इत्य् उक्ताः प्रययुर् गोपा नन्दगोपपुरोगमाः शकटारोपितैर् भाण्डैः करं दत्त्वा महाबलाः
वसतां गोकुले तेषां पूतना बालघातिनी सुप्तं कृष्णम् उपादाय रात्रौ च प्रददौ स्तनम्
यस्मै यस्मै स्तनं रात्रौ पूतना संप्रयच्छति तस्य तस्य क्षणेनाङ्गं बालकस्योपहन्यते
कृष्णस् तस्याः स्तनं गाढं कराभ्याम् अतिपीडितम् गृहीत्वा प्राणसहितं पपौ क्रोधसमन्वितः
सा विमुक्तमहारावा विच्छिन्नस्नायुबन्धना पपात पूतना भूमौ म्रियमाणातिभीषणा
तन्नादश्रुतिसंत्रासाद् विबुद्धास् ते व्रजौकसः ददृशुः पूतनोत्सङ्गे कृष्णं तां च निपातिताम्
आदाय कृष्णं संत्रस्ता यशोदा च ततो द्विजाः गोपुच्छभ्रामणाद्यैश् च बालदोषम् अपाकरोत्
गोपुरीषम् उपादाय नन्दगोपो ऽपि मस्तके कृष्णस्य प्रददौ रक्षां कुर्वन्न् इदम् उदैरयत्
रक्षतु त्वाम् अशेषाणां भूतानां प्रभवो हरिः यस्य नाभिसमुद्भूतात् पङ्कजाद् अभवज् जगत्
येन दंष्ट्राग्रविधृता धारयत्य् अवनी जगत् वराहरूपधृग् देवः स त्वां रक्षतु केशवः
गुह्यं स जठरं विष्णुर् जङ्घापादौ जनार्दनः वामनो रक्षतु सदा भवन्तं यः क्षणाद् अभूत्
त्रिविक्रमक्रमाक्रान्तत्रैलोक्यस्फुरदायुधः शिरस् ते पातु गोविन्दः कण्ठं रक्षतु केशवः
मुखबाहू प्रबाहू च मनः सर्वेन्द्रियाणि च रक्षत्व् अव्याहतैश्वर्यस् तव नारायणो ऽव्ययः
त्वां दिक्षु पातु वैकुण्ठो विदिक्षु मधुसूदनः हृषीकेशो ऽम्बरे भूमौ रक्षतु त्वां महीधरः
एवं कृतस्वस्त्ययनो नन्दगोपेन बालकः शायितः शकटस्याधो बालपर्यङ्किकातले
ते च गोपा महद् दृष्ट्वा पूतनायाः कलेवरम् मृतायाः परमं त्रासं विस्मयं च तदा ययुः
कदाचिच् छकटस्याधः शयानो मधुसूदनः चिक्षेप चरणाव् ऊर्ध्वं स्तनार्थी प्ररुरोद च
तस्य पादप्रहारेण शकटं परिवर्तितम् विध्वस्तभाण्डकुम्भं तद् विपरीतं पपात वै
ततो हाहाकृतः सर्वो गोपगोपीजनो द्विजाः आजगाम तदा ज्ञात्वा बालम् उत्तानशायिनम्
गोपाः केनेति जगदुः शकटं परिवर्तितम् तत्रैव बालकाः प्रोचुर् बालेनानेन पातितम्
रुदता दृष्टम् अस्माभिः पादविक्षेपताडितम् शकटं परिवृत्तं वै नैतद् अन्यस्य चेष्टितम्
ततः पुनर् अतीवासन् गोपा विस्मितचेतसः नन्दगोपो ऽपि जग्राह बालम् अत्यन्तविस्मितः
यशोदा विस्मयारूढा भग्नभाण्डकपालकम् शकटं चार्चयाम् आस दधिपुष्पफलाक्षतैः
गर्गश् च गोकुले तत्र वसुदेवप्रचोदितः प्रच्छन्न एव गोपानां संस्कारम् अकरोत् तयोः
ज्येष्ठं च रामम् इत्य् आह कृष्णं चैव तथापरम् गर्गो मतिमतां श्रेष्ठो नाम कुर्वन् महामतिः
अल्पेनैव हि कालेन विज्ञातौ तौ महाबलौ घृष्टजानुकरौ विप्रा बभूवतुर् उभाव् अपि
करीषभस्मदिग्धाङ्गौ भ्रममाणाव् इतस् ततः न निवारयितुं शक्ता यशोदा तौ न रोहिणी
गोवाटमध्ये क्रीडन्तौ वत्सवाटगतौ पुनः तदहर्जातगोवत्सपुच्छाकर्षणतत्परौ
यदा यशोदा तौ बालाव् एकस्थानचराव् उभौ शशाक नो वारयितुं क्रीडन्ताव् अतिचञ्चलौ
दाम्ना बद्ध्वा तदा मध्ये निबबन्ध उलूखले कृष्णम् अक्लिष्टकर्माणम् आह चेदम् अमर्षिता