येन विश्वम् इदं व्याप्तम् अजेन सचराचरम् आविर्भावतिरोभावदृष्टादृष्टविलक्षणम्
वदन्ति यत् सृष्टम् इति तथैवाप्य् उपसंहृतम् ब्रह्मणे चादिदेवाय नमस्कृत्य समाधिना
अविकाराय शुद्धाय नित्याय परमात्मने सदैकरूपरूपाय जिष्णवे विष्णवे नमः
नमो हिरण्यगर्भाय हरये शंकराय च वासुदेवाय ताराय सर्गस्थित्यन्तकारिणे
एकानेकस्वरूपाय स्थूलसूक्ष्मात्मने नमः अव्यक्तव्यक्तभूताय विष्णवे मुक्तिहेतवे
सर्गस्थितिविनाशानां जगतो यो जगन्मयः मूलभूतो नमस् तस्मै विष्णवे परमात्मने
आधारभूतं विश्वस्याप्य् अणीयांसम् अणीयसाम् प्रणम्य सर्वभूतस्थम् अच्युतं पुरुषोत्तमम्
ज्ञानस्वरूपम् अत्यन्तं निर्मलं परमार्थतः तम् एवार्थस्वरूपेण भ्रान्तिदर्शनतः स्थितम्
विष्णुं ग्रसिष्णुं विश्वस्य स्थितिसर्गे तथा प्रभुम् अनादिं जगताम् ईशम् अजम् अक्षयम् अव्ययम्
कथयामि यथा पूर्वं यक्षाद्यैर् मुनिसत्तमैः पृष्टः प्रोवाच भगवान् अब्जयोनिः पितामहः
ऋक्सामान्य् उद्गिरन् वक्त्रैर् यः पुनाति जगत्त्रयम् प्रणिपत्य तथेशानम् एकार्णवविनिर्गतम्
यस्यासुरगणा यज्ञान् विलुम्पन्ति न याजिनाम् प्रवक्ष्यामि मतं कृत्स्नं ब्रह्मणो ऽव्यक्तजन्मनः
येन सृष्टिं समुद्दिश्य धर्माद्याः प्रकटीकृताः आपो नारा इति प्रोक्ता मुनिभिस् तत्त्वदर्शिभिः
अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः स देवो भगवान् सर्वं व्याप्य नारायणो विभुः
चतुर्धा संस्थितो ब्रह्मा सगुणो निर्गुणस् तथा एका मूर्तिर् अनुद्देश्या शुक्लां पश्यन्ति तां बुधाः
ज्वालामालावनद्धाङ्गी निष्ठा सा योगिनां परा दूरस्था चान्तिकस्था च विज्ञेया सा गुणातिगा
वासुदेवाभिधानासौ निर्ममत्वेन दृश्यते रूपवर्णादयस् तस्या न भावाः कल्पनामयाः
आस्ते च सा सदा शुद्धा सुप्रतिष्ठैकरूपिणी द्वितीया पृथिवीं मूर्ध्ना शेषाख्या धारयत्य् अधः
तामसी सा समाख्याता तिर्यक्त्वं समुपागता तृतीया कर्म कुरुते प्रजापालनतत्परा
सत्त्वोद्रिक्ता तु सा ज्ञेया धर्मसंस्थानकारिणी चतुर्थी जलमध्यस्था शेते पन्नगतल्पगा
रजस् तस्या गुणः सर्गं सा करोति सदैव हि या तृतीया हरेर् मूर्तिः प्रजापालनतत्परा
सा तु धर्मव्यवस्थानं करोति नियतं भुवि प्रोद्धतान् असुरान् हन्ति धर्मव्युच्छित्तिकारिणः
पाति देवान् सगन्धर्वान् धर्मरक्षापरायणान् यदा यदा च धर्मस्य ग्लानिः समुपजायते
अभ्युत्थानम् अधर्मस्य तदात्मानं सृजत्य् असौ भूत्वा पुरा वराहेण तुण्डेनापो निरस्य च
एकया दंष्ट्रयोत्खाता नलिनीव वसुंधरा कृत्वा नृसिंहरूपं च हिरण्यकशिपुर् हतः
विप्रचित्तिमुखाश् चान्ये दानवा विनिपातिताः वामनं रूपम् आस्थाय बलिं संयम्य मायया
त्रैलोक्यं क्रान्तवान् एव विनिर्जित्य दितेः सुतान् भृगोर् वंशे समुत्पन्नो जामदग्न्यः प्रतापवान्
जघान क्षत्रियान् रामः पितुर् वधम् अनुस्मरन् तथात्रितनयो भूत्वा दत्तात्रेयः प्रतापवान्
योगम् अष्टाङ्गम् आचख्याव् अलर्काय महात्मने रामो दाशरथिर् भूत्वा स तु देवः प्रतापवान्
जघान रावणं संख्ये त्रैलोक्यस्य भयंकरम् यदा चैकार्णवे सुप्तो देवदेवो जगत्पतिः