रूपयौवनसंपन्नम् अतीव सुमनोहरम् दिव्यालंकारसंयुक्तं षोडशवत्सराकृति
दिव्यवस्त्रधरं कान्तं दिव्यस्रग्गन्धभूषितम् सर्वोपभोगसंपन्नं सहसा तपसो बलात्
दृष्ट्वा सा तस्य तद् वीर्यं परं विस्मयम् आगता अहो ऽस्य तपसो वीर्यम् इत्य् उक्त्वा मुदिताभवत्
स्नानं संध्यां जपं होमं स्वाध्यायं देवतार्चनम् व्रतोपवासनियमं ध्यानं च मुनिसत्तमाः
त्यक्त्वा स रेमे मुदितस् तया सार्धम् अहर्निशम् मन्मथाविष्टहृदयो न बुबोध तपःक्षयम्
संध्यारात्रिदिवापक्षमासर्त्वयनहायनम् न बुबोध गतं कालं विषयासक्तमानसः
सा च तं कामजैर् भावैर् विदग्धा रहसि द्विजाः वरयाम् आस सुश्रोणिः प्रलापकुशला तदा
एवं कण्डुस् तया सार्धं वर्षाणाम् अधिकं शतम् अतिष्ठन् मन्दरद्रोण्यां ग्राम्यधर्मरतो मुनिः
सा तं प्राह महाभागं गन्तुम् इच्छाम्य् अहं दिवम् प्रसादसुमुखो ब्रह्मन्न् अनुज्ञातुं त्वम् अर्हसि
तयैवम् उक्तः स मुनिस् तस्याम् आसक्तमानसः दिनानि कतिचिद् भद्रे स्थीयताम् इत्य् अभाषत
एवम् उक्ता ततस् तेन साग्रं वर्षशतं पुनः बुभुजे विषयांस् तन्वी तेन सार्धं महात्मना
अनुज्ञां देहि भगवन् व्रजामि त्रिदशालयम् उक्तस् तयेति स पुनः स्थीयताम् इत्य् अभाषत
पुनर् गते वर्षशते साधिके सा शुभानना याम्य् अहं त्रिदिवं ब्रह्मन् प्रणयस्मितशोभनम्
उक्तस् तयैवं स मुनिः पुनर् आहायतेक्षणाम् इहास्यतां मया सुभ्रु चिरं कालं गमिष्यसि
तच्छापभीता सुश्रोणी सह तेनर्षिणा पुनः शतद्वयं किंचिद् ऊनं वर्षाणां समतिष्ठत
गमनाय महाभागो देवराजनिवेशनम् प्रोक्तः प्रोक्तस् तया तन्व्या स्थीयताम् इत्य् अभाषत
तस्य शापभयाद् भीरुर् दाक्षिण्येन च दक्षिणा प्रोक्ता प्रणयभङ्गार्तिवेदिनी न जहौ मुनिम्
तया च रमतस् तस्य परमर्षेर् अहर्निशम् नवं नवम् अभूत् प्रेम मन्मथासक्तचेतसः
एकदा तु त्वरायुक्तो निश्चक्रामोटजान् मुनिः निष्क्रामन्तं च कुत्रेति गम्यते प्राह सा शुभा
इत्य् उक्तः स तया प्राह परिवृत्तम् अहः शुभे संध्योपास्तिं करिष्यामि क्रियालोपो ऽन्यथा भवेत्
ततः प्रहस्य मुदिता सा तं प्राह महामुनिम् किम् अद्य सर्वधर्मज्ञ परिवृत्तम् अहस् तव गतम् एतन् न कुरुते विस्मयं कस्य कथ्यते
प्रातस् त्वम् आगता भद्रे नदीतीरम् इदं शुभम् मया दृष्टासि सुश्रोणि प्रविष्टा च ममाश्रमम्
इयं च वर्तते संध्या परिणामम् अहो गतम् अवहासः किमर्थो ऽयं सद्भावः कथ्यतां मम
प्रत्यूषस्य् आगता ब्रह्मन् सत्यम् एतन् न मे मृषा किंत्व् अद्य तस्य कालस्य गतान्य् अब्दशतानि ते
ततः ससाध्वसो विप्रस् तां पप्रच्छायतेक्षणाम् कथ्यतां भीरु कः कालस् त्वया मे रमतः सदा
सप्तोत्तराण्य् अतीतानि नववर्षशतानि च मासाश् च षट् तथैवान्यत् समतीतं दिनत्रयम्
सत्यं भीरु वदस्य् एतत् परिहासो ऽथवा शुभे दिनम् एकम् अहं मन्ये त्वया सार्धम् इहोषितम्
वदिष्याम्य् अनृतं ब्रह्मन् कथम् अत्र तवान्तिके विशेषाद् अद्य भवता पृष्टा मार्गानुगामिना
निशम्य तद् वचस् तस्याः स मुनिर् द्विजसत्तमाः धिग् धिङ् माम् इत्य् अनाचारं विनिन्द्यात्मानम् आत्मना
तपांसि मम नष्टानि हतं ब्रह्मविदां धनम् हृतो विवेकः केनापि योषिन् मोहाय निर्मिता