रुदता दृष्टम् अस्माभिः पादविक्षेपताडितम् शकटं परिवृत्तं वै नैतद् अन्यस्य चेष्टितम्
ततः पुनर् अतीवासन् गोपा विस्मितचेतसः नन्दगोपो ऽपि जग्राह बालम् अत्यन्तविस्मितः
यशोदा विस्मयारूढा भग्नभाण्डकपालकम् शकटं चार्चयाम् आस दधिपुष्पफलाक्षतैः
गर्गश् च गोकुले तत्र वसुदेवप्रचोदितः प्रच्छन्न एव गोपानां संस्कारम् अकरोत् तयोः
ज्येष्ठं च रामम् इत्य् आह कृष्णं चैव तथापरम् गर्गो मतिमतां श्रेष्ठो नाम कुर्वन् महामतिः
अल्पेनैव हि कालेन विज्ञातौ तौ महाबलौ घृष्टजानुकरौ विप्रा बभूवतुर् उभाव् अपि
करीषभस्मदिग्धाङ्गौ भ्रममाणाव् इतस् ततः न निवारयितुं शक्ता यशोदा तौ न रोहिणी
गोवाटमध्ये क्रीडन्तौ वत्सवाटगतौ पुनः तदहर्जातगोवत्सपुच्छाकर्षणतत्परौ
यदा यशोदा तौ बालाव् एकस्थानचराव् उभौ शशाक नो वारयितुं क्रीडन्ताव् अतिचञ्चलौ
दाम्ना बद्ध्वा तदा मध्ये निबबन्ध उलूखले कृष्णम् अक्लिष्टकर्माणम् आह चेदम् अमर्षिता
यदि शक्तो ऽसि गच्छ त्वम् अतिचञ्चलचेष्टित
इत्य् उक्त्वा च निजं कर्म सा चकार कुटुम्बिनी व्यग्रायाम् अथ तस्यां स कर्षमाण उलूखलम्
यमलार्जुनयोर् मध्ये जगाम कमलेक्षणः कर्षता वृक्षयोर् मध्ये तिर्यग् एवम् उलूखलम्
भग्नाव् उत्तुङ्गशाखाग्रौ तेन तौ यमलार्जुनौ ततः कटकटाशब्दसमाकर्णनकातरः
आजगाम व्रजजनो ददृशे च महाद्रुमौ भग्नस्कन्धौ निपातितौ भग्नशाखौ महीतले
ददर्श चाल्पदन्तास्यं स्मितहासं च बालकम् तयोर् मध्यगतं बद्धं दाम्ना गाढं तथोदरे
ततश् च दामोदरतां स ययौ दामबन्धनात् गोपवृद्धास् ततः सर्वे नन्दगोपपुरोगमाः
मन्त्रयाम् आसुर् उद्विग्ना महोत्पातातिभीरवः स्थानेनेह न नः कार्यं व्रजामो ऽन्यन् महावनम्
उत्पाता बहवो ह्य् अत्र दृश्यन्ते नाशहेतवः पूतनाया विनाशश् च शकटस्य विपर्ययः
विना वातादिदोषेण द्रुमयोः पतनं तथा वृन्दावनम् इतः स्थानात् तस्माद् गच्छाम मा चिरम्
यावद् भौममहोत्पातदोषो नाभिभवेद् व्रजम् इति कृत्वा मतिं सर्वे गमने ते व्रजौकसः
ऊचुः स्वं स्वं कुलं शीघ्रं गम्यतां मा विलम्ब्यताम् ततः क्षणेन प्रययुः शकटैर् गोधनैस् तथा
यूथशो वत्सपालीश् च कालयन्तो व्रजौकसः सर्वावयवनिर्धूतं क्षणमात्रेण तत् तदा
काककाकीसमाकीर्णं व्रजस्थानम् अभूद् द्विजाः वृन्दावनं भगवता कृष्णेनाक्लिष्टकर्मणा
शुभेन मनसा ध्यातं गवां वृद्धिम् अभीप्सता ततस् तत्रातिरुक्षे ऽपि धर्मकाले द्विजोत्तमाः
प्रावृट्काल इवाभूच् च नवशष्पं समन्ततः स समावासितः सर्वो व्रजो वृन्दावने ततः
शकटीवाटपर्यन्तचन्द्रार्धाकारसंस्थितिः वत्सबालौ च संवृत्तौ रामदामोदरौ ततः
तत्र स्थितौ तौ च गोष्ठे चेरतुर् बाललीलया बर्हिपत्त्रकृतापीडौ वन्यपुष्पावतंसकौ
गोपवेणुकृतातोद्यपत्त्रवाद्यकृतस्वनौ काकपक्षधरौ बालौ कुमाराव् इव पावकौ
हसन्तौ च रमन्तौ च चेरतुस् तन् महद् वनम् क्वचिद् धसन्ताव् अन्योन्यं क्रीडमानौ तथा परैः