हिरण्यनाभस् त्वं देवस् त्वं शशी त्वं प्रजापतिः अनिर्देश्यवपुस् त्वं वै त्वं यमस् त्वं सुरारिहा
त्वं च संकर्षणो देवस् त्वं कर्ता त्वं सनातनः त्वं वासुदेवो ऽमेयात्मा त्वम् एव गुणवर्जितः
त्वं ज्येष्ठस् त्वं वरिष्ठस् त्वं त्वं सहिष्णुश् च माधवः सहस्रशीर्षा त्वं देवस् त्वम् अव्यक्तः सहस्रदृक्
सहस्रपादस् त्वं देवस् त्वं विराट् त्वं सुरप्रभुः त्वम् एव तिष्ठसे भूयो देवदेव दशाङ्गुलः
यद् भूतं तत् त्वम् एवोक्तः पुरुषः शक्र उत्तमः यद् भाव्यं तत् त्वम् ईशानस् त्वम् ऋतस् त्वं तथामृतः
त्वत्तो रोहत्य् अयं लोको महीयांस् त्वम् अनुत्तमः त्वं ज्यायान् पुरुषस् त्वं च त्वं देव दशधा स्थितः
विश्वभूतश् चतुर्भागो नवभागो ऽमृतो दिवि नवभागो ऽन्तरिक्षस्थः पौरुषेयः सनातनः
भागद्वयं च भूसंस्थं चतुर्भागो ऽप्य् अभूद् इह त्वत्तो यज्ञाः संभवन्ति जगतो वृष्टिकारणम्
त्वत्तो विराट् समुत्पन्नो जगतो हृदि यः पुमान् सो ऽतिरिच्यत भूतेभ्यस् तेजसा यशसा श्रिया
त्वत्तः सुराणाम् आहारः पृषदाज्यम् अजायत ग्राम्यारण्याश् चौषधयस् त्वत्तः पशुमृगादयः
ध्येयध्यानपरस् त्वं च कृतवान् असि चौषधीः त्वं देवदेव सप्तास्य कालाख्यो दीप्तविग्रहः
जङ्गमाजङ्गमं सर्वं जगद् एतच् चराचरम् त्वत्तः सर्वम् इदं जातं त्वयि सर्वं प्रतिष्ठितम्
अनिरुद्धस् त्वं माधवस् त्वं प्रद्युम्नः सुरारिहा देव सर्वसुरश्रेष्ठ सर्वलोकपरायण
त्राहि माम् अरविन्दाक्ष नारायण नमो ऽस्तु ते नमस् ते भगवन् विष्णो नमस् ते पुरुषोत्तम
नमस् ते सर्वलोकेश नमस् ते कमलालय गुणालय नमस् ते ऽस्तु नमस् ते ऽस्तु गुणाकर
वासुदेव नमस् ते ऽस्तु नमस् ते ऽस्तु सुरोत्तम जनार्दन नमस् ते ऽस्तु नमस् ते ऽस्तु सनातन
नमस् ते योगिनां गम्य योगावास नमो ऽस्तु ते गोपते श्रीपते विष्णो नमस् ते ऽस्तु मरुत्पते
जगत्पते जगत्सूते नमस् ते ज्ञानिनां पते दिवस्पते नमस् ते ऽस्तु नमस् ते ऽस्तु महीपते
नमस् ते मधुहन्त्रे च नमस् ते पुष्करेक्षण कैटभघ्न नमस् ते ऽस्तु सुब्रह्मण्य नमो ऽस्तु ते
नमो ऽस्तु ते महामीन श्रुतिपृष्ठधराच्युत समुद्रसलिलक्षोभ पद्मजाह्लादकारिणे
अश्वशीर्ष महाघोण महापुरुषविग्रह मधुकैटभहन्त्रे च नमस् ते तुरगानन
महाकमठभोगाय पृथिव्युद्धरणाय च विधृताद्रिस्वरूपाय महाकूर्माय ते नमः
नमो महावराहाय पृथिव्युद्धारकारिणे नमश् चादिवराहाय विश्वरूपाय वेधसे
नमो ऽनन्ताय सूक्ष्माय मुख्याय च वराय च परमाणुस्वरूपाय योगिगम्याय ते नमः
तस्मै नमः कारणकारणाय योगीन्द्रवृत्तनिलयाय सुदुर्विदाय क्षीरार्णवाश्रितमहाहिसुतल्पगाय तुभ्यं नमः कनकरत्नसुकुण्डलाय
इत्थं स्तुतस् तदा तेन प्रीतः प्रोवाच माधवः क्षिप्रं ब्रूहि मुनिश्रेष्ठ मत्तो यद् अभिवाञ्छसि
संसारे ऽस्मिञ् जगन्नाथ दुस्तरे लोमहर्षणे अनित्ये दुःखबहुले कदलीदलसंनिभे
निराश्रये निरालम्बे जलबुद्बुदचञ्चले सर्वोपद्रवसंयुक्ते दुस्तरे चातिभैरवे
भ्रमामि सुचिरं कालं मायया मोहितस् तव न चान्तम् अभिगच्छामि विषयासक्तमानसः
त्वाम् अहं चाद्य देवेश संसारभयपीडितः गतो ऽस्मि शरणं कृष्ण माम् उद्धर भवार्णवात्