ऊर्मिषट्कातिगं ब्रह्म ज्ञेयम् आत्मजयेन मे गतिर् एषा कृता येन धिक् तं काममहाग्रहम्
व्रतानि सर्ववेदाश् च कारणान्य् अखिलानि च नरकग्राममार्गेण कामेनाद्य हतानि मे
न त्वां करोम्य् अहं भस्म क्रोधतीव्रेण वह्निना सतां साप्तपदं मैत्र्यम् उषितो ऽहं त्वया सह
अथवा तव दोषः कः किं वा कुर्याम् अहं तव ममैव दोषो नितरां येनाहम् अजितेन्द्रियः
यथा शक्रप्रियार्थिन्या कृतो मत्तपसो व्ययः त्वया दृष्टिमहामोहमनुनाहं जुगुप्सितः
यावद् इत्थं स विप्रर्षिस् तां ब्रवीति सुमध्यमाम् तावत् स्खलत्स्वेदजला सा बभूवातिवेपथुः
प्रवेपमानां स च तां स्विन्नगात्रलतां सतीम् गच्छ गच्छेति सक्रोधम् उवाच मुनिसत्तमः
सा तु निर्भर्त्सिता तेन विनिष्क्रम्य तदाश्रमात् आकाशगामिनी स्वेदं ममार्ज तरुपल्लवैः
वृक्षाद् वृक्षं ययौ बाला उदग्रारुणपल्लवैः निर्ममार्ज च गात्राणि गलत्स्वेदजलानि वै
ऋषिणा यस् तदा गर्भस् तस्या देहे समाहितः निर्जगाम सरोमाञ्चस्वेदरूपी तदङ्गतः
तं वृक्षा जगृहुर् गर्भम् एकं चक्रे च मारुतः सोमेनाप्यायितो गोभिः स तदा ववृद्धे शनैः
मारिषा नाम कन्याभूद् वृक्षाणां चारुलोचना प्राचेतसानां सा भार्या दक्षस्य जननी द्विजाः
स चापि भगवान् कण्डुः क्षीणे तपसि सत्तमः पुरुषोत्तमाख्यं भो विप्रा विष्णोर् आयतनं ययौ
ददर्श परमं क्षेत्रं मुक्तिदं भुवि दुर्लभम् दक्षिणस्योदधेस् तीरे सर्वकामफलप्रदम्
सुरम्यं वालुकाकीर्णं केतकीवनशोभितम् नानाद्रुमलताकीर्णं नानापक्षिरुतं शिवम्
सर्वत्र सुखसंचारं सर्वर्तुकुसुमान्वितम् सर्वसौख्यप्रदं नॄणां धन्यं सर्वगुणाकरम्
भृग्वाद्यैः सेवितं पूर्वं मुनिसिद्धवरैस् तथा गन्धर्वैः किंनरैर् यक्षैस् तथान्यैर् मोक्षकाङ्क्षिभिः
ददर्श च हरिं तत्र देवैः सर्वैर् अलंकृतम् ब्राह्मणाद्यैस् तथा वर्णैर् आश्रमस्थैर् निषेवितम्
दृष्ट्वैव स तदा क्षेत्रं देवं च पुरुषोत्तमम् कृतकृत्यम् इवात्मानं मेने स मुनिसत्तमः
तत्रैकाग्रमना भूत्वा चकाराराधनं हरेः ब्रह्मपारमयं कुर्वञ् जपम् एकाग्रमानसः ऊर्ध्वबाहुर् महायोगी स्थित्वासौ मुनिसत्तमः
ब्रह्मपारं मुने श्रोतुम् इच्छामः परमं शुभम् जपता कण्डुना देवो येनाराध्यत केशवः
पारं परं विष्णुर् अपारपारः परः परेभ्यः परमात्मरूपः स ब्रह्मपारः परपारभूतः परः पराणाम् अपि पारपारः
स कारणं कारणसंश्रितो ऽपि तस्यापि हेतुः परहेतुहेतुः कार्यो ऽपि चैष सह कर्मकर्तृ रूपैर् अनेकैर् अवतीह सर्वम्
ब्रह्म प्रभुर् ब्रह्म स सर्वभूतो ब्रह्म प्रजानां पतिर् अच्युतो ऽसौ ब्रह्माव्ययं नित्यम् अजं स विष्णुर् अपक्षयाद्यैर् अखिलैर् असङ्गः
ब्रह्माक्षरम् अजं नित्यं यथासौ पुरुषोत्तमः तथा रागादयो दोषाः प्रयान्तु प्रशमं मम
श्रुत्वा तस्य मुनेर् जाप्यं ब्रह्मपारं द्विजोत्तमाः भक्तिं च परमां ज्ञात्वा सुदृढां पुरुषोत्तमः
प्रीत्या स परया देवस् तदासौ भक्तवत्सलः गत्वा तस्य समीपं तु प्रोवाच मधुसूदनः
मेघगम्भीरया वाचा दिशः संनादयन्न् इव आरुह्य गरुडं विप्रा विनताकुलनन्दनम्
मुने ब्रूहि परं कार्यं यत् ते मनसि वर्तते वरदो ऽहम् अनुप्राप्तो वरं वरय सुव्रत
श्रुत्वैवं वचनं तस्य देवदेवस्य चक्रिणः चक्षुर् उन्मील्य सहसा ददर्श पुरतो हरिम्