तस्माद् बालेषु परमो यत्नः कार्यो महीतले यत्रोद्रिक्तं बलं बाले स हन्तव्यः प्रयत्नतः
इत्य् आज्ञाप्यासुरान् कंसः प्रविश्यात्मगृहं ततः उवाच वसुदेवं च देवकीम् अविरोधतः
युवयोर् घातिता गर्भा वृथैवैते मयाधुना को ऽप्य् अन्य एव नाशाय बालो मम समुद्गतः
तद् अलं परितापेन नूनं यद् भाविनो हि ते अर्भका युवयोः को वा आयुषो ऽन्ते न हन्यते
इत्य् आश्वास्य विमुच्यैव कंसस् तौ परितोष्य च अन्तर्गृहं द्विजश्रेष्ठाः प्रविवेश पुनः स्वकम्
विमुक्तो वसुदेवो ऽपि नन्दस्य शकटं गतः प्रहृष्टं दृष्टवान् नन्दं पुत्रो जातो ममेति वै
वसुदेवो ऽपि तं प्राह दिष्ट्या दिष्ट्येति सादरम् वार्धके ऽपि समुत्पन्नस् तनयो ऽयं तवाधुना
दत्तो हि वार्षिकः सर्वो भवद्भिर् नृपतेः करः यदर्थम् आगतस् तस्मान् नात्र स्थेयं महात्मना
यदर्थम् आगतः कार्यं तन् निष्पन्नं किम् आस्यते भवद्भिर् गम्यतां नन्द तच् छीघ्रं निजगोकुलम्
ममापि बालकस् तत्र रोहिणीप्रसवो हि यः स रक्षणीयो भवता यथायं तनयो निजः
इत्य् उक्ताः प्रययुर् गोपा नन्दगोपपुरोगमाः शकटारोपितैर् भाण्डैः करं दत्त्वा महाबलाः
वसतां गोकुले तेषां पूतना बालघातिनी सुप्तं कृष्णम् उपादाय रात्रौ च प्रददौ स्तनम्
यस्मै यस्मै स्तनं रात्रौ पूतना संप्रयच्छति तस्य तस्य क्षणेनाङ्गं बालकस्योपहन्यते
कृष्णस् तस्याः स्तनं गाढं कराभ्याम् अतिपीडितम् गृहीत्वा प्राणसहितं पपौ क्रोधसमन्वितः
सा विमुक्तमहारावा विच्छिन्नस्नायुबन्धना पपात पूतना भूमौ म्रियमाणातिभीषणा
तन्नादश्रुतिसंत्रासाद् विबुद्धास् ते व्रजौकसः ददृशुः पूतनोत्सङ्गे कृष्णं तां च निपातिताम्
आदाय कृष्णं संत्रस्ता यशोदा च ततो द्विजाः गोपुच्छभ्रामणाद्यैश् च बालदोषम् अपाकरोत्
गोपुरीषम् उपादाय नन्दगोपो ऽपि मस्तके कृष्णस्य प्रददौ रक्षां कुर्वन्न् इदम् उदैरयत्
रक्षतु त्वाम् अशेषाणां भूतानां प्रभवो हरिः यस्य नाभिसमुद्भूतात् पङ्कजाद् अभवज् जगत्
येन दंष्ट्राग्रविधृता धारयत्य् अवनी जगत् वराहरूपधृग् देवः स त्वां रक्षतु केशवः
गुह्यं स जठरं विष्णुर् जङ्घापादौ जनार्दनः वामनो रक्षतु सदा भवन्तं यः क्षणाद् अभूत्
त्रिविक्रमक्रमाक्रान्तत्रैलोक्यस्फुरदायुधः शिरस् ते पातु गोविन्दः कण्ठं रक्षतु केशवः
मुखबाहू प्रबाहू च मनः सर्वेन्द्रियाणि च रक्षत्व् अव्याहतैश्वर्यस् तव नारायणो ऽव्ययः
त्वां दिक्षु पातु वैकुण्ठो विदिक्षु मधुसूदनः हृषीकेशो ऽम्बरे भूमौ रक्षतु त्वां महीधरः
एवं कृतस्वस्त्ययनो नन्दगोपेन बालकः शायितः शकटस्याधो बालपर्यङ्किकातले
ते च गोपा महद् दृष्ट्वा पूतनायाः कलेवरम् मृतायाः परमं त्रासं विस्मयं च तदा ययुः
कदाचिच् छकटस्याधः शयानो मधुसूदनः चिक्षेप चरणाव् ऊर्ध्वं स्तनार्थी प्ररुरोद च
तस्य पादप्रहारेण शकटं परिवर्तितम् विध्वस्तभाण्डकुम्भं तद् विपरीतं पपात वै
ततो हाहाकृतः सर्वो गोपगोपीजनो द्विजाः आजगाम तदा ज्ञात्वा बालम् उत्तानशायिनम्
गोपाः केनेति जगदुः शकटं परिवर्तितम् तत्रैव बालकाः प्रोचुर् बालेनानेन पातितम्