गोपपुत्रैः समं वत्सांश् चारयन्तौ विचेरतुः कालेन गच्छता तौ तु सप्तवर्षौ बभूवतुः
सर्वस्य जगतः पालौ वत्सपालौ महाव्रजे प्रावृट्कालस् ततो ऽतीव मेघौघस्थगिताम्बरः
बभूव वारिधाराभिर् ऐक्यं कुर्वन् दिशाम् इव प्ररूढनवपुष्पाढ्या शक्रगोपवृता मही
यथा मारकते वासीत् पद्मरागविभूषिता ऊहुर् उन्मार्गगामीनि निम्नगाम्भांसि सर्वतः
मनांसि दुर्विनीतानां प्राप्य लक्ष्मीं नवाम् इव विकाले च यथाकामं व्रजम् एत्य महाबलौ गोपैः समानैः सहितौ चिक्रीडाते ऽमराव् इव
एकदा तु विना रामं कृष्णो वृन्दावनं ययौ विचचार वृतो गोपैर् वन्यपुष्पस्रगुज्ज्वलः
स जगामाथ कालिन्दीं लोलकल्लोलशालिनीम् तीरसंलग्नफेनौघैर् हसन्तीम् इव सर्वतः
तस्यां चातिमहाभीमं विषाग्निकणदूषितम् ह्रदं कालीयनागस्य ददर्शातिविभीषणम्
विषाग्निना विसरता दग्धतीरमहातरुम् वाताहताम्बुविक्षेपस्पर्शदग्धविहंगमम्
तम् अतीव महारौद्रं मृत्युवक्त्रम् इवापरम् विलोक्य चिन्तयाम् आस भगवान् मधुसूदनः
अस्मिन् वसति दुष्टात्मा कालीयो ऽसौ विषायुधः यो मया निर्जितस् त्यक्त्वा दुष्टो नष्टः पयोनिधौ
तेनेयं दूषिता सर्वा यमुना सागरंगमा न नरैर् गोधनैर् वापि तृषार्तैर् उपभुज्यते
तद् अस्य नागराजस्य कर्तव्यो निग्रहो मया नित्यत्रस्ताः सुखं येन चरेयुर् व्रजवासिनः
एतदर्थं नृलोके ऽस्मिन्न् अवतारो मया कृतः यद् एषाम् उत्पथस्थानां कार्या शास्तिर् दुरात्मनाम्
तद् एतन् नातिदूरस्थं कदम्बम् उरुशाखिनम् अधिरुह्योत्पतिष्यामि ह्रदे ऽस्मिञ् जीवनाशिनः
इत्थं विचिन्त्य बद्ध्वा च गाढं परिकरं ततः निपपात ह्रदे तत्र सर्पराजस्य वेगतः
तेनापि पतता तत्र क्षोभितः स महाह्रदः अत्यर्थदूरजातांश् च तांश् चासिञ्चन् महीरुहान्
ते ऽहिदुष्टविषज्वालातप्ताम्बुतपनोक्षिताः जज्वलुः पादपाः सद्यो ज्वालाव्याप्तदिगन्तराः
आस्फोटयाम् आस तदा कृष्णो नागह्रदं भुजैः तच्छब्दश्रवणाच् चाथ नागराजो ऽभ्युपागमत्
आताम्रनयनः कोपाद् विषज्वालाकुलैः फणैः वृतो महाविषैश् चान्यैर् अरुणैर् अनिलाशनैः
नागपत्न्यश् च शतशो हारिहारोपशोभिताः प्रकम्पिततनूत्क्षेपचलत्कुण्डलकान्तयः
ततः प्रवेष्टितः सर्पैः स कृष्णो भोगबन्धनैः ददंशुश् चापि ते कृष्णं विषज्वालाविलैर् मुखैः
तं तत्र पतितं दृष्ट्वा नागभोगनिपीडितम् गोपा व्रजम् उपागत्य चुक्रुशुः शोकलालसाः
एष कृष्णो गतो मोहमग्नो वै कालिये ह्रदे भक्ष्यते सर्पराजेन तद् आगच्छत मा चिरम्
एतच् छ्रुत्वा ततो गोपा वज्रपातोपमं वचः गोप्यश् च त्वरिता जग्मुर् यशोदाप्रमुखा ह्रदम्
हा हा क्वासाव् इति जनो गोपीनाम् अतिविह्वलः यशोदया समं भ्रान्तो द्रुतः प्रस्खलितो ययौ
नन्दगोपश् च गोपाश् च रामश् चाद्भुतविक्रमः त्वरितं यमुनां जग्मुः कृष्णदर्शनलालसाः
ददृशुश् चापि ते तत्र सर्पराजवशंगतम् निष्प्रयत्नं कृतं कृष्णं सर्पभोगेन वेष्टितम्
नन्दगोपश् च निश्चेष्टः पश्यन् पुत्रमुखं भृशम् यशोदा च महाभागा बभूव मुनिसत्तमाः
गोप्यस् त्व् अन्या रुदत्यश् च ददृशुः शोककातराः प्रोचुश् च केशवं प्रीत्या भयकातरगद्गदम्