अश्वशीर्ष महाघोण महापुरुषविग्रह मधुकैटभहन्त्रे च नमस् ते तुरगानन
महाकमठभोगाय पृथिव्युद्धरणाय च विधृताद्रिस्वरूपाय महाकूर्माय ते नमः
नमो महावराहाय पृथिव्युद्धारकारिणे नमश् चादिवराहाय विश्वरूपाय वेधसे
नमो ऽनन्ताय सूक्ष्माय मुख्याय च वराय च परमाणुस्वरूपाय योगिगम्याय ते नमः
तस्मै नमः कारणकारणाय योगीन्द्रवृत्तनिलयाय सुदुर्विदाय क्षीरार्णवाश्रितमहाहिसुतल्पगाय तुभ्यं नमः कनकरत्नसुकुण्डलाय
इत्थं स्तुतस् तदा तेन प्रीतः प्रोवाच माधवः क्षिप्रं ब्रूहि मुनिश्रेष्ठ मत्तो यद् अभिवाञ्छसि
संसारे ऽस्मिञ् जगन्नाथ दुस्तरे लोमहर्षणे अनित्ये दुःखबहुले कदलीदलसंनिभे
निराश्रये निरालम्बे जलबुद्बुदचञ्चले सर्वोपद्रवसंयुक्ते दुस्तरे चातिभैरवे
भ्रमामि सुचिरं कालं मायया मोहितस् तव न चान्तम् अभिगच्छामि विषयासक्तमानसः
त्वाम् अहं चाद्य देवेश संसारभयपीडितः गतो ऽस्मि शरणं कृष्ण माम् उद्धर भवार्णवात्
गन्तुम् इच्छामि परमं पदं यत् ते सनातनम् प्रसादात् तव देवेश पुनरावृत्तिदुर्लभम्
भक्तो ऽसि मे मुनिश्रेष्ठ माम् आराधय नित्यशः मत्प्रसादाद् ध्रुवं मोक्षं प्राप्यसि त्वं समीहितम्
मद्भक्ताः क्षत्रिया वैश्याः स्त्रियः शूद्रान्त्यजातिजाः प्राप्नुवन्ति परां सिद्धिं किं पुनस् त्वं द्विजोत्तम
श्वपाको ऽपि च मद्भक्तः सम्यक् श्रद्धासमन्वितः प्राप्नोत्य् अभिमतां सिद्धिम् अन्येषां तत्र का कथा
एवम् उक्त्वा तु तं विप्राः स देवो भक्तवत्सलः दुर्विज्ञेयगतिर् विष्णुस् तत्रैवान्तरधीयत
गते तस्मिन् मुनिश्रेष्ठाः कण्डुः संहृष्टमानसः सर्वान् कामान् परित्यज्य स्वस्थचित्तो भवत् पुनः
सर्वेन्द्रियाणि संयम्य निर्ममो निरहंकृतिः एकाग्रमानसः सम्यग् ध्यात्वा तं पुरुषोत्तमम्
निर्लेपं निर्गुणं शान्तं सत्तामात्रव्यवस्थितम् अवाप परमं मोक्षं सुराणाम् अपि दुर्लभम्
यः पठेच् छृणुयाद् वापि कथां कण्डोर् महात्मनः विमुक्तः सर्वपापेभ्यः स्वर्गलोकं स गच्छति
एवं मया मुनिश्रेष्ठाः कर्मभूमिर् उदाहृता मोक्षक्षेत्रं च परमं देवं च पुरुषोत्तमम्
ये पश्यन्ति विभुं स्तुवन्ति वरदं ध्यायन्ति मुक्तिप्रदं भक्त्या श्रीपुरुषोत्तमाख्यम् अजरं संसारदुःखापहम्
ते भुक्त्वा मनुजेन्द्रभोगम् अमलाः स्वर्गे च दिव्यं सुखं पश्चाद् यान्ति समस्तदोषरहिताः स्थानं हरेर् अव्ययम्
व्यासस्य वचनं श्रुत्वा मुनयः संयतेन्द्रियाः प्रीता बभूवुः संहृष्टा विस्मिताश् च पुनः पुनः
अहो भारतवर्षस्य त्वया संकीर्तिता गुणाः तद्वच् छ्रीपुरुषाख्यस्य क्षेत्रस्य पुरुषोत्तम
विस्मयो हि न चैकस्य श्रुत्वा माहात्म्यम् उत्तमम् पुरुषाख्यस्य क्षेत्रस्य प्रीतिश् च वदतां वर
चिरात् प्रभृति चास्माकं संशयो हृदि वर्तते त्वदृते संशयस्यास्य च्छेत्ता नान्यो ऽस्ति भूतले
उत्पत्तिं बलदेवस्य कृष्णस्य च महीतले भद्रायाश् चैव कार्त्स्न्येन पृच्छामस् त्वां महामुने
किमर्थं तौ समुत्पन्नौ कृष्णसंकर्षणाव् उभौ वसुदेवसुतौ वीरौ स्थितौ नन्दगृहे मुने
निःसारे मृत्युलोके ऽस्मिन् दुःखप्राये ऽतिचञ्चले जलबुद्बुदसंकाशे भैरवे लोमहर्षणे
विण्मूत्रपिच्छलं कष्टं संकटं दुःखदायकम् कथं घोरतरं तेषां गर्भवासम् अरोचत