अतसीपुष्पसंकाशं पद्मपत्त्रायतेक्षणम् शङ्खचक्रगदापाणिं मुकुटाङ्गदधारिणम्
चतुर्बाहुम् उदाराङ्गं पीतवस्त्रधरं शुभम् श्रीवत्सलक्ष्मसंयुक्तं वनमालाविभूषितम्
सर्वलक्षणसंयुक्तं सर्वरत्नविभूषितम् दिव्यचन्दनलिप्ताङ्गं दिव्यमाल्यविभूषितम्
ततः स विस्मयाविष्टो रोमाञ्चिततनूरुहः दण्डवत् प्रणिपत्योर्व्यां प्रणामम् अकरोत् तदा
अद्य मे सफलं जन्म अद्य मे सफलं तपः इत्य् उक्त्वा मुनिशार्दूलास् तं स्तोतुम् उपचक्रमे
नारायण हरे कृष्ण श्रीवत्साङ्क जगत्पते जगद्बीज जगद्धाम जगत्साक्षिन् नमो ऽस्तु ते
अव्यक्त जिष्णो प्रभव प्रधानपुरुषोत्तम पुण्डरीकाक्ष गोविन्द लोकनाथ नमो ऽस्तु ते
हिरण्यगर्भ श्रीनाथ पद्मनाथ सनातन भूगर्भ ध्रुव ईशान हृषीकेश नमो ऽस्तु ते
अनाद्यन्तामृताजेय जय त्वं जयतां वर अजिताखण्ड श्रीकृष्ण श्रीनिवास नमो ऽस्तु ते
पर्जन्यधर्मकर्ता च दुष्पार दुरधिष्ठित दुःखार्तिनाशन हरे जलशायिन् नमो ऽस्तु ते
भूतपाव्यक्त भूतेश भूततत्त्वैर् अनाकुल भूताधिवास भूतात्मन् भूतगर्भ नमो ऽस्तु ते
यज्ञयज्वन् यज्ञधर यज्ञधाताभयप्रद यज्ञगर्भ हिरण्याङ्ग पृश्निगर्भ नमो ऽस्तु ते
क्षेत्रज्ञः क्षेत्रभृत् क्षेत्री क्षेत्रहा क्षेत्रकृद् वशी क्षेत्रात्मन् क्षेत्ररहित क्षेत्रस्रष्ट्रे नमो ऽस्तु ते
गुणालय गुणावास गुणाश्रय गुणावह गुणभोक्तृ गुणाराम गुणत्यागिन् नमो ऽस्तु ते
त्वं विष्णुस् त्वं हरिश् चक्री त्वं जिष्णुस् त्वं जनार्दनः त्वं भूतस् त्वं वषट्कारस् त्वं भव्यस् त्वं भवत्प्रभुः
त्वं भूतकृत् त्वम् अव्यक्तस् त्वं भवो भूतभृद् भवान् त्वं भूतभावनो देवस् त्वाम् आहुर् अजम् ईश्वरम्
त्वम् अनन्तः कृतज्ञस् त्वं प्रकृतिस् त्वं वृषाकपिः त्वं रुद्रस् त्वं दुराधर्षस् त्वम् अमोघस् त्वम् ईश्वरः
त्वं विश्वकर्मा जिष्णुस् त्वं त्वं शंभुस् त्वं वृषाकृतिः त्वं शंकरस् त्वम् उशना त्वं सत्यं त्वं तपो जनः
त्वं विश्वजेता त्वं शर्म त्वं शरण्यस् त्वम् अक्षरम् त्वं शंभुस् त्वं स्वयंभूश् च त्वं ज्येष्ठस् त्वं परायणः
त्वम् आदित्यस् त्वम् ओंकारस् त्वं प्राणस् त्वं तमिस्रहा त्वं पर्जन्यस् त्वं प्रथितस् त्वं वेधास् त्वं सुरेश्वरः
त्वम् ऋग् यजुः साम चैव त्वम् आत्मा संमतो भवान् त्वम् अग्निस् त्वं च पवनस् त्वम् आपो वसुधा भवान्
त्वं स्रष्टा त्वं तथा भोक्ता होता त्वं च हविः क्रतुः त्वं प्रभुस् त्वं विभुः श्रेष्ठस् त्वं लोकपतिर् अच्युतः
त्वं सर्वदर्शनः श्रीमांस् त्वं सर्वदमनो ऽरिहा त्वम् अहस् त्वं तथा रात्रिस् त्वाम् आहुर् वत्सरं बुधाः
त्वं कालस् त्वं कला काष्ठा त्वं मुहूर्तः क्षणा लवाः त्वं बालस् त्वं तथा वृद्धस् त्वं पुमान् स्त्री नपुंसकः
त्वं विश्वयोनिस् त्वं चक्षुस् त्वं स्थाणुस् त्वं शुचिश्रवाः त्वं शाश्वतस् त्वम् अजितस् त्वम् उपेन्द्रस् त्वम् उत्तमः
त्वं सर्वविश्वसुखदस् त्वं वेदाङ्गं त्वम् अव्ययः त्वं वेदवेदस् त्वं धाता विधाता त्वं समाहितः
त्वं जलनिधिर् आमूलं त्वं धाता त्वं पुनर् वसुः त्वं वैद्यस् त्वं धृतात्मा च त्वम् अतीन्द्रियगोचरः
त्वम् अग्रणीर् ग्रामणीस् त्वं त्वं सुपर्णस् त्वम् आदिमान् त्वं संग्रहस् त्वं सुमहत् त्वं धृतात्मा त्वम् अच्युतः
त्वं यमस् त्वं च नियमस् त्वं प्रांशुस् त्वं चतुर्भुजः त्वम् एवान्नान्तरात्मा त्वं परमात्मा त्वम् उच्यते
त्वं गुरुस् त्वं गुरुतमस् त्वं वामस् त्वं प्रदक्षिणः त्वं पिप्पलस् त्वम् अगमस् त्वं व्यक्तस् त्वं प्रजापतिः