधिपः