गार्हपत्येन विधिना अन्वाहार्येण कर्मणा अग्निम् आहवनीयं च वेदं दीक्षां समिद् ध्रुवम्
प्रोक्षणीयं स्रुवं चैव आवभृथ्यं तथैव च अवाक्पाणिस् तु यश् चक्रे हव्यभागभुजस् तथा
हव्यादांश् च सुरांश् चक्रे कव्यादांश् च पितॄन् अथ भोगार्थे यज्ञविधिना ऽयोजयद् यज्ञकर्मणि
पात्राणि दक्षिणां दीक्षां चरूंश् चोलूखलानि च यूपं समित् स्रुवं सोमं पवित्रान् परिधीन् अपि
यज्ञियानि च द्रव्याणि चमसांश् च तथापरान् सदस्यान् यजमानांश् च मेधादींश् च क्रतूत्तमान्
विबभाज पुरा यस् तु पारमेष्ठ्येन कर्मणा युगानुरूपं यः कृत्वा लोकान् अनुपराक्रमात्
क्षणा निमेषाः काष्ठाश् च कलास् त्रैकाल्यम् एव च मुहूर्तास् तिथयो मासा दिनं संवत्सरस् तथा
ऋतवः कालयोगाश् च प्रमाणं त्रिविधं त्रिषु आयुःक्षेत्राण्य् उपचयो लक्षणं रूपसौष्ठवम्
त्रयो लोकास् त्रयो देवास् त्रैविद्यं पावकास् त्रयः त्रैकाल्यं त्रीणि कर्माणि त्रयो वर्णास् त्रयो गुणाः
सृष्टा लोकाः पुरा सर्वे येनानन्तेन कर्मणा सर्वभूतगतः स्रष्टा सर्वभूतगुणात्मकः
नृणाम् इन्द्रियपूर्वेण योगेन रमते च यः गतागताभ्यां योगेन य एव विधिर् ईश्वरः
यो गतिर् धर्मयुक्तानाम् अगतिः पापकर्मणाम् चातुर्वर्ण्यस्य प्रभवश् चातुर्वर्ण्यस्य रक्षिता
चातुर्विद्यस्य यो वेत्ता चातुराश्रम्यसंश्रयः दिगन्तरं नभो भूमिर् वायुर् वापि विभावसुः
चन्द्रसूर्यमयं ज्योतिर् युगेशः क्षणदाचरः यः परं श्रूयते ज्योतिर् यः परं श्रूयते तपः
यं परं प्राहुर् अपरं यः परः परमात्मवान् आदित्यानां तु यो देवो यश् च दैत्यान्तको विभुः
युगान्तेष्व् अन्तको यश् च यश् च लोकान्तकान्तकः सेतुर् यो लोकसेतूनां मेध्यो यो मेध्यकर्मणाम्
वेद्यो यो वेदविदुषां प्रभुर् यः प्रभवात्मनाम् सोमभूतश् च सौम्यानाम् अग्निभूतो ऽग्निवर्चसाम्
यः शक्राणाम् ईशभूतस् तपोभूतस् तपस्विनाम् विनयो नयवृत्तीनां तेजस् तेजस्विनाम् अपि
विग्रहो विग्रहार्हाणां गतिर् गतिमताम् अपि आकाशप्रभवो वायुर् वायोः प्राणाद् धुताशनः
दिवो हुताशनः प्राणः प्राणो ऽग्निर् मधुसूदनः रसाच् छोणितसंभूतिः शोणितान् मांसम् उच्यते
मांसात् तु मेदसो जन्म मेदसो ऽस्थि निरुच्यते अस्थ्नो मज्जा समभवन् मज्जातः शुक्रसंभवः
शुक्राद् गर्भः समभवद् रसमूलेन कर्मणा तत्रापां प्रथमो भागः स सौम्यो राशिर् उच्यते
गर्भोष्मसंभवो ज्ञेयो द्वितीयो राशिर् उच्यते शुक्रं सोमात्मकं विद्याद् आर्तवं पावकात्मकम्
भावा रसानुगाश् चैषां बीजे च शशिपावकौ कफवर्गे भवेच् छुक्रं पित्तवर्गे च शोणितम्
कफस्य हृदयं स्थानं नाभ्यां पित्तं प्रतिष्ठितम् देहस्य मध्ये हृदयं स्थानं तन् मनसः स्मृतम्
नाभिकोष्ठान्तरं यत् तु तत्र देवो हुताशनः मनः प्रजापतिर् ज्ञेयः कफः सोमो विभाव्यते
पित्तम् अग्निः स्मृतं त्व् एवम् अग्निसोमात्मकं जगत् एवं प्रवर्तिते गर्भे वर्धिते ऽर्बुदसंनिभे
वायुः प्रवेशं संचक्रे संगतः परमात्मनः स पञ्चधा शरीरस्थो भिद्यते वर्तते पुनः
प्राणापानौ समानश् च उदानो व्यान एव च प्राणो ऽस्य परमात्मानं वर्धयन् परिवर्तते
अपानः पश्चिमं कायम् उदानो ऽर्धं शरीरिणः व्यानस् तु व्याप्यते येन समानः संनिवर्तते