भूतावाप्तिस् ततस् तस्य जायेतेन्द्रियगोचरा पृथिवी वायुर् आकाशम् आपो ज्योतिश् च पञ्चमम्
तस्येन्द्रियनिविष्टानि स्वं स्वं भागं प्रचक्रिरे पार्थिवं देहम् आहुस् तु प्राणात्मानं च मारुतम्
छिद्राण्य् आकाशयोनीनि जलात् स्रावः प्रवर्तते ज्योतिश् चक्षूंषि तेजश् च आत्मा तेषां मनः स्मृतम्
ग्रामाश् च विषयाश् चैव यस्य वीर्यात् प्रवर्तिताः इत्य् एतान् पुरुषः सर्वान् सृजंल् लोकान् सनातनः
नैधने ऽस्मिन् कथं लोके नरत्वं विष्णुर् आगतः एष नः संशयो ब्रह्मन्न् एष नो विस्मयो महान्
कथं गतिर् गतिमताम् आपन्नो मानुषीं तनुम् आश्चर्यं परमं विष्णुर् देवैर् दैत्यैश् च कथ्यते
विष्णोर् उत्पत्तिम् आश्चर्यं कथयस्व महामुने प्रख्यातबलवीर्यस्य विष्णोर् अमिततेजसः
कर्मणाश्चर्यभूतस्य विष्णोस् तत्त्वम् इहोच्यताम् कथं स देवो देवानाम् आर्तिहा पुरुषोत्तमः
सर्वव्यापी जगन्नाथः सर्वलोकमहेश्वरः सर्गस्थित्यन्तकृद् देवः सर्वलोकसुखावहः
अक्षयः शाश्वतो ऽनन्तः क्षयवृद्धिविवर्जितः निर्लेपो निर्गुणः सूक्ष्मो निर्विकारो निरञ्जनः
सर्वोपाधिविनिर्मुक्तः सत्तामात्रव्यवस्थितः अविकारी विभुर् नित्यः परमात्मा सनातनः
अचलो निर्मलो व्यापी नित्यतृप्तो निराश्रयः विशुद्धं श्रूयते यस्य हरित्वं च कृते युगे
वैकुण्ठत्वं च देवेषु कृष्णत्वं मानुषेषु च ईश्वरस्य हि तस्येमां गहनां कर्मणो गतिम्
समतीतां भविष्यं च श्रोतुम् इच्छा प्रवर्तते अव्यक्तो व्यक्तलिङ्गस्थो य एष भगवान् प्रभुः
नारायणो ह्य् अनन्तात्मा प्रभवो ऽव्यय एव च एष नारायणो भूत्वा हरिर् आसीत् सनातनः
ब्रह्मा शक्रश् च रुद्रश् च धर्मः शुक्रो बृहस्पतिः प्रधानात्मा पुरा ह्य् एष ब्रह्माणम् असृजत् प्रभुः
सो ऽसृजत् पूर्वपुरुषः पुरा कल्पे प्रजापतीन् एवं स भगवान् विष्णुः सर्वलोकमहेश्वरः किमर्थं मर्त्यलोके ऽस्मिन् यातो यदुकुले हरिः
नमस्कृत्वा सुरेशाय विष्णवे प्रभविष्णवे पुरुषाय पुराणाय शाश्वतायाव्ययाय च
चतुर्व्यूहात्मने तस्मै निर्गुणाय गुणाय च वरिष्ठाय गरिष्ठाय वरेण्यायामिताय च
यज्ञाङ्गायाखिलाङ्गाय देवाद्यैर् ईप्सिताय च यस्माद् अणुतरं नास्ति यस्मान् नास्ति बृहत्तरम्
येन विश्वम् इदं व्याप्तम् अजेन सचराचरम् आविर्भावतिरोभावदृष्टादृष्टविलक्षणम्
वदन्ति यत् सृष्टम् इति तथैवाप्य् उपसंहृतम् ब्रह्मणे चादिदेवाय नमस्कृत्य समाधिना
अविकाराय शुद्धाय नित्याय परमात्मने सदैकरूपरूपाय जिष्णवे विष्णवे नमः
नमो हिरण्यगर्भाय हरये शंकराय च वासुदेवाय ताराय सर्गस्थित्यन्तकारिणे
एकानेकस्वरूपाय स्थूलसूक्ष्मात्मने नमः अव्यक्तव्यक्तभूताय विष्णवे मुक्तिहेतवे
सर्गस्थितिविनाशानां जगतो यो जगन्मयः मूलभूतो नमस् तस्मै विष्णवे परमात्मने
आधारभूतं विश्वस्याप्य् अणीयांसम् अणीयसाम् प्रणम्य सर्वभूतस्थम् अच्युतं पुरुषोत्तमम्
ज्ञानस्वरूपम् अत्यन्तं निर्मलं परमार्थतः तम् एवार्थस्वरूपेण भ्रान्तिदर्शनतः स्थितम्
विष्णुं ग्रसिष्णुं विश्वस्य स्थितिसर्गे तथा प्रभुम् अनादिं जगताम् ईशम् अजम् अक्षयम् अव्ययम्
कथयामि यथा पूर्वं यक्षाद्यैर् मुनिसत्तमैः पृष्टः प्रोवाच भगवान् अब्जयोनिः पितामहः