अस्मिन् वसति दुष्टात्मा कालीयो ऽसौ विषायुधः यो मया निर्जितस् त्यक्त्वा दुष्टो नष्टः पयोनिधौ
तेनेयं दूषिता सर्वा यमुना सागरंगमा न नरैर् गोधनैर् वापि तृषार्तैर् उपभुज्यते
तद् अस्य नागराजस्य कर्तव्यो निग्रहो मया नित्यत्रस्ताः सुखं येन चरेयुर् व्रजवासिनः
एतदर्थं नृलोके ऽस्मिन्न् अवतारो मया कृतः यद् एषाम् उत्पथस्थानां कार्या शास्तिर् दुरात्मनाम्
तद् एतन् नातिदूरस्थं कदम्बम् उरुशाखिनम् अधिरुह्योत्पतिष्यामि ह्रदे ऽस्मिञ् जीवनाशिनः
इत्थं विचिन्त्य बद्ध्वा च गाढं परिकरं ततः निपपात ह्रदे तत्र सर्पराजस्य वेगतः
तेनापि पतता तत्र क्षोभितः स महाह्रदः अत्यर्थदूरजातांश् च तांश् चासिञ्चन् महीरुहान्
ते ऽहिदुष्टविषज्वालातप्ताम्बुतपनोक्षिताः जज्वलुः पादपाः सद्यो ज्वालाव्याप्तदिगन्तराः
आस्फोटयाम् आस तदा कृष्णो नागह्रदं भुजैः तच्छब्दश्रवणाच् चाथ नागराजो ऽभ्युपागमत्
आताम्रनयनः कोपाद् विषज्वालाकुलैः फणैः वृतो महाविषैश् चान्यैर् अरुणैर् अनिलाशनैः
नागपत्न्यश् च शतशो हारिहारोपशोभिताः प्रकम्पिततनूत्क्षेपचलत्कुण्डलकान्तयः
ततः प्रवेष्टितः सर्पैः स कृष्णो भोगबन्धनैः ददंशुश् चापि ते कृष्णं विषज्वालाविलैर् मुखैः
तं तत्र पतितं दृष्ट्वा नागभोगनिपीडितम् गोपा व्रजम् उपागत्य चुक्रुशुः शोकलालसाः
एष कृष्णो गतो मोहमग्नो वै कालिये ह्रदे भक्ष्यते सर्पराजेन तद् आगच्छत मा चिरम्
एतच् छ्रुत्वा ततो गोपा वज्रपातोपमं वचः गोप्यश् च त्वरिता जग्मुर् यशोदाप्रमुखा ह्रदम्
हा हा क्वासाव् इति जनो गोपीनाम् अतिविह्वलः यशोदया समं भ्रान्तो द्रुतः प्रस्खलितो ययौ
नन्दगोपश् च गोपाश् च रामश् चाद्भुतविक्रमः त्वरितं यमुनां जग्मुः कृष्णदर्शनलालसाः
ददृशुश् चापि ते तत्र सर्पराजवशंगतम् निष्प्रयत्नं कृतं कृष्णं सर्पभोगेन वेष्टितम्
नन्दगोपश् च निश्चेष्टः पश्यन् पुत्रमुखं भृशम् यशोदा च महाभागा बभूव मुनिसत्तमाः
गोप्यस् त्व् अन्या रुदत्यश् च ददृशुः शोककातराः प्रोचुश् च केशवं प्रीत्या भयकातरगद्गदम्
सर्वा यशोदया सार्धं विशामो ऽत्र महाह्रदे नागराजस्य नो गन्तुम् अस्माकं युज्यते व्रजे
दिवसः को विना सूर्यं विना चन्द्रेण का निशा विना दुग्धेन का गावो विना कृष्णेन को व्रजः विनाकृता न यास्यामः कृष्णेनानेन गोकुलम्
इति गोपीवचः श्रुत्वा रौहिणेयो महाबलः उवाच गोपान् विधुरान् विलोक्य स्तिमितेक्षणः
नन्दं च दीनम् अत्यर्थं न्यस्तदृष्टिं सुतानने मूर्छाकुलां यशोदां च कृष्णमाहात्म्यसंज्ञया
किम् अयं देवदेवेश भावो ऽयं मानुषस् त्वया व्यज्यते स्वं तम् आत्मानं किम् अन्यं त्वं न वेत्सि यत्
त्वम् अस्य जगतो नाभिः सुराणाम् एव चाश्रयः कर्तापहर्ता पाता च त्रैलोक्यं त्वं त्रयीमयः
अत्रावतीर्णयोः कृष्ण गोपा एव हि बान्धवाः गोप्यश् च सीदतः कस्मात् त्वं बन्धून् समुपेक्षसे
दर्शितो मानुषो भावो दर्शितं बालचेष्टितम् तद् अयं दम्यतां कृष्ण दुरात्मा दशनायुधः
इति संस्मारितः कृष्णः स्मितभिन्नौष्ठसंपुटः आस्फाल्य मोचयाम् आस स्वं देहं भोगबन्धनात्
आनाम्य चापि हस्ताभ्याम् उभाभ्यां मध्यमं फणम् आरुह्य भुग्नशिरसः प्रननर्तोरुविक्रमः