गन्तुम् इच्छामि परमं पदं यत् ते सनातनम् प्रसादात् तव देवेश पुनरावृत्तिदुर्लभम्
भक्तो ऽसि मे मुनिश्रेष्ठ माम् आराधय नित्यशः मत्प्रसादाद् ध्रुवं मोक्षं प्राप्यसि त्वं समीहितम्
मद्भक्ताः क्षत्रिया वैश्याः स्त्रियः शूद्रान्त्यजातिजाः प्राप्नुवन्ति परां सिद्धिं किं पुनस् त्वं द्विजोत्तम
श्वपाको ऽपि च मद्भक्तः सम्यक् श्रद्धासमन्वितः प्राप्नोत्य् अभिमतां सिद्धिम् अन्येषां तत्र का कथा
एवम् उक्त्वा तु तं विप्राः स देवो भक्तवत्सलः दुर्विज्ञेयगतिर् विष्णुस् तत्रैवान्तरधीयत
गते तस्मिन् मुनिश्रेष्ठाः कण्डुः संहृष्टमानसः सर्वान् कामान् परित्यज्य स्वस्थचित्तो भवत् पुनः
सर्वेन्द्रियाणि संयम्य निर्ममो निरहंकृतिः एकाग्रमानसः सम्यग् ध्यात्वा तं पुरुषोत्तमम्
निर्लेपं निर्गुणं शान्तं सत्तामात्रव्यवस्थितम् अवाप परमं मोक्षं सुराणाम् अपि दुर्लभम्
यः पठेच् छृणुयाद् वापि कथां कण्डोर् महात्मनः विमुक्तः सर्वपापेभ्यः स्वर्गलोकं स गच्छति
एवं मया मुनिश्रेष्ठाः कर्मभूमिर् उदाहृता मोक्षक्षेत्रं च परमं देवं च पुरुषोत्तमम्
ये पश्यन्ति विभुं स्तुवन्ति वरदं ध्यायन्ति मुक्तिप्रदं भक्त्या श्रीपुरुषोत्तमाख्यम् अजरं संसारदुःखापहम्
ते भुक्त्वा मनुजेन्द्रभोगम् अमलाः स्वर्गे च दिव्यं सुखं पश्चाद् यान्ति समस्तदोषरहिताः स्थानं हरेर् अव्ययम्
व्यासस्य वचनं श्रुत्वा मुनयः संयतेन्द्रियाः प्रीता बभूवुः संहृष्टा विस्मिताश् च पुनः पुनः
अहो भारतवर्षस्य त्वया संकीर्तिता गुणाः तद्वच् छ्रीपुरुषाख्यस्य क्षेत्रस्य पुरुषोत्तम
विस्मयो हि न चैकस्य श्रुत्वा माहात्म्यम् उत्तमम् पुरुषाख्यस्य क्षेत्रस्य प्रीतिश् च वदतां वर
चिरात् प्रभृति चास्माकं संशयो हृदि वर्तते त्वदृते संशयस्यास्य च्छेत्ता नान्यो ऽस्ति भूतले
उत्पत्तिं बलदेवस्य कृष्णस्य च महीतले भद्रायाश् चैव कार्त्स्न्येन पृच्छामस् त्वां महामुने
किमर्थं तौ समुत्पन्नौ कृष्णसंकर्षणाव् उभौ वसुदेवसुतौ वीरौ स्थितौ नन्दगृहे मुने
निःसारे मृत्युलोके ऽस्मिन् दुःखप्राये ऽतिचञ्चले जलबुद्बुदसंकाशे भैरवे लोमहर्षणे
विण्मूत्रपिच्छलं कष्टं संकटं दुःखदायकम् कथं घोरतरं तेषां गर्भवासम् अरोचत
यानि कर्माणि चक्रुस् ते समुत्पन्ना महीतले विस्तरेण मुने तानि ब्रूहि नो वदतां वर
समग्रं चरितं तेषाम् अद्भुतं चातिमानुषम् कथं स भगवान् देवः सुरेशः सुरसत्तमः
वसुदेवकुले धीमान् वासुदेवत्वम् आगतः अमरैश् चावृतं पुण्यं पुण्यकृद्भिर् अलंकृतम्
देवलोकं किम् उत्सृज्य मर्त्यलोक इहागतः देवमानुषयोर् नेता द्योर् भुवः प्रभवो ऽव्ययः
किमर्थं दिव्यम् आत्मानं मानुषेषु न्ययोजयत् यश् चक्रं वर्तयत्य् एको मानुषाणाम् अनामयम्
स मानुष्ये कथं बुद्धिं चक्रे चक्रगदाधरः गोपायनं यः कुरुते जगतः सार्वभौतिकम्
स कथं गां गतो विष्णुर् गोपत्वम् अकरोत् प्रभुः महाभूतानि भूतात्मा यो दधार चकार च
श्रीगर्भः स कथं गर्भे स्त्रिया भूचरया धृतः येन लोकान् क्रमैर् जित्वा त्रिभिर् वै त्रिदशेप्सया
स्थापिता जगतो मार्गास् त्रिवर्गाश् चाभवंस् त्रयः यो ऽन्तकाले जगत् पीत्वा कृत्वा तोयमयं वपुः
लोकम् एकार्णवं चक्रे दृश्यादृश्येन चात्मना यः पुराणः पुराणात्मा वाराहं रूपम् आस्थितः