रजस् तस्या गुणः सर्गं सा करोति सदैव हि या तृतीया हरेर् मूर्तिः प्रजापालनतत्परा
सा तु धर्मव्यवस्थानं करोति नियतं भुवि प्रोद्धतान् असुरान् हन्ति धर्मव्युच्छित्तिकारिणः
पाति देवान् सगन्धर्वान् धर्मरक्षापरायणान् यदा यदा च धर्मस्य ग्लानिः समुपजायते
अभ्युत्थानम् अधर्मस्य तदात्मानं सृजत्य् असौ भूत्वा पुरा वराहेण तुण्डेनापो निरस्य च
एकया दंष्ट्रयोत्खाता नलिनीव वसुंधरा कृत्वा नृसिंहरूपं च हिरण्यकशिपुर् हतः
विप्रचित्तिमुखाश् चान्ये दानवा विनिपातिताः वामनं रूपम् आस्थाय बलिं संयम्य मायया
त्रैलोक्यं क्रान्तवान् एव विनिर्जित्य दितेः सुतान् भृगोर् वंशे समुत्पन्नो जामदग्न्यः प्रतापवान्
जघान क्षत्रियान् रामः पितुर् वधम् अनुस्मरन् तथात्रितनयो भूत्वा दत्तात्रेयः प्रतापवान्
योगम् अष्टाङ्गम् आचख्याव् अलर्काय महात्मने रामो दाशरथिर् भूत्वा स तु देवः प्रतापवान्
जघान रावणं संख्ये त्रैलोक्यस्य भयंकरम् यदा चैकार्णवे सुप्तो देवदेवो जगत्पतिः
सहस्रयुगपर्यन्तं नागपर्यङ्कगो विभुः योगनिद्रां समास्थाय स्वे महिम्नि व्यवस्थितः
त्रैलोक्यम् उदरे कृत्वा जगत् स्थावरजङ्गमम् जनलोकगतैः सिद्धैः स्तूयमानो महर्षिभिः
तस्य नाभौ समुत्पन्नं पद्मं दिक्पत्त्रमण्डितम् मरुत्किञ्जल्कसंयुक्तं गृहं पैतामहं वरम्
यत्र ब्रह्मा समुत्पन्नो देवदेवश् चतुर्मुखः तदा कर्णमलोद्भूतौ दानवौ मधुकैटभौ
महाबलौ महावीर्यौ ब्रह्माणं हन्तुम् उद्यतौ जघान तौ दुराधर्षौ उत्थाय शयनोदधेः
एवमादींस् तथैवान्यान् असंख्यातुम् इहोत्सहे अवतारो ह्य् अजस्येह माथुरः सांप्रतस् त्व् अयम्
इति सा सात्त्विकी मूर्तिर् अवतारं करोति च प्रद्युम्नेति समाख्याता रक्षाकर्मण्य् अवस्थिता
देवत्वे ऽथ मनुष्यत्वे तिर्यग्योनौ च संस्थिता गृह्णाति तत्स्वभावश् च वासुदेवेच्छया सदा
ददात्य् अभिमतान् कामान् पूजिता सा द्विजोत्तमाः एवं मया समाख्यातः कृतकृत्यो ऽपि यः प्रभुः मानुषत्वं गतो विष्णुः शृणुध्वं चोत्तरं पुनः
शृणुध्वं मुनिशार्दूलाः प्रवक्ष्यामि समासतः अवतारं हरेश् चात्र भारावतरणेच्छया
यदा यदा त्व् अधर्मस्य वृद्धिर् भवति भो द्विजाः धर्मश् च ह्रासम् अभ्येति तदा देवो जनार्दनः
अवतारं करोत्य् अत्र द्विधा कृत्वात्मनस् तनुम् साधूनां रक्षणार्थाय धर्मसंस्थापनाय च
दुष्टानां निग्रहार्थाय अन्येषां च सुरद्विषाम् प्रजानां रक्षणार्थाय जायते ऽसौ युगे युगे
पुरा किल मही विप्रा भूरिभारावपीडिता जगाम धरणी मेरौ समाजे त्रिदिवौकसाम्
सब्रह्मकान् सुरान् सर्वान् प्रणिपत्याथ मेदिनी कथयाम् आस तत् सर्वं खेदात् करुणभाषिणी
अग्निः सुवर्णस्य गुरुर् गवां सूर्यो ऽपरो गुरुः ममाप्य् अखिललोकानां वन्द्यो नारायणो गुरुः
तत्सांप्रतम् इमे दैत्याः कालनेमिपुरोगमाः मर्त्यलोकं समागम्य बाधन्ते ऽहर्निशं प्रजाः
कालनेमिर् हतो यो ऽसौ विष्णुना प्रभविष्णुना उग्रसेनसुतः कंसः संभूतः सुमहासुरः
अरिष्टो धेनुकः केशी प्रलम्बो नरकस् तथा सुन्दो ऽसुरस् तथात्युग्रो बाणश् चापि बलेः सुतः
तथान्ये च महावीर्या नृपाणां भवनेषु ये समुत्पन्ना दुरात्मानस् तान् न संख्यातुम् उत्सहे