क्षीरवत्य इमा गावो वत्सवत्यश् च निर्वृताः तेन संवर्धितैः सस्यैः पुष्टास् तुष्टा भवन्ति वै
नासस्या नानृणा भूमिर् न बुभुक्षार्दितो जनः दृश्यते यत्र दृश्यन्ते वृष्टिमन्तो बलाहकाः
भौमम् एतत् पयो गोभिर् धत्ते सूर्यस्य वारिदः पर्जन्यः सर्वलोकस्य भवाय भुवि वर्षति
तस्मात् प्रावृषि राजानः शक्रं सर्वे मुदान्विताः महे सुरेशम् अर्घन्ति वयम् अन्ये च देहिनः
नन्दगोपस्य वचनं श्रुत्वेत्थं शक्रपूजने कोपाय त्रिदशेन्द्रस्य प्राह दामोदरस् तदा
न वयं कृषिकर्तारो वणिज्याजीविनो न च गावो ऽस्मद्दैवतं तात वयं वनचरा यतः
आन्वीक्षिकी त्रयी वार्त्ता दण्डनीतिस् तथापरा विद्याचतुष्टयं त्व् एतद् वार्त्ताम् अत्र शृणुष्व मे
कृषिर् वणिज्या तद्वच् च तृतीयं पशुपालनम् विद्या ह्य् एता महाभागा वार्त्ता वृत्तित्रयाश्रया
कर्षकाणां कृषिर् वृत्तिः पण्यं तु पणजीविनाम् अस्माकं गाः परा वृत्तिर् वार्त्ता भेदैर् इयं त्रिभिः
विद्यया यो यया युक्तस् तस्य सा दैवतं महत् सैव पूज्यार्चनीया च सैव तस्योपकारिका
यो ऽन्यस्याः फलम् अश्नन् वै पूजयत्य् अपरां नरः इह च प्रेत्य चैवासौ तात नाप्नोति शोभनम्
पूज्यन्तां प्रथिताः सीमाः सीमान्तं च पुनर् वनम् वनान्ता गिरयः सर्वे सा चास्माकं परा गतिः
गिरियज्ञस् त्व् अयं तस्माद् गोयज्ञश् च प्रवर्त्यताम् किम् अस्माकं महेन्द्रेण गावः शैलाश् च देवताः
मन्त्रयज्ञपरा विप्राः सीरयज्ञाश् च कर्षकाः गिरिगोयज्ञशीलाश् च वयम् अद्रिवनाश्रयाः
तस्माद् गोवर्धनः शैलो भवद्भिर् विविधार्हणैः अर्च्यतां पूज्यतां मेध्यं पशुं हत्वा विधानतः
सर्वघोषस्य संदोहा गृह्यन्तां मा विचार्यताम् भोज्यन्तां तेन वै विप्रास् तथान्ये चापि वाञ्छकाः
तम् अर्चितं कृते होमे भोजितेषु द्विजातिषु शरत्पुष्पकृतापीडाः परिगच्छन्तु गोगणाः
एतन् मम मतं गोपाः संप्रीत्या क्रियते यदि ततः कृता भवेत् प्रीतिर् गवाम् अद्रेस् तथा मम
इति तस्य वचः श्रुत्वा नन्दाद्यास् ते व्रजौकसः प्रीत्युत्फुल्लमुखा विप्राः साधु साध्व् इत्य् अथाब्रुवन्
शोभनं ते मतं वत्स यद् एतद् भवतोदितम् तत् करिष्याम्य् अहं सर्वं गिरियज्ञः प्रवर्त्यताम्
तथा च कृतवन्तस् ते गिरियज्ञं व्रजौकसः दधिपायसमांसाद्यैर् ददुः शैलबलिं ततः
द्विजांश् च भोजयाम् आसुः शतशो ऽथ सहस्रशः गावः शैलं ततश् चक्रुर् अर्चितास् तं प्रदक्षिणम्
वृषभाश् चाभिनर्दन्तः सतोया जलदा इव गिरिमूर्धनि गोविन्दः शैलो ऽहम् इति मूर्तिमान्
बुभुजे ऽन्नं बहुविधं गोपवर्याहृतं द्विजाः कृष्णस् तेनैव रूपेण गोपैः सह गिरेः शिरः
अधिरुह्यार्चयाम् आस द्वितीयाम् आत्मनस् तनुम् अन्तर्धानं गते तस्मिन् गोपा लब्ध्वा ततो वरान् कृत्वा गिरिमहं गोष्ठं निजम् अभ्याययुः पुनः
महे प्रतिहते शक्रो भृशं कोपसमन्वितः संवर्तकं नाम गणं तोयदानाम् अथाब्रवीत्
भो भो मेघा निशम्यैतद् वदतो वचनं मम आज्ञानन्तरम् एवाशु क्रियताम् अविचारितम्
नन्दगोपः सुदुर्बुद्धिर् गोपैर् अन्यैः सहायवान् कृष्णाश्रयबलाध्मातो महभङ्गम् अचीकरत्
आजीवो यः परं तेषां गोपत्वस्य च कारणम् ता गावो वृष्टिपातेन पीड्यन्तां वचनान् मम
अहम् अप्य् अद्रिशृङ्गाभं तुङ्गम् आरुह्य वारणम् साहाय्यं वः करिष्यामि वायूनां संगमेन च