ऋक्सामान्य् उद्गिरन् वक्त्रैर् यः पुनाति जगत्त्रयम् प्रणिपत्य तथेशानम् एकार्णवविनिर्गतम्
यस्यासुरगणा यज्ञान् विलुम्पन्ति न याजिनाम् प्रवक्ष्यामि मतं कृत्स्नं ब्रह्मणो ऽव्यक्तजन्मनः
येन सृष्टिं समुद्दिश्य धर्माद्याः प्रकटीकृताः आपो नारा इति प्रोक्ता मुनिभिस् तत्त्वदर्शिभिः
अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः स देवो भगवान् सर्वं व्याप्य नारायणो विभुः
चतुर्धा संस्थितो ब्रह्मा सगुणो निर्गुणस् तथा एका मूर्तिर् अनुद्देश्या शुक्लां पश्यन्ति तां बुधाः
ज्वालामालावनद्धाङ्गी निष्ठा सा योगिनां परा दूरस्था चान्तिकस्था च विज्ञेया सा गुणातिगा
वासुदेवाभिधानासौ निर्ममत्वेन दृश्यते रूपवर्णादयस् तस्या न भावाः कल्पनामयाः
आस्ते च सा सदा शुद्धा सुप्रतिष्ठैकरूपिणी द्वितीया पृथिवीं मूर्ध्ना शेषाख्या धारयत्य् अधः
तामसी सा समाख्याता तिर्यक्त्वं समुपागता तृतीया कर्म कुरुते प्रजापालनतत्परा
सत्त्वोद्रिक्ता तु सा ज्ञेया धर्मसंस्थानकारिणी चतुर्थी जलमध्यस्था शेते पन्नगतल्पगा
रजस् तस्या गुणः सर्गं सा करोति सदैव हि या तृतीया हरेर् मूर्तिः प्रजापालनतत्परा
सा तु धर्मव्यवस्थानं करोति नियतं भुवि प्रोद्धतान् असुरान् हन्ति धर्मव्युच्छित्तिकारिणः
पाति देवान् सगन्धर्वान् धर्मरक्षापरायणान् यदा यदा च धर्मस्य ग्लानिः समुपजायते
अभ्युत्थानम् अधर्मस्य तदात्मानं सृजत्य् असौ भूत्वा पुरा वराहेण तुण्डेनापो निरस्य च
एकया दंष्ट्रयोत्खाता नलिनीव वसुंधरा कृत्वा नृसिंहरूपं च हिरण्यकशिपुर् हतः
विप्रचित्तिमुखाश् चान्ये दानवा विनिपातिताः वामनं रूपम् आस्थाय बलिं संयम्य मायया
त्रैलोक्यं क्रान्तवान् एव विनिर्जित्य दितेः सुतान् भृगोर् वंशे समुत्पन्नो जामदग्न्यः प्रतापवान्
जघान क्षत्रियान् रामः पितुर् वधम् अनुस्मरन् तथात्रितनयो भूत्वा दत्तात्रेयः प्रतापवान्
योगम् अष्टाङ्गम् आचख्याव् अलर्काय महात्मने रामो दाशरथिर् भूत्वा स तु देवः प्रतापवान्
जघान रावणं संख्ये त्रैलोक्यस्य भयंकरम् यदा चैकार्णवे सुप्तो देवदेवो जगत्पतिः
सहस्रयुगपर्यन्तं नागपर्यङ्कगो विभुः योगनिद्रां समास्थाय स्वे महिम्नि व्यवस्थितः
त्रैलोक्यम् उदरे कृत्वा जगत् स्थावरजङ्गमम् जनलोकगतैः सिद्धैः स्तूयमानो महर्षिभिः
तस्य नाभौ समुत्पन्नं पद्मं दिक्पत्त्रमण्डितम् मरुत्किञ्जल्कसंयुक्तं गृहं पैतामहं वरम्
यत्र ब्रह्मा समुत्पन्नो देवदेवश् चतुर्मुखः तदा कर्णमलोद्भूतौ दानवौ मधुकैटभौ
महाबलौ महावीर्यौ ब्रह्माणं हन्तुम् उद्यतौ जघान तौ दुराधर्षौ उत्थाय शयनोदधेः
एवमादींस् तथैवान्यान् असंख्यातुम् इहोत्सहे अवतारो ह्य् अजस्येह माथुरः सांप्रतस् त्व् अयम्
इति सा सात्त्विकी मूर्तिर् अवतारं करोति च प्रद्युम्नेति समाख्याता रक्षाकर्मण्य् अवस्थिता
देवत्वे ऽथ मनुष्यत्वे तिर्यग्योनौ च संस्थिता गृह्णाति तत्स्वभावश् च वासुदेवेच्छया सदा
ददात्य् अभिमतान् कामान् पूजिता सा द्विजोत्तमाः एवं मया समाख्यातः कृतकृत्यो ऽपि यः प्रभुः मानुषत्वं गतो विष्णुः शृणुध्वं चोत्तरं पुनः
शृणुध्वं मुनिशार्दूलाः प्रवक्ष्यामि समासतः अवतारं हरेश् चात्र भारावतरणेच्छया