ततः फलान्य् अनेकानि तालाग्रान् निपतन् खरः पृथिव्यां पातयाम् आस महावातो ऽम्बुदान् इव
अन्यान् अप्य् अस्य वै ज्ञातीन् आगतान् दैत्यगर्दभान् कृष्णश् चिक्षेप तालाग्रे बलभद्रश् च लीलया
क्षणेनालंकृता पृथ्वी पक्वैस् तालफलैस् तदा दैत्यगर्दभदेहैश् च मुनयः शुशुभे ऽधिकम्
ततो गावो निराबाधास् तस्मिंस् तालवने द्विजाः नवशष्पं सुखं चेरुर् यत्र भुक्तम् अभूत् पुरा
तस्मिन् रासभदैतेये सानुजे विनिपातिते सर्वगोपालगोपीनां रम्यं तालवनं बभौ
ततस् तौ जातहर्षौ तु वसुदेवसुताव् उभौ शुशुभाते महात्मानौ बालशृङ्गाव् इवर्षभौ
चारयन्तौ च गा दूरे व्याहरन्तौ च नामभिः नियोगपाशस्कन्धौ तौ वनमालाविभूषितौ
सुवर्णाञ्जनचूर्णाभ्यां तदा तौ भूषिताम्बरौ महेन्द्रायुधसंकाशौ श्वेतकृष्णाव् इवाम्बुदौ
चेरतुर् लोकसिद्धाभिः क्रीडाभिर् इतरेतरम् समस्तलोकनाथानां नाथभूतौ भुवं गतौ
मनुष्यधर्माभिरतौ मानयन्तौ मनुष्यताम् तज्जातिगुणयुक्ताभिः क्रीडाभिश् चेरतुर् वनम्
ततस् त्व् आन्दोलिकाभिश् च नियुद्धैश् च महाबलौ व्यायामं चक्रतुस् तत्र क्षेपणीयैस् तथाश्मभिः
तल्लिप्सुर् असुरस् तत्र उभयो रममाणयोः आजगाम प्रलम्बाख्यो गोपवेषतिरोहितः
सो ऽवगाहत निःशङ्कं तेषां मध्यममानुषः मानुषं रूपम् आस्थाय प्रलम्बो दानवोत्तमः
तयोश् छिद्रान्तरप्रेप्सुर् अतिशीघ्रम् अमन्यत कृष्णं ततो रौहिणेयं हन्तुं चक्रे मनोरथम्
हरिणा क्रीडनं नाम बालक्रीडनकं ततः प्रक्रीडितास् तु ते सर्वे द्वौ द्वौ युगपद् उत्पतन्
श्रीदाम्ना सह गोविन्दः प्रलम्बेन तथा बलः गोपालैर् अपरैश् चान्ये गोपालाः सह पुप्लुवुः
श्रीदामानं ततः कृष्णः प्रलम्बं रोहिणीसुतः जितवान् कृष्णपक्षीयैर् गोपैर् अन्यैः पराजिताः
ते वाहयन्तस् त्व् अन्योन्यं भाण्डीरस्कन्धम् एत्य वै पुनर् निवृत्तास् ते सर्वे ये ये तत्र पराजिताः
संकर्षणं तु स्कन्धेन शीघ्रम् उत्क्षिप्य दानवः न तस्थौ प्रजगामैव सचन्द्र इव वारिदः
अशक्तो वहने तस्य संरम्भाद् दानवोत्तमः ववृधे सुमहाकायः प्रावृषीव बलाहकः
संकर्षणस् तु तं दृष्ट्वा दग्धशैलोपमाकृतिम् स्रग्दामलम्बाभरणं मुकुटाटोपमस्तकम्
रौद्रं शकटचक्राक्षं पादन्यासचलत्क्षितिम् ह्रियमाणस् ततः कृष्णम् इदं वचनम् अब्रवीत्
कृष्ण कृष्ण ह्रिये त्व् एष पर्वतोदग्रमूर्तिना केनापि पश्य दैत्येन गोपालच्छद्मरूपिणा
यद् अत्र सांप्रतं कार्यं मया मधुनिषूदन तत् कथ्यतां प्रयात्य् एष दुरात्मातित्वरान्वितः
तम् आह रामं गोविन्दः स्मितभिन्नौष्ठसंपुटः महात्मा रौहिणेयस्य बलवीर्यप्रमाणवित्
किम् अयं मानुषो भावो व्यक्तम् एवावलम्ब्यते सर्वात्मन् सर्वगुह्यानां गुह्याद् गुह्यात्मना त्वया
स्मराशेषजगदीश कारणं कारणाग्रज आत्मानम् एकं तद्वच् च जगत्य् एकार्णवे च यः
भवान् अहं च विश्वात्मन्न् एकम् एव हि कारणम् जगतो ऽस्य जगत्य् अर्थे भेदेनावां व्यवस्थितौ
तत् स्मर्यताम् अमेयात्मंस् त्वयात्मा जहि दानवम् मानुष्यम् एवम् आलम्ब्य बन्धूनां क्रियतां हितम्
इति संस्मारितो विप्राः कृष्णेन सुमहात्मना विहस्य पीडयाम् आस प्रलम्बं बलवान् बलः