गीयमानो ऽथ गोपीभिश् चरितैश् चारुचेष्टितैः संस्तूयमानो गोपालैः कृष्णो व्रजम् उपागमत्
गाः पालयन्तौ च पुनः सहितौ रामकेशवौ भ्रममाणौ वने तत्र रम्यं तालवनं गतौ
तच् च तालवनं नित्यं धेनुको नाम दानवः नृगोमांसकृताहारः सदाध्यास्ते खराकृतिः
तत्र तालवनं रम्यं फलसंपत्समन्वितम् दृष्ट्वा स्पृहान्विता गोपाः फलादाने ऽब्रुवन् वचः
हे राम हे कृष्ण सदा धेनुकेनैव रक्ष्यते भूप्रदेशो यतस् तस्मात् त्यक्तानीमानि सन्ति वै
फलानि पश्य तालानां गन्धमोदयुतानि वै वयम् एतान्य् अभीप्सामः पात्यन्तां यदि रोचते
इति गोपकुमाराणां श्रुत्वा संकर्षणो वचः कृष्णश् च पातयाम् आस भुवि तालफलानि वै
तालानां पततां शब्दम् आकर्ण्यासुरराट् ततः आजगाम स दुष्टात्मा कोपाद् दैतेयगर्दभः
पद्भ्याम् उभाभ्यां स तदा पश्चिमाभ्यां च तं बली जघानोरसि ताभ्यां च स च तेनाप्य् अगृह्यत
गृहीत्वा भ्रामणेनैव चाम्बरे गतजीवितम् तस्मिन्न् एव प्रचिक्षेप वेगेन तृणराजनि
ततः फलान्य् अनेकानि तालाग्रान् निपतन् खरः पृथिव्यां पातयाम् आस महावातो ऽम्बुदान् इव
अन्यान् अप्य् अस्य वै ज्ञातीन् आगतान् दैत्यगर्दभान् कृष्णश् चिक्षेप तालाग्रे बलभद्रश् च लीलया
क्षणेनालंकृता पृथ्वी पक्वैस् तालफलैस् तदा दैत्यगर्दभदेहैश् च मुनयः शुशुभे ऽधिकम्
ततो गावो निराबाधास् तस्मिंस् तालवने द्विजाः नवशष्पं सुखं चेरुर् यत्र भुक्तम् अभूत् पुरा
तस्मिन् रासभदैतेये सानुजे विनिपातिते सर्वगोपालगोपीनां रम्यं तालवनं बभौ
ततस् तौ जातहर्षौ तु वसुदेवसुताव् उभौ शुशुभाते महात्मानौ बालशृङ्गाव् इवर्षभौ
चारयन्तौ च गा दूरे व्याहरन्तौ च नामभिः नियोगपाशस्कन्धौ तौ वनमालाविभूषितौ
सुवर्णाञ्जनचूर्णाभ्यां तदा तौ भूषिताम्बरौ महेन्द्रायुधसंकाशौ श्वेतकृष्णाव् इवाम्बुदौ
चेरतुर् लोकसिद्धाभिः क्रीडाभिर् इतरेतरम् समस्तलोकनाथानां नाथभूतौ भुवं गतौ
मनुष्यधर्माभिरतौ मानयन्तौ मनुष्यताम् तज्जातिगुणयुक्ताभिः क्रीडाभिश् चेरतुर् वनम्
ततस् त्व् आन्दोलिकाभिश् च नियुद्धैश् च महाबलौ व्यायामं चक्रतुस् तत्र क्षेपणीयैस् तथाश्मभिः
तल्लिप्सुर् असुरस् तत्र उभयो रममाणयोः आजगाम प्रलम्बाख्यो गोपवेषतिरोहितः
सो ऽवगाहत निःशङ्कं तेषां मध्यममानुषः मानुषं रूपम् आस्थाय प्रलम्बो दानवोत्तमः
तयोश् छिद्रान्तरप्रेप्सुर् अतिशीघ्रम् अमन्यत कृष्णं ततो रौहिणेयं हन्तुं चक्रे मनोरथम्
हरिणा क्रीडनं नाम बालक्रीडनकं ततः प्रक्रीडितास् तु ते सर्वे द्वौ द्वौ युगपद् उत्पतन्
श्रीदाम्ना सह गोविन्दः प्रलम्बेन तथा बलः गोपालैर् अपरैश् चान्ये गोपालाः सह पुप्लुवुः
श्रीदामानं ततः कृष्णः प्रलम्बं रोहिणीसुतः जितवान् कृष्णपक्षीयैर् गोपैर् अन्यैः पराजिताः
ते वाहयन्तस् त्व् अन्योन्यं भाण्डीरस्कन्धम् एत्य वै पुनर् निवृत्तास् ते सर्वे ये ये तत्र पराजिताः
संकर्षणं तु स्कन्धेन शीघ्रम् उत्क्षिप्य दानवः न तस्थौ प्रजगामैव सचन्द्र इव वारिदः
अशक्तो वहने तस्य संरम्भाद् दानवोत्तमः ववृधे सुमहाकायः प्रावृषीव बलाहकः