व्रणाः फणे ऽभवंस् तस्य कृष्णस्याङ्घ्रिविकुट्टनैः यत्रोन्नतिं च कुरुते ननामास्य ततः शिरः
मूर्छाम् उपाययौ भ्रान्त्या नागः कृष्णस्य कुट्टनैः दण्डपातनिपातेन ववाम रुधिरं बहु
तं निर्भुग्नशिरोग्रीवम् आस्यप्रस्रुतशोणितम् विलोक्य शरणं जग्मुस् तत्पत्न्यो मधुसूदनम्
ज्ञातो ऽसि देवदेवेश सर्वेशस् त्वम् अनुत्तम परं ज्योतिर् अचिन्त्यं यत् तदंशः परमेश्वरः
न समर्थाः सुर स्तोतुं यम् अनन्यभवं प्रभुम् स्वरूपवर्णनं तस्य कथं योषित् करिष्यति
यस्याखिलमहीव्योमजलाग्निपवनात्मकम् ब्रह्माण्डम् अल्पकांशांशः स्तोष्यामस् तं कथं वयम्
ततः कुरु जगत्स्वामिन् प्रसादम् अवसीदतः प्राणांस् त्यजति नागो ऽयं भर्तृभिक्षा प्रदीयताम्
इत्य् उक्ते ताभिर् आश्वास्य क्लान्तदेहो ऽपि पन्नगः प्रसीद देवदेवेति प्राह वाक्यं शनैः शनैः
तवाष्टगुणम् ऐश्वर्यं नाथ स्वाभाविकं परम् निरस्तातिशयं यस्य तस्य स्तोष्यामि किं न्व् अहम्
त्वं परस् त्वं परस्याद्यः परं त्वं तत्परात्मकम् परस्मात् परमो यस् त्वं तस्य स्तोष्यामि किं न्व् अहम्
यथाहं भवता सृष्टो जात्या रूपेण चेश्वरः स्वभावेन च संयुक्तस् तथेदं चेष्टितं मया
यद्य् अन्यथा प्रवर्तेय देवदेव ततो मयि न्याय्यो दण्डनिपातस् ते तवैव वचनं यथा
तथापि यं जगत्स्वामी दण्डं पातितवान् मयि स सोढो ऽयं वरो दण्डस् त्वत्तो नान्यो ऽस्तु मे वरः
हतवीर्यो हतविषो दमितो ऽहं त्वयाच्युत जीवितं दीयताम् एकम् आज्ञापय करोमि किम्
नात्र स्थेयं त्वया सर्प कदाचिद् यमुनाजले सभृत्यपरिवारस् त्वं समुद्रसलिलं व्रज
मत्पदानि च ते सर्प दृष्ट्वा मूर्धनि सागरे गरुडः पन्नगरिपुस् त्वयि न प्रहरिष्यति
इत्य् उक्त्वा सर्पराजानं मुमोच भगवान् हरिः प्रणम्य सो ऽपि कृष्णाय जगाम पयसां निधिम्
पश्यतां सर्वभूतानां सभृत्यापत्यबन्धवः समस्तभार्यासहितः परित्यज्य स्वकं ह्रदम्
गते सर्पे परिष्वज्य मृतं पुनर् इवागतम् गोपा मूर्धनि गोविन्दं सिषिचुर् नेत्रजैर् जलैः
कृष्णम् अक्लिष्टकर्माणम् अन्ये विस्मितचेतसः तुष्टुवुर् मुदिता गोपा दृष्ट्वा शिवजलां नदीम्
गीयमानो ऽथ गोपीभिश् चरितैश् चारुचेष्टितैः संस्तूयमानो गोपालैः कृष्णो व्रजम् उपागमत्
गाः पालयन्तौ च पुनः सहितौ रामकेशवौ भ्रममाणौ वने तत्र रम्यं तालवनं गतौ
तच् च तालवनं नित्यं धेनुको नाम दानवः नृगोमांसकृताहारः सदाध्यास्ते खराकृतिः
तत्र तालवनं रम्यं फलसंपत्समन्वितम् दृष्ट्वा स्पृहान्विता गोपाः फलादाने ऽब्रुवन् वचः
हे राम हे कृष्ण सदा धेनुकेनैव रक्ष्यते भूप्रदेशो यतस् तस्मात् त्यक्तानीमानि सन्ति वै
फलानि पश्य तालानां गन्धमोदयुतानि वै वयम् एतान्य् अभीप्सामः पात्यन्तां यदि रोचते
इति गोपकुमाराणां श्रुत्वा संकर्षणो वचः कृष्णश् च पातयाम् आस भुवि तालफलानि वै
तालानां पततां शब्दम् आकर्ण्यासुरराट् ततः आजगाम स दुष्टात्मा कोपाद् दैतेयगर्दभः
पद्भ्याम् उभाभ्यां स तदा पश्चिमाभ्यां च तं बली जघानोरसि ताभ्यां च स च तेनाप्य् अगृह्यत
गृहीत्वा भ्रामणेनैव चाम्बरे गतजीवितम् तस्मिन्न् एव प्रचिक्षेप वेगेन तृणराजनि