ततस् त्व् आन्दोलिकाभिश् च नियुद्धैश् च महाबलौ व्यायामं चक्रतुस् तत्र क्षेपणीयैस् तथाश्मभिः
तल्लिप्सुर् असुरस् तत्र उभयो रममाणयोः आजगाम प्रलम्बाख्यो गोपवेषतिरोहितः
सो ऽवगाहत निःशङ्कं तेषां मध्यममानुषः मानुषं रूपम् आस्थाय प्रलम्बो दानवोत्तमः
तयोश् छिद्रान्तरप्रेप्सुर् अतिशीघ्रम् अमन्यत कृष्णं ततो रौहिणेयं हन्तुं चक्रे मनोरथम्
हरिणा क्रीडनं नाम बालक्रीडनकं ततः प्रक्रीडितास् तु ते सर्वे द्वौ द्वौ युगपद् उत्पतन्
श्रीदाम्ना सह गोविन्दः प्रलम्बेन तथा बलः गोपालैर् अपरैश् चान्ये गोपालाः सह पुप्लुवुः
श्रीदामानं ततः कृष्णः प्रलम्बं रोहिणीसुतः जितवान् कृष्णपक्षीयैर् गोपैर् अन्यैः पराजिताः
ते वाहयन्तस् त्व् अन्योन्यं भाण्डीरस्कन्धम् एत्य वै पुनर् निवृत्तास् ते सर्वे ये ये तत्र पराजिताः
संकर्षणं तु स्कन्धेन शीघ्रम् उत्क्षिप्य दानवः न तस्थौ प्रजगामैव सचन्द्र इव वारिदः
अशक्तो वहने तस्य संरम्भाद् दानवोत्तमः ववृधे सुमहाकायः प्रावृषीव बलाहकः
संकर्षणस् तु तं दृष्ट्वा दग्धशैलोपमाकृतिम् स्रग्दामलम्बाभरणं मुकुटाटोपमस्तकम्
रौद्रं शकटचक्राक्षं पादन्यासचलत्क्षितिम् ह्रियमाणस् ततः कृष्णम् इदं वचनम् अब्रवीत्
कृष्ण कृष्ण ह्रिये त्व् एष पर्वतोदग्रमूर्तिना केनापि पश्य दैत्येन गोपालच्छद्मरूपिणा
यद् अत्र सांप्रतं कार्यं मया मधुनिषूदन तत् कथ्यतां प्रयात्य् एष दुरात्मातित्वरान्वितः
तम् आह रामं गोविन्दः स्मितभिन्नौष्ठसंपुटः महात्मा रौहिणेयस्य बलवीर्यप्रमाणवित्
किम् अयं मानुषो भावो व्यक्तम् एवावलम्ब्यते सर्वात्मन् सर्वगुह्यानां गुह्याद् गुह्यात्मना त्वया
स्मराशेषजगदीश कारणं कारणाग्रज आत्मानम् एकं तद्वच् च जगत्य् एकार्णवे च यः
भवान् अहं च विश्वात्मन्न् एकम् एव हि कारणम् जगतो ऽस्य जगत्य् अर्थे भेदेनावां व्यवस्थितौ
तत् स्मर्यताम् अमेयात्मंस् त्वयात्मा जहि दानवम् मानुष्यम् एवम् आलम्ब्य बन्धूनां क्रियतां हितम्
इति संस्मारितो विप्राः कृष्णेन सुमहात्मना विहस्य पीडयाम् आस प्रलम्बं बलवान् बलः
मुष्टिना चाहन् मूर्ध्नि कोपसंरक्तलोचनः तेन चास्य प्रहारेण बहिर् याते विलोचने
स निष्कासितमस्तिष्को मुखाच् छोणितम् उद्वमन् निपपात महीपृष्ठे दैत्यवर्यो ममार च
प्रलम्बं निहतं दृष्ट्वा बलेनाद्भुतकर्मणा प्रहृष्टास् तुष्टुवुर् गोपाः साधु साध्व् इति चाब्रुवन्
संस्तूयमानो रामस् तु गोपैर् दैत्ये निपातिते प्रलम्बे सह कृष्णेन पुनर् गोकुलम् आययौ
तयोर् विहरतोर् एवं रामकेशवयोर् व्रजे प्रावृड्व्यतीता विकसत्सरोजा चाभवच् छरत्
विमलाम्बरनक्षत्रे काले चाभ्यागते व्रजम् ददर्शेन्द्रोत्सवारम्भप्रवृत्तान् व्रजवासिनः
कृष्णस् तान् उत्सुकान् दृष्ट्वा गोपान् उत्सवलालसान् कौतूहलाद् इदं वाक्यं प्राह वृद्धान् महामतिः
को ऽयं शक्रमहो नाम येन वो हर्ष आगतः प्राह तं नन्दगोपश् च पृच्छन्तम् अतिसादरम्
मेघानां पयसाम् ईशो देवराजः शतक्रतुः येन संचोदिता मेघा वर्षन्त्य् अम्बुमयं रसम्
तद्वृष्टिजनितं सस्यं वयम् अन्ये च देहिनः वर्तयामोपभुञ्जानास् तर्पयामश् च देवताः