स चापि वितथः पुत्राञ् जनयाम् आस पञ्च वै सुहोत्रं च सुहोतारं गयं गर्गं तथैव च
कपिलं च महात्मानं सुहोत्रस्य सुतद्वयम् काशिकं च महासत्यं तथा गृत्समतिं नृपम्
तथा गृत्समतेः पुत्रा ब्राह्मणाः क्षत्रिया विशः काशिकस्य तु काशेयः पुत्रो दीर्घतपास् तथा
बभूव दीर्घतपसो विद्वान् धन्वन्तरिः सुतः धन्वन्तरेस् तु तनयः केतुमान् इति विश्रुतः
तथा केतुमतः पुत्रो विद्वान् भीमरथः स्मृतः पुत्रो भीमरथस्यापि वाराणस्यधिपो ऽभवत्
दिवोदास इति ख्यातः सर्वक्षत्रप्रणाशनः दिवोदासस्य पुत्रस् तु वीरो राजा प्रतर्दनः
प्रतर्दनस्य पुत्रौ द्वौ वत्सो भार्गव एव च अलर्को राजपुत्रस् तु राजा सन्मतिमान् भुवि
हैहयस्य तु दायाद्यं हृतवान् वै महीपतिः आजह्रे पितृदायाद्यं दिवोदासहृतं बलात्
भद्रश्रेण्यस्य पुत्रेण दुर्दमेन महात्मना दिवोदासेन बालेति घृणयासौ विसर्जितः
अष्टारथो नाम नृपः सुतो भीमरथस्य वै तेन पुत्रेण बालस्य प्रहृतं तस्य भो द्विजाः
वैरस्यान्तं मुनिश्रेष्ठाः क्षत्रियेण विधित्सता अलर्कः काशिराजस् तु ब्रह्मण्यः सत्यसंगरः
षष्टिं वर्षसहस्राणि षष्टिं वर्षशतानि च युवा रूपेण संपन्न आसीत् काशिकुलोद्वहः
लोपामुद्राप्रसादेन परमायुर् अवाप सः वयसो ऽन्ते मुनिश्रेष्ठा हत्वा क्षेमकराक्षसम्
रम्यां निवेशयाम् आस पुरीं वाराणसीं नृपः अलर्कस्य तु दायादः क्षेमको नाम पार्थिवः
क्षेमकस्य तु पुत्रो वै वर्षकेतुस् ततो ऽभवत् वर्षकेतोश् च दायादो विभुर् नाम प्रजेश्वरः
आनर्तस् तु विभोः पुत्रः सुकुमारस् ततो ऽभवत् सुकुमारस्य पुत्रस् तु सत्यकेतुर् महारथः
सुतो ऽभवन् महातेजा राजा परमधार्मिकः वत्सस्य वत्सभूमिस् तु भर्गभूमिस् तु भार्गवात्
एते त्व् अङ्गिरसः पुत्रा जाता वंशे ऽथ भार्गवे ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश् च मुनिसत्तमाः
आजमीढो ऽपरो वंशः श्रूयतां द्विजसत्तमाः सुहोत्रस्य बृहत् पुत्रो बृहतस् तनयास् त्रयः
अजमीढो द्विमीढश् च पुरुमीढश् च वीर्यवान् अजमीढस्य पत्न्यस् तु तिस्रो वै यशसान्विताः
नीली च केशिनी चैव धूमिनी च वराङ्गनाः अजमीढस्य केशिन्यां जज्ञे जह्नुः प्रतापवान्
आजह्रे यो महासत्त्रं सर्वमेधमखं विभुम् पतिलोभेन यं गङ्गा विनीतेव ससार ह
नेच्छतः प्लावयाम् आस तस्य गङ्गा च तत् सदः तत् तया प्लावितं दृष्ट्वा यज्ञवाटं समन्ततः
जह्नुर् अप्य् अब्रवीद् गङ्गां क्रुद्धो विप्रास् तदा नृपः एष ते त्रिषु लोकेषु संक्षिप्यापः पिबाम्य् अहम् अस्य गङ्गे ऽवलेपस्य सद्यः फलम् अवाप्नुहि
ततः पीतां महात्मानो दृष्ट्वा गङ्गां महर्षयः उपनिन्युर् महाभागा दुहितृत्वेन जाह्नवीम्
युवनाश्वस्य पुत्रीं तु कावेरीं जह्नुर् आवहत् गङ्गाशापेन देहार्धं यस्याः पश्चान् नदीकृतम्
जह्नोस् तु दयितः पुत्रो अजको नाम वीर्यवान् अजकस्य तु दायादो बलाकाश्वो महीपतिः
बभूव मृगयाशीलः कुशिकस् तस्य चात्मजः पह्नवैः सह संवृद्धो राजा वनचरैः सह
कुशिकस् तु तपस् तेपे पुत्रम् इन्द्रसमं विभुम् लभेयम् इति तं शक्रस् त्रासाद् अभ्येत्य जज्ञिवान्
स गाधिर् अभवद् राजा मघवा कौशिकः स्वयम् विश्वामित्रस् तु गाधेयो विश्वामित्रात् तथाष्टकः