गर्भसंकर्षणात् सो ऽथ लोके संकर्षणेति वै संज्ञाम् अवाप्स्यते वीरः श्वेताद्रिशिखरोपमः
ततो ऽहं संभविष्यामि देवकीजठरे शुभे गर्भे त्वया यशोदाया गन्तव्यम् अविलम्बितम्
प्रावृट्काले च नभसि कृष्णाष्टम्याम् अहं निशि उत्पत्स्यामि नवम्यां च प्रसूतिं त्वम् अवाप्स्यसि
यशोदाशयने मां तु देवक्यास् त्वाम् अनिन्दिते मच्छक्तिप्रेरितमतिर् वसुदेवो नयिष्यति
कंसश् च त्वाम् उपादाय देवि शैलशिलातले प्रक्षेप्स्यत्य् अन्तरिक्षे च त्वं स्थानं समवाप्स्यसि
ततस् त्वां शतधा शक्रः प्रणम्य मम गौरवात् प्रणिपातानतशिरा भगिनीत्वे ग्रहीष्यति
ततः शुम्भनिशुम्भादीन् हत्वा दैत्यान् सहस्रशः स्थानैर् अनेकैः पृथिवीम् अशेषां मण्डयिष्यसि
त्वं भूतिः संनतिः कीर्तिः कान्तिर् वै पृथिवी धृतिः लज्जा पुष्टिर् उषा या च काचिद् अन्या त्वम् एव सा
ये त्वाम् आर्येति दुर्गेति वेदगर्भे ऽम्बिकेति च भद्रेति भद्रकालीति क्षेम्या क्षेमंकरीति च
प्रातश् चैवापराह्णे च स्तोष्यन्त्य् आनम्रमूर्तयः तेषां हि वाञ्छितं सर्वं मत्प्रसादाद् भविष्यति
सुरामांसोपहारैस् तु भक्ष्यभोज्यैश् च पूजिता नृणाम् अशेषकामांस् त्वं प्रसन्नायां प्रदास्यसि
ते सर्वे सर्वदा भद्रा मत्प्रसादाद् असंशयम् असंदिग्धं भविष्यन्ति गच्छ देवि यथोदितम्
यथोक्तं सा जगद्धात्री देवदेवेन वै पुरा षड्गर्भगर्भविन्यासं चक्रे चान्यस्य कर्षणम्
सप्तमे रोहिणीं प्राप्ते गर्भे गर्भे ततो हरिः लोकत्रयोपकाराय देवक्याः प्रविवेश वै
योगनिद्रा यशोदायास् तस्मिन्न् एव ततो दिने संभूता जठरे तद्वद् यथोक्तं परमेष्ठिना
ततो ग्रहगणः सम्यक् प्रचचार दिवि द्विजाः विष्णोर् अंशे महीं यात ऋतवो ऽप्य् अभवञ् शुभाः
नोत्सेहे देवकीं द्रष्टुं कश्चिद् अप्य् अतितेजसा जाज्वल्यमानां तां दृष्ट्वा मनांसि क्षोभम् आययुः
अदृष्टां पुरुषैः स्त्रीभिर् देवकीं देवतागणाः बिभ्राणां वपुषा विष्णुं तुष्टुवुस् ताम् अहर्निशम्
त्वं स्वाहा त्वं स्वधा विद्या सुधा त्वं ज्योतिर् एव च त्वं सर्वलोकरक्षार्थम् अवतीर्णा महीतले
प्रसीद देवि सर्वस्य जगतस् त्वं शुभं कुरु प्रीत्यर्थं धारयेशानं धृतं येनाखिलं जगत्
एवं संस्तूयमाना सा देवैर् देवम् अधारयत् गर्भेण पुण्डरीकाक्षं जगतां त्राणकारणम्
ततो ऽखिलजगत्पद्मबोधायाच्युतभानुना देवक्याः पूर्वसंध्यायाम् आविर्भूतं महात्मना
मध्यरात्रे ऽखिलाधारे जायमाने जनार्दने मन्दं जगर्जुर् जलदाः पुष्पवृष्टिमुचः सुराः
फुल्लेन्दीवरपत्त्राभं चतुर्बाहुम् उदीक्ष्य तम् श्रीवत्सवक्षसं जातं तुष्टावानकदुन्दुभिः
अभिष्टूय च तं वाग्भिः प्रसन्नाभिर् महामतिः विज्ञापयाम् आस तदा कंसाद् भीतो द्विजोत्तमाः
ज्ञातो ऽसि देवदेवेश शङ्खचक्रगदाधर दिव्यं रूपम् इदं देव प्रसादेनोपसंहर
अद्यैव देव कंसो ऽयं कुरुते मम यातनाम् अवतीर्णम् इति ज्ञात्वा त्वाम् अस्मिन् मन्दिरे मम
यो ऽनन्तरूपो ऽखिलविश्वरूपो गर्भे ऽपि लोकान् वपुषा बिभर्ति प्रसीदताम् एष स देवदेवः स्वमाययाविष्कृतबालरूपः
उपसंहर सर्वात्मन् रूपम् एतच् चतुर्भुजम् जानातु मावतारं ते कंसो ऽयं दितिजान्तक
स्तुतो ऽहं यत् त्वया पूर्वं पुत्रार्थिन्या तद् अद्य ते सफलं देवि संजातं जातो ऽहं यत् तवोदरात्