अक्षौहिण्यो हि बहुला दिव्यमूर्तिधृताः सुराः महाबलानां दृप्तानां दैत्येन्द्राणां ममोपरि
तद्भूरिभारपीडार्ता न शक्नोम्य् अमरेश्वराः विभर्तुम् आत्मानम् अहम् इति विज्ञापयामि वः
क्रियतां तन् महाभागा मम भारावतारणम् यथा रसातलं नाहं गच्छेयम् अतिविह्वला
इत्य् आकर्ण्य धरावाक्यम् अशेषैस् त्रिदशैस् ततः भुवो भारावतारार्थं ब्रह्मा प्राह च चोदितः
यद् आह वसुधा सर्वं सत्यम् एतद् दिवौकसः अहं भवो भवन्तश् च सर्वं नारायणात्मकम्
विभूतयस् तु यास् तस्य तासाम् एव परस्परम् आधिक्यं न्यूनता बाध्यबाधकत्वेन वर्तते
तद् आगच्छत गच्छामः क्षीराब्धेस् तटम् उत्तमम् तत्राराध्य हरिं तस्मै सर्वं विज्ञापयाम वै
सर्वदैव जगत्यर्थे स सर्वात्मा जगन्मयः स्वल्पांशेनावतीर्योर्व्यां धर्मस्य कुरुते स्थितिम्
इत्य् उक्त्वा प्रययौ तत्र सह देवैः पितामहः समाहितमना भूत्वा तुष्टाव गरुडध्वजम्
नमो नमस् ते ऽस्तु सहस्रमूर्ते सहस्रबाहो बहुवक्त्रपाद नमो नमस् ते जगतः प्रवृत्ति विनाशसंस्थानपराप्रमेय
सूक्ष्मातिसूक्ष्मं च बृहत्प्रमाणं गरीयसाम् अप्य् अतिगौरवात्मन् प्रधानबुद्धीन्द्रियवाक्प्रधान मूलापरात्मन् भगवन् प्रसीद
एषा मही देव महीप्रसूतैर् महासुरैः पीडितशैलबन्धा परायणं त्वां जगताम् उपैति भारावतारार्थम् अपारपारम्
एते वयं वृत्ररिपुस् तथायं नासत्यदस्रौ वरुणस् तथैषः इमे च रुद्रा वसवः ससूर्याः समीरणाग्निप्रमुखास् तथान्ये
सुराः समस्ताः सुरनाथ कार्यम् एभिर् मया यच् च तद् ईश सर्वम् आज्ञापयाज्ञां प्रतिपालयन्तस् तवैव तिष्ठाम सदास्तदोषाः
एवं संस्तूयमानस् तु भगवान् परमेश्वरः उज्जहारात्मनः केशौ सितकृष्णौ द्विजोत्तमाः
उवाच च सुरान् एतौ मत्केशौ वसुधातले अवतीर्य भुवो भारक्लेशहानिं करिष्यतः
सुराश् च सकलाः स्वांशैर् अवतीर्य महीतले कुर्वन्तु युद्धम् उन्मत्तैः पूर्वोत्पन्नैर् महासुरैः
ततः क्षयम् अशेषास् ते दैतेया धरणीतले प्रयास्यन्ति न संदेहो नानायुधविचूर्णिताः
वसुदेवस्य या पत्नी देवकी देवतोपमा तस्या गर्भो ऽष्टमो ऽयं तु मत्केशो भविता सुराः
अवतीर्य च तत्रायं कंसं घातयिता भुवि कालनेमिसमुद्भूतम् इत्य् उक्त्वान्तर्दधे हरिः
अदृश्याय ततस् ते ऽपि प्रणिपत्य महात्मने मेरुपृष्ठं सुरा जग्मुर् अवतेरुश् च भूतले
कंसाय चाष्टमो गर्भो देवक्या धरणीतले भविष्यतीत्य् आचचक्षे भगवान् नारदो मुनिः
कंसो ऽपि तद् उपश्रुत्य नारदात् कुपितस् ततः देवकीं वसुदेवं च गृहे गुप्ताव् अधारयत्
जातं जातं च कंसाय तेनैवोक्तं यथा पुरा तथैव वसुदेवो ऽपि पुत्रम् अर्पितवान् द्विजाः
हिरण्यकशिपोः पुत्राः षड्गर्भा इति विश्रुताः विष्णुप्रयुक्ता तान् निद्रा क्रमाद् गर्भे न्ययोजयत्
योगनिद्रा महामाया वैष्णवी मोहितं यया अविद्यया जगत् सर्वं ताम् आह भगवान् हरिः
गच्छ निद्रे ममादेशात् पातालतलसंश्रयान् एकैकश्येन षड्गर्भान् देवकीजठरे नय
हतेषु तेषु कंसेन शेषाख्यो ऽंशस् ततो ऽनघः अंशांशेनोदरे तस्याः सप्तमः संभविष्यति
गोकुले वसुदेवस्य भार्या वै रोहिणी स्थिता तस्याः प्रसूतिसमये गर्भो नेयस् त्वयोदरम्
सप्तमो भोजराजस्य भयाद् रोधोपरोधतः देवक्याः पतितो गर्भ इति लोको वदिष्यति