ववौ गन्धवहश् चैव मलयाद्रिनिकेतनः पुष्पान् उच्चावचान् मेध्यान् पातयंश् च शनैः शनैः
पुष्पबाणधरश् चैव गत्वा तस्य समीपतः मुनेश् च क्षोभयाम् आस कामस् तस्यापि मानसम्
ततो गीतध्वनिं श्रुत्वा मुनिर् विस्मितमानसः जगाम यत्र सा सुभ्रूः कामबाणप्रपीडितः
दृष्ट्वा ताम् आह संदृष्टो विस्मयोत्फुल्ललोचनः भ्रष्टोत्तरीयो विकलः पुलकाञ्चितविग्रहः
कासि कस्यासि सुश्रोणि सुभगे चारुहासिनि मनो हरसि मे सुभ्रु ब्रूहि सत्यं सुमध्यमे
तव कर्मकरा चाहं पुष्पार्थम् अहम् आगता आदेशं देहि मे क्षिप्रं किं करोमि तवाज्ञया
श्रुत्वैवं वचनं तस्यास् त्यक्त्वा धैर्यं विमोहितः आदाय हस्ते तां बालां प्रविवेश स्वम् आश्रमम्
ततः कामश् च वायुश् च वसन्तश् च द्विजोत्तमाः जग्मुर् यथागतं सर्वे कृतकृत्यास् त्रिविष्टपम्
शशंसुश् च हरिं गत्वा तस्यास् तस्य च चेष्टितम् श्रुत्वा शक्रस् तदा देवाः प्रीताः सुमनसो ऽभवन्
स च कण्डुस् तया सार्धं प्रविशन्न् एव चाश्रमम् आत्मनः परमं रूपं चकार मदनाकृति
रूपयौवनसंपन्नम् अतीव सुमनोहरम् दिव्यालंकारसंयुक्तं षोडशवत्सराकृति
दिव्यवस्त्रधरं कान्तं दिव्यस्रग्गन्धभूषितम् सर्वोपभोगसंपन्नं सहसा तपसो बलात्
दृष्ट्वा सा तस्य तद् वीर्यं परं विस्मयम् आगता अहो ऽस्य तपसो वीर्यम् इत्य् उक्त्वा मुदिताभवत्
स्नानं संध्यां जपं होमं स्वाध्यायं देवतार्चनम् व्रतोपवासनियमं ध्यानं च मुनिसत्तमाः
त्यक्त्वा स रेमे मुदितस् तया सार्धम् अहर्निशम् मन्मथाविष्टहृदयो न बुबोध तपःक्षयम्
संध्यारात्रिदिवापक्षमासर्त्वयनहायनम् न बुबोध गतं कालं विषयासक्तमानसः
सा च तं कामजैर् भावैर् विदग्धा रहसि द्विजाः वरयाम् आस सुश्रोणिः प्रलापकुशला तदा
एवं कण्डुस् तया सार्धं वर्षाणाम् अधिकं शतम् अतिष्ठन् मन्दरद्रोण्यां ग्राम्यधर्मरतो मुनिः
सा तं प्राह महाभागं गन्तुम् इच्छाम्य् अहं दिवम् प्रसादसुमुखो ब्रह्मन्न् अनुज्ञातुं त्वम् अर्हसि
तयैवम् उक्तः स मुनिस् तस्याम् आसक्तमानसः दिनानि कतिचिद् भद्रे स्थीयताम् इत्य् अभाषत
एवम् उक्ता ततस् तेन साग्रं वर्षशतं पुनः बुभुजे विषयांस् तन्वी तेन सार्धं महात्मना
अनुज्ञां देहि भगवन् व्रजामि त्रिदशालयम् उक्तस् तयेति स पुनः स्थीयताम् इत्य् अभाषत
पुनर् गते वर्षशते साधिके सा शुभानना याम्य् अहं त्रिदिवं ब्रह्मन् प्रणयस्मितशोभनम्
उक्तस् तयैवं स मुनिः पुनर् आहायतेक्षणाम् इहास्यतां मया सुभ्रु चिरं कालं गमिष्यसि
तच्छापभीता सुश्रोणी सह तेनर्षिणा पुनः शतद्वयं किंचिद् ऊनं वर्षाणां समतिष्ठत
गमनाय महाभागो देवराजनिवेशनम् प्रोक्तः प्रोक्तस् तया तन्व्या स्थीयताम् इत्य् अभाषत
तस्य शापभयाद् भीरुर् दाक्षिण्येन च दक्षिणा प्रोक्ता प्रणयभङ्गार्तिवेदिनी न जहौ मुनिम्
तया च रमतस् तस्य परमर्षेर् अहर्निशम् नवं नवम् अभूत् प्रेम मन्मथासक्तचेतसः
एकदा तु त्वरायुक्तो निश्चक्रामोटजान् मुनिः निष्क्रामन्तं च कुत्रेति गम्यते प्राह सा शुभा
इत्य् उक्तः स तया प्राह परिवृत्तम् अहः शुभे संध्योपास्तिं करिष्यामि क्रियालोपो ऽन्यथा भवेत्