यानि कर्माणि चक्रुस् ते समुत्पन्ना महीतले विस्तरेण मुने तानि ब्रूहि नो वदतां वर
समग्रं चरितं तेषाम् अद्भुतं चातिमानुषम् कथं स भगवान् देवः सुरेशः सुरसत्तमः
वसुदेवकुले धीमान् वासुदेवत्वम् आगतः अमरैश् चावृतं पुण्यं पुण्यकृद्भिर् अलंकृतम्
देवलोकं किम् उत्सृज्य मर्त्यलोक इहागतः देवमानुषयोर् नेता द्योर् भुवः प्रभवो ऽव्ययः
किमर्थं दिव्यम् आत्मानं मानुषेषु न्ययोजयत् यश् चक्रं वर्तयत्य् एको मानुषाणाम् अनामयम्
स मानुष्ये कथं बुद्धिं चक्रे चक्रगदाधरः गोपायनं यः कुरुते जगतः सार्वभौतिकम्
स कथं गां गतो विष्णुर् गोपत्वम् अकरोत् प्रभुः महाभूतानि भूतात्मा यो दधार चकार च
श्रीगर्भः स कथं गर्भे स्त्रिया भूचरया धृतः येन लोकान् क्रमैर् जित्वा त्रिभिर् वै त्रिदशेप्सया
स्थापिता जगतो मार्गास् त्रिवर्गाश् चाभवंस् त्रयः यो ऽन्तकाले जगत् पीत्वा कृत्वा तोयमयं वपुः
लोकम् एकार्णवं चक्रे दृश्यादृश्येन चात्मना यः पुराणः पुराणात्मा वाराहं रूपम् आस्थितः
विषाणाग्रेण वसुधाम् उज्जहारारिसूदनः यः पुरा पुरुहूतार्थे त्रैलोक्यम् इदम् अव्ययम्
ददौ जित्वा वसुमतीं सुराणां सुरसत्तमः येन सैंहवपुः कृत्वा द्विधा कृत्वा च तत् पुनः
पूर्वदैत्यो महावीर्यो हिरण्यकशिपुर् हतः यः पुरा ह्य् अनलो भूत्वा और्वः संवर्तको विभुः
पातालस्थो ऽर्णवरसं पपौ तोयमयं हरिः सहस्रचरणं ब्रह्म सहस्रांशुसहस्रदम्
सहस्रशिरसं देवं यम् आहुर् वै युगे युगे नाभ्यां पद्मं समुद्भूतं यस्य पैतामहं गृहम्
एकार्णवे नागलोके सद्धिरण्मयपङ्कजम् येन ते निहता दैत्याः संग्रामे तारकामये
येन देवमयं कृत्वा सर्वायुधधरं वपुः गुहासंस्थेन चोत्सिक्तः कालनेमिर् निपातितः
उत्तरान्ते समुद्रस्य क्षीरोदस्यामृतोदधौ यः शेते शाश्वतं योगम् आस्थाय तिमिरं महत्
सुरारणी गर्भम् अधत्त दिव्यं तपःप्रकर्षाद् अदितिः पुराणम् शक्रं च यो दैत्यगणावरुद्धं गर्भावधानेन कृतं चकार
पदानि यो योगमयानि कृत्वा चकार दैत्यान् सलिलेशयस्थान् कृत्वा च देवांस् त्रिदशेश्वरांस् तु चक्रे सुरेशं पुरुहूतम् एव
गार्हपत्येन विधिना अन्वाहार्येण कर्मणा अग्निम् आहवनीयं च वेदं दीक्षां समिद् ध्रुवम्
प्रोक्षणीयं स्रुवं चैव आवभृथ्यं तथैव च अवाक्पाणिस् तु यश् चक्रे हव्यभागभुजस् तथा
हव्यादांश् च सुरांश् चक्रे कव्यादांश् च पितॄन् अथ भोगार्थे यज्ञविधिना ऽयोजयद् यज्ञकर्मणि
पात्राणि दक्षिणां दीक्षां चरूंश् चोलूखलानि च यूपं समित् स्रुवं सोमं पवित्रान् परिधीन् अपि
यज्ञियानि च द्रव्याणि चमसांश् च तथापरान् सदस्यान् यजमानांश् च मेधादींश् च क्रतूत्तमान्
विबभाज पुरा यस् तु पारमेष्ठ्येन कर्मणा युगानुरूपं यः कृत्वा लोकान् अनुपराक्रमात्
क्षणा निमेषाः काष्ठाश् च कलास् त्रैकाल्यम् एव च मुहूर्तास् तिथयो मासा दिनं संवत्सरस् तथा
ऋतवः कालयोगाश् च प्रमाणं त्रिविधं त्रिषु आयुःक्षेत्राण्य् उपचयो लक्षणं रूपसौष्ठवम्
त्रयो लोकास् त्रयो देवास् त्रैविद्यं पावकास् त्रयः त्रैकाल्यं त्रीणि कर्माणि त्रयो वर्णास् त्रयो गुणाः
सृष्टा लोकाः पुरा सर्वे येनानन्तेन कर्मणा सर्वभूतगतः स्रष्टा सर्वभूतगुणात्मकः