ब्रह्मपारं मुने श्रोतुम् इच्छामः परमं शुभम् जपता कण्डुना देवो येनाराध्यत केशवः
पारं परं विष्णुर् अपारपारः परः परेभ्यः परमात्मरूपः स ब्रह्मपारः परपारभूतः परः पराणाम् अपि पारपारः
स कारणं कारणसंश्रितो ऽपि तस्यापि हेतुः परहेतुहेतुः कार्यो ऽपि चैष सह कर्मकर्तृ रूपैर् अनेकैर् अवतीह सर्वम्
ब्रह्म प्रभुर् ब्रह्म स सर्वभूतो ब्रह्म प्रजानां पतिर् अच्युतो ऽसौ ब्रह्माव्ययं नित्यम् अजं स विष्णुर् अपक्षयाद्यैर् अखिलैर् असङ्गः
ब्रह्माक्षरम् अजं नित्यं यथासौ पुरुषोत्तमः तथा रागादयो दोषाः प्रयान्तु प्रशमं मम
श्रुत्वा तस्य मुनेर् जाप्यं ब्रह्मपारं द्विजोत्तमाः भक्तिं च परमां ज्ञात्वा सुदृढां पुरुषोत्तमः
प्रीत्या स परया देवस् तदासौ भक्तवत्सलः गत्वा तस्य समीपं तु प्रोवाच मधुसूदनः
मेघगम्भीरया वाचा दिशः संनादयन्न् इव आरुह्य गरुडं विप्रा विनताकुलनन्दनम्
मुने ब्रूहि परं कार्यं यत् ते मनसि वर्तते वरदो ऽहम् अनुप्राप्तो वरं वरय सुव्रत
श्रुत्वैवं वचनं तस्य देवदेवस्य चक्रिणः चक्षुर् उन्मील्य सहसा ददर्श पुरतो हरिम्
अतसीपुष्पसंकाशं पद्मपत्त्रायतेक्षणम् शङ्खचक्रगदापाणिं मुकुटाङ्गदधारिणम्
चतुर्बाहुम् उदाराङ्गं पीतवस्त्रधरं शुभम् श्रीवत्सलक्ष्मसंयुक्तं वनमालाविभूषितम्
सर्वलक्षणसंयुक्तं सर्वरत्नविभूषितम् दिव्यचन्दनलिप्ताङ्गं दिव्यमाल्यविभूषितम्
ततः स विस्मयाविष्टो रोमाञ्चिततनूरुहः दण्डवत् प्रणिपत्योर्व्यां प्रणामम् अकरोत् तदा
अद्य मे सफलं जन्म अद्य मे सफलं तपः इत्य् उक्त्वा मुनिशार्दूलास् तं स्तोतुम् उपचक्रमे
नारायण हरे कृष्ण श्रीवत्साङ्क जगत्पते जगद्बीज जगद्धाम जगत्साक्षिन् नमो ऽस्तु ते
अव्यक्त जिष्णो प्रभव प्रधानपुरुषोत्तम पुण्डरीकाक्ष गोविन्द लोकनाथ नमो ऽस्तु ते
हिरण्यगर्भ श्रीनाथ पद्मनाथ सनातन भूगर्भ ध्रुव ईशान हृषीकेश नमो ऽस्तु ते
अनाद्यन्तामृताजेय जय त्वं जयतां वर अजिताखण्ड श्रीकृष्ण श्रीनिवास नमो ऽस्तु ते
पर्जन्यधर्मकर्ता च दुष्पार दुरधिष्ठित दुःखार्तिनाशन हरे जलशायिन् नमो ऽस्तु ते
भूतपाव्यक्त भूतेश भूततत्त्वैर् अनाकुल भूताधिवास भूतात्मन् भूतगर्भ नमो ऽस्तु ते
यज्ञयज्वन् यज्ञधर यज्ञधाताभयप्रद यज्ञगर्भ हिरण्याङ्ग पृश्निगर्भ नमो ऽस्तु ते
क्षेत्रज्ञः क्षेत्रभृत् क्षेत्री क्षेत्रहा क्षेत्रकृद् वशी क्षेत्रात्मन् क्षेत्ररहित क्षेत्रस्रष्ट्रे नमो ऽस्तु ते
गुणालय गुणावास गुणाश्रय गुणावह गुणभोक्तृ गुणाराम गुणत्यागिन् नमो ऽस्तु ते
त्वं विष्णुस् त्वं हरिश् चक्री त्वं जिष्णुस् त्वं जनार्दनः त्वं भूतस् त्वं वषट्कारस् त्वं भव्यस् त्वं भवत्प्रभुः
त्वं भूतकृत् त्वम् अव्यक्तस् त्वं भवो भूतभृद् भवान् त्वं भूतभावनो देवस् त्वाम् आहुर् अजम् ईश्वरम्
त्वम् अनन्तः कृतज्ञस् त्वं प्रकृतिस् त्वं वृषाकपिः त्वं रुद्रस् त्वं दुराधर्षस् त्वम् अमोघस् त्वम् ईश्वरः
त्वं विश्वकर्मा जिष्णुस् त्वं त्वं शंभुस् त्वं वृषाकृतिः त्वं शंकरस् त्वम् उशना त्वं सत्यं त्वं तपो जनः
त्वं विश्वजेता त्वं शर्म त्वं शरण्यस् त्वम् अक्षरम् त्वं शंभुस् त्वं स्वयंभूश् च त्वं ज्येष्ठस् त्वं परायणः
त्वम् आदित्यस् त्वम् ओंकारस् त्वं प्राणस् त्वं तमिस्रहा त्वं पर्जन्यस् त्वं प्रथितस् त्वं वेधास् त्वं सुरेश्वरः