यदि शक्तो ऽसि गच्छ त्वम् अतिचञ्चलचेष्टित
इत्य् उक्त्वा च निजं कर्म सा चकार कुटुम्बिनी व्यग्रायाम् अथ तस्यां स कर्षमाण उलूखलम्
यमलार्जुनयोर् मध्ये जगाम कमलेक्षणः कर्षता वृक्षयोर् मध्ये तिर्यग् एवम् उलूखलम्
भग्नाव् उत्तुङ्गशाखाग्रौ तेन तौ यमलार्जुनौ ततः कटकटाशब्दसमाकर्णनकातरः
आजगाम व्रजजनो ददृशे च महाद्रुमौ भग्नस्कन्धौ निपातितौ भग्नशाखौ महीतले
ददर्श चाल्पदन्तास्यं स्मितहासं च बालकम् तयोर् मध्यगतं बद्धं दाम्ना गाढं तथोदरे
ततश् च दामोदरतां स ययौ दामबन्धनात् गोपवृद्धास् ततः सर्वे नन्दगोपपुरोगमाः
मन्त्रयाम् आसुर् उद्विग्ना महोत्पातातिभीरवः स्थानेनेह न नः कार्यं व्रजामो ऽन्यन् महावनम्
उत्पाता बहवो ह्य् अत्र दृश्यन्ते नाशहेतवः पूतनाया विनाशश् च शकटस्य विपर्ययः
विना वातादिदोषेण द्रुमयोः पतनं तथा वृन्दावनम् इतः स्थानात् तस्माद् गच्छाम मा चिरम्
यावद् भौममहोत्पातदोषो नाभिभवेद् व्रजम् इति कृत्वा मतिं सर्वे गमने ते व्रजौकसः
ऊचुः स्वं स्वं कुलं शीघ्रं गम्यतां मा विलम्ब्यताम् ततः क्षणेन प्रययुः शकटैर् गोधनैस् तथा
यूथशो वत्सपालीश् च कालयन्तो व्रजौकसः सर्वावयवनिर्धूतं क्षणमात्रेण तत् तदा
काककाकीसमाकीर्णं व्रजस्थानम् अभूद् द्विजाः वृन्दावनं भगवता कृष्णेनाक्लिष्टकर्मणा
शुभेन मनसा ध्यातं गवां वृद्धिम् अभीप्सता ततस् तत्रातिरुक्षे ऽपि धर्मकाले द्विजोत्तमाः
प्रावृट्काल इवाभूच् च नवशष्पं समन्ततः स समावासितः सर्वो व्रजो वृन्दावने ततः
शकटीवाटपर्यन्तचन्द्रार्धाकारसंस्थितिः वत्सबालौ च संवृत्तौ रामदामोदरौ ततः
तत्र स्थितौ तौ च गोष्ठे चेरतुर् बाललीलया बर्हिपत्त्रकृतापीडौ वन्यपुष्पावतंसकौ
गोपवेणुकृतातोद्यपत्त्रवाद्यकृतस्वनौ काकपक्षधरौ बालौ कुमाराव् इव पावकौ
हसन्तौ च रमन्तौ च चेरतुस् तन् महद् वनम् क्वचिद् धसन्ताव् अन्योन्यं क्रीडमानौ तथा परैः
गोपपुत्रैः समं वत्सांश् चारयन्तौ विचेरतुः कालेन गच्छता तौ तु सप्तवर्षौ बभूवतुः
सर्वस्य जगतः पालौ वत्सपालौ महाव्रजे प्रावृट्कालस् ततो ऽतीव मेघौघस्थगिताम्बरः
बभूव वारिधाराभिर् ऐक्यं कुर्वन् दिशाम् इव प्ररूढनवपुष्पाढ्या शक्रगोपवृता मही
यथा मारकते वासीत् पद्मरागविभूषिता ऊहुर् उन्मार्गगामीनि निम्नगाम्भांसि सर्वतः
मनांसि दुर्विनीतानां प्राप्य लक्ष्मीं नवाम् इव विकाले च यथाकामं व्रजम् एत्य महाबलौ गोपैः समानैः सहितौ चिक्रीडाते ऽमराव् इव
एकदा तु विना रामं कृष्णो वृन्दावनं ययौ विचचार वृतो गोपैर् वन्यपुष्पस्रगुज्ज्वलः
स जगामाथ कालिन्दीं लोलकल्लोलशालिनीम् तीरसंलग्नफेनौघैर् हसन्तीम् इव सर्वतः
तस्यां चातिमहाभीमं विषाग्निकणदूषितम् ह्रदं कालीयनागस्य ददर्शातिविभीषणम्
विषाग्निना विसरता दग्धतीरमहातरुम् वाताहताम्बुविक्षेपस्पर्शदग्धविहंगमम्
तम् अतीव महारौद्रं मृत्युवक्त्रम् इवापरम् विलोक्य चिन्तयाम् आस भगवान् मधुसूदनः