आम्रान् आम्रातकान् भव्यान् नारिकेरान् सतिन्दुकान् अथ बिल्वांस् तथा जीवान् दाडिमान् बीजपूरकान्
पनसांल् लकुचान् नीपाञ् शिरीषान् सुमनोहरान् पारावतांस् तथा कोलान् अरिमेदाम्लवेतसान्
भल्लातकान् आमलकाञ् शतपर्णांश् च किंशुकान् इङ्गुदान् करवीरांश् च हरीतकीविभीतकान्
एतान् अन्यांश् च सा वृक्षान् ददर्श पृथुलोचना तथैवाशोकपुंनागकेतकीबकुलान् अथ
पारिजातान् कोविदारान् मन्दारेन्दीवरांस् तथा पाटलाः पुष्पिता रम्या देवदारुद्रुमांस् तथा
शालांस् तालांस् तमालांश् च निचुलांल् लोमकांस् तथा अन्यांश् च पादपश्रेष्ठान् अपश्यत् फलपुष्पितान्
चकोरैः शतपत्त्रैश् च भृङ्गराजैस् तथा शुकैः कोकिलैः कलविङ्कैश् च हारीतैर् जीवजीवकैः
प्रियपुत्रैश् चातकैश् च तथान्यैर् विविधैः खगैः श्रोत्ररम्यं सुमधुरं कूजद्भिश् चाप्य् अधिष्ठितम्
सरांसि च मनोज्ञानि प्रसन्नसलिलानि च कुमुदैः पुण्डरीकैश् च तथा नीलोत्पलैः शुभैः
कह्लारैः कमलैश् चैव आचितानि समन्ततः कादम्बैश् चक्रवाकैश् च तथैव जलकुक्कुटैः
कारण्डवैर् बकैर् हंसैः कूर्मैर् मद्गुभिर् एव च एतैश् चान्यैश् च कीर्णानि समन्ताज् जलचारिभिः
क्रमेणैव तथा सा तु वनं बभ्राम तैः सह एवं दृष्ट्वा वनं रम्यं तैः सार्धं परमाद्भुतम्
विस्मयोत्फुल्लनयना सा बभूव वराङ्गना प्रोवाच वायुं कामं च वसन्तं च द्विजोत्तमाः
कुरुध्वं मम साहाय्यं यूयं सर्वे पृथक् पृथक्
एवम् उक्त्वा तदा सा तु तथेत्य् उक्ता सुरैर् द्विजाः प्रत्युवाचाद्य यास्यामि यत्रासौ संस्थितो मुनिः
अद्य तं देहयन्तारं प्रयुक्तेन्द्रियवाजिनम् स्मरशस्त्रगलद्रश्मिं करिष्यामि कुसारथिम्
ब्रह्मा जनार्दनो वापि यदि वा नीललोहितः तथाप्य् अद्य करिष्यामि कामबाणक्षतान्तरम्
इत्य् उक्त्वा प्रययौ साथ यत्रासौ तिष्ठते मुनिः मुनेस् तपःप्रभावेण प्रशान्तश्वापदाश्रमम्
सा पुंस्कोकिलमाधुर्ये नदीतीरे व्यवस्थिता स्तोकमात्रं स्थिता तस्माद् अगायत वराप्सराः
ततो वसन्तः सहसा बलं समकरोत् तदा कोकिलारावमधुरम् अकालिकमनोहरम्
ववौ गन्धवहश् चैव मलयाद्रिनिकेतनः पुष्पान् उच्चावचान् मेध्यान् पातयंश् च शनैः शनैः
पुष्पबाणधरश् चैव गत्वा तस्य समीपतः मुनेश् च क्षोभयाम् आस कामस् तस्यापि मानसम्
ततो गीतध्वनिं श्रुत्वा मुनिर् विस्मितमानसः जगाम यत्र सा सुभ्रूः कामबाणप्रपीडितः
दृष्ट्वा ताम् आह संदृष्टो विस्मयोत्फुल्ललोचनः भ्रष्टोत्तरीयो विकलः पुलकाञ्चितविग्रहः
कासि कस्यासि सुश्रोणि सुभगे चारुहासिनि मनो हरसि मे सुभ्रु ब्रूहि सत्यं सुमध्यमे
तव कर्मकरा चाहं पुष्पार्थम् अहम् आगता आदेशं देहि मे क्षिप्रं किं करोमि तवाज्ञया
श्रुत्वैवं वचनं तस्यास् त्यक्त्वा धैर्यं विमोहितः आदाय हस्ते तां बालां प्रविवेश स्वम् आश्रमम्
ततः कामश् च वायुश् च वसन्तश् च द्विजोत्तमाः जग्मुर् यथागतं सर्वे कृतकृत्यास् त्रिविष्टपम्
शशंसुश् च हरिं गत्वा तस्यास् तस्य च चेष्टितम् श्रुत्वा शक्रस् तदा देवाः प्रीताः सुमनसो ऽभवन्
स च कण्डुस् तया सार्धं प्रविशन्न् एव चाश्रमम् आत्मनः परमं रूपं चकार मदनाकृति