एवं संस्तूयमाना सा देवैर् देवम् अधारयत् गर्भेण पुण्डरीकाक्षं जगतां त्राणकारणम्
ततो ऽखिलजगत्पद्मबोधायाच्युतभानुना देवक्याः पूर्वसंध्यायाम् आविर्भूतं महात्मना
मध्यरात्रे ऽखिलाधारे जायमाने जनार्दने मन्दं जगर्जुर् जलदाः पुष्पवृष्टिमुचः सुराः
फुल्लेन्दीवरपत्त्राभं चतुर्बाहुम् उदीक्ष्य तम् श्रीवत्सवक्षसं जातं तुष्टावानकदुन्दुभिः
अभिष्टूय च तं वाग्भिः प्रसन्नाभिर् महामतिः विज्ञापयाम् आस तदा कंसाद् भीतो द्विजोत्तमाः
ज्ञातो ऽसि देवदेवेश शङ्खचक्रगदाधर दिव्यं रूपम् इदं देव प्रसादेनोपसंहर
अद्यैव देव कंसो ऽयं कुरुते मम यातनाम् अवतीर्णम् इति ज्ञात्वा त्वाम् अस्मिन् मन्दिरे मम
यो ऽनन्तरूपो ऽखिलविश्वरूपो गर्भे ऽपि लोकान् वपुषा बिभर्ति प्रसीदताम् एष स देवदेवः स्वमाययाविष्कृतबालरूपः
उपसंहर सर्वात्मन् रूपम् एतच् चतुर्भुजम् जानातु मावतारं ते कंसो ऽयं दितिजान्तक
स्तुतो ऽहं यत् त्वया पूर्वं पुत्रार्थिन्या तद् अद्य ते सफलं देवि संजातं जातो ऽहं यत् तवोदरात्
इत्य् उक्त्वा भगवांस् तूष्णीं बभूव मुनिसत्तमाः वसुदेवो ऽपि तं रात्राव् आदाय प्रययौ बहिः
मोहिताश् चाभवंस् तत्र रक्षिणो योगनिद्रया मथुराद्वारपालाश् च व्रजत्य् आनकदुन्दुभौ
वर्षतां जलदानां च तत् तोयम् उल्बणं निशि संछाद्य तं ययौ शेषः फणैर् आनकदुन्दुभिम्
यमुनां चातिगम्भीरां नानावर्तशताकुलाम् वसुदेवो वहन् विष्णुं जानुमात्रवहां ययौ
कंसस्य करम् आदाय तत्रैवाभ्यागतांस् तटे नन्दादीन् गोपवृद्धांश् च यमुनायां ददर्श सः
तस्मिन् काले यशोदापि मोहिता योगनिद्रया ताम् एव कन्यां मुनयः प्रासूत मोहिते जने
वसुदेवो ऽपि विन्यस्य बालम् आदाय दारिकाम् यशोदाशयने तूर्णम् आजगामामितद्युतिः
ददर्श च विबुद्ध्वा सा यशोदा जातम् आत्मजम् नीलोत्पलदलश्यामं ततो ऽत्यर्थं मुदं ययौ
आदाय वसुदेवो ऽपि दारिकां निजमन्दिरम् देवकीशयने न्यस्य यथापूर्वम् अतिष्ठत
ततो बालध्वनिं श्रुत्वा रक्षिणः सहसोत्थिताः कंसम् आवेदयाम् आसुर् देवकीप्रसवं द्विजाः
कंसस् तूर्णम् उपेत्यैनां ततो जग्राह बालिकाम् मुञ्च मुञ्चेति देवक्यासन्नकण्ठं निवारितः
चिक्षेप च शिलापृष्ठे सा क्षिप्ता वियति स्थितिम् अवाप रूपं च महत् सायुधाष्टमहाभुजम् प्रजहास तथैवोच्चैः कंसं च रुषिताब्रवीत्
किं मयाक्षिप्तया कंस जातो यस् त्वां हनिष्यति सर्वस्वभूतो देवानाम् आसीन् मृत्युः पुरा स ते तद् एतत् संप्रधार्याशु क्रियतां हितम् आत्मनः
इत्य् उक्त्वा प्रययौ देवी दिव्यस्रग्गन्धभूषणा पश्यतो भोजराजस्य स्तुता सिद्धैर् विहायसा
कंसस् त्व् अथोद्विग्नमनाः प्राह सर्वान् महासुरान् प्रलम्बकेशिप्रमुखान् आहूयासुरपुंगवान्
हे प्रलम्ब महाबाहो केशिन् धेनुक पूतने अरिष्टाद्यैस् तथा चान्यैः श्रूयतां वचनं मम
मां हन्तुम् अमरैर् यत्नः कृतः किल दुरात्मभिः मद्वीर्यतापितान् वीरान् न त्व् एतान् गणयाम्य् अहम्
आश्चर्यं कन्यया चोक्तं जायते दैत्यपुंगवाः हास्यं मे जायते वीरास् तेषु यत्नपरेष्व् अपि
तथापि खलु दुष्टानां तेषाम् अप्य् अधिकं मया अपकाराय दैत्येन्द्रा यतनीयं दुरात्मनाम्
उत्पन्नश् चापि मृत्युर् मे भूतभव्यभवत्प्रभुः इत्य् एतद् बालिका प्राह देवकीगर्भसंभवा