नागपत्न्यश् च शतशो हारिहारोपशोभिताः प्रकम्पिततनूत्क्षेपचलत्कुण्डलकान्तयः
ततः प्रवेष्टितः सर्पैः स कृष्णो भोगबन्धनैः ददंशुश् चापि ते कृष्णं विषज्वालाविलैर् मुखैः
तं तत्र पतितं दृष्ट्वा नागभोगनिपीडितम् गोपा व्रजम् उपागत्य चुक्रुशुः शोकलालसाः
एष कृष्णो गतो मोहमग्नो वै कालिये ह्रदे भक्ष्यते सर्पराजेन तद् आगच्छत मा चिरम्
एतच् छ्रुत्वा ततो गोपा वज्रपातोपमं वचः गोप्यश् च त्वरिता जग्मुर् यशोदाप्रमुखा ह्रदम्
हा हा क्वासाव् इति जनो गोपीनाम् अतिविह्वलः यशोदया समं भ्रान्तो द्रुतः प्रस्खलितो ययौ
नन्दगोपश् च गोपाश् च रामश् चाद्भुतविक्रमः त्वरितं यमुनां जग्मुः कृष्णदर्शनलालसाः
ददृशुश् चापि ते तत्र सर्पराजवशंगतम् निष्प्रयत्नं कृतं कृष्णं सर्पभोगेन वेष्टितम्
नन्दगोपश् च निश्चेष्टः पश्यन् पुत्रमुखं भृशम् यशोदा च महाभागा बभूव मुनिसत्तमाः
गोप्यस् त्व् अन्या रुदत्यश् च ददृशुः शोककातराः प्रोचुश् च केशवं प्रीत्या भयकातरगद्गदम्
सर्वा यशोदया सार्धं विशामो ऽत्र महाह्रदे नागराजस्य नो गन्तुम् अस्माकं युज्यते व्रजे
दिवसः को विना सूर्यं विना चन्द्रेण का निशा विना दुग्धेन का गावो विना कृष्णेन को व्रजः विनाकृता न यास्यामः कृष्णेनानेन गोकुलम्
इति गोपीवचः श्रुत्वा रौहिणेयो महाबलः उवाच गोपान् विधुरान् विलोक्य स्तिमितेक्षणः
नन्दं च दीनम् अत्यर्थं न्यस्तदृष्टिं सुतानने मूर्छाकुलां यशोदां च कृष्णमाहात्म्यसंज्ञया
किम् अयं देवदेवेश भावो ऽयं मानुषस् त्वया व्यज्यते स्वं तम् आत्मानं किम् अन्यं त्वं न वेत्सि यत्
त्वम् अस्य जगतो नाभिः सुराणाम् एव चाश्रयः कर्तापहर्ता पाता च त्रैलोक्यं त्वं त्रयीमयः
अत्रावतीर्णयोः कृष्ण गोपा एव हि बान्धवाः गोप्यश् च सीदतः कस्मात् त्वं बन्धून् समुपेक्षसे
दर्शितो मानुषो भावो दर्शितं बालचेष्टितम् तद् अयं दम्यतां कृष्ण दुरात्मा दशनायुधः
इति संस्मारितः कृष्णः स्मितभिन्नौष्ठसंपुटः आस्फाल्य मोचयाम् आस स्वं देहं भोगबन्धनात्
आनाम्य चापि हस्ताभ्याम् उभाभ्यां मध्यमं फणम् आरुह्य भुग्नशिरसः प्रननर्तोरुविक्रमः
व्रणाः फणे ऽभवंस् तस्य कृष्णस्याङ्घ्रिविकुट्टनैः यत्रोन्नतिं च कुरुते ननामास्य ततः शिरः
मूर्छाम् उपाययौ भ्रान्त्या नागः कृष्णस्य कुट्टनैः दण्डपातनिपातेन ववाम रुधिरं बहु
तं निर्भुग्नशिरोग्रीवम् आस्यप्रस्रुतशोणितम् विलोक्य शरणं जग्मुस् तत्पत्न्यो मधुसूदनम्
ज्ञातो ऽसि देवदेवेश सर्वेशस् त्वम् अनुत्तम परं ज्योतिर् अचिन्त्यं यत् तदंशः परमेश्वरः
न समर्थाः सुर स्तोतुं यम् अनन्यभवं प्रभुम् स्वरूपवर्णनं तस्य कथं योषित् करिष्यति
यस्याखिलमहीव्योमजलाग्निपवनात्मकम् ब्रह्माण्डम् अल्पकांशांशः स्तोष्यामस् तं कथं वयम्
ततः कुरु जगत्स्वामिन् प्रसादम् अवसीदतः प्राणांस् त्यजति नागो ऽयं भर्तृभिक्षा प्रदीयताम्
इत्य् उक्ते ताभिर् आश्वास्य क्लान्तदेहो ऽपि पन्नगः प्रसीद देवदेवेति प्राह वाक्यं शनैः शनैः
तवाष्टगुणम् ऐश्वर्यं नाथ स्वाभाविकं परम् निरस्तातिशयं यस्य तस्य स्तोष्यामि किं न्व् अहम्
त्वं परस् त्वं परस्याद्यः परं त्वं तत्परात्मकम् परस्मात् परमो यस् त्वं तस्य स्तोष्यामि किं न्व् अहम्