उर्वशी मेनका रम्भा घृताची पुञ्जिकस्थला विश्वाची सहजन्या च पूर्वचित्तिस् तिलोत्तमा
अलम्बुषा मिश्रकेशी शशिलेखा च वामना अन्याश् चाप्सरसः सन्ति रूपयौवनगर्विताः
सुमध्याश् चारुवदनाः पीनोन्नतपयोधराः कामप्रधानकुशलास् तास् तत्र संनियोजय
तस्यास् तद् वचनं श्रुत्वा पुनः प्राह शचीपतिः तिष्ठन्तु नाम चान्यास् तास् त्वं चात्र कुशला शुभे
कामं वसन्तं वायुं च सहायार्थे ददामि ते तैः सार्धं गच्छ सुश्रोणि यत्रास्ते स महामुनिः
शक्रस्य वचनं श्रुत्वा तदा सा चारुलोचना जगामाकाशमार्गेण तैः सार्धं चाश्रमं मुनेः
गत्वा सा तत्र रुचिरं ददर्श वनम् उत्तमम् मुनिं च दीप्ततपसम् आश्रमस्थम् अकल्मषम्
अपश्यत् सा वनं रम्यं तैः सार्धं नन्दनोपमम् सर्वर्तुवरपुष्पाढ्यं शाखामृगगणाकुलम्
पुण्यं पद्मबलोपेतं सपल्लवमहाबलम् श्रोत्ररम्यान् सुमधुराञ् शब्दान् खगमुखेरितान्
सर्वर्तुफलभाराढ्यान् सर्वर्तुकुसुमोज्ज्वलान् अपश्यत् पादपांश् चैव विहंगैर् अनुनादितान्
आम्रान् आम्रातकान् भव्यान् नारिकेरान् सतिन्दुकान् अथ बिल्वांस् तथा जीवान् दाडिमान् बीजपूरकान्
पनसांल् लकुचान् नीपाञ् शिरीषान् सुमनोहरान् पारावतांस् तथा कोलान् अरिमेदाम्लवेतसान्
भल्लातकान् आमलकाञ् शतपर्णांश् च किंशुकान् इङ्गुदान् करवीरांश् च हरीतकीविभीतकान्
एतान् अन्यांश् च सा वृक्षान् ददर्श पृथुलोचना तथैवाशोकपुंनागकेतकीबकुलान् अथ
पारिजातान् कोविदारान् मन्दारेन्दीवरांस् तथा पाटलाः पुष्पिता रम्या देवदारुद्रुमांस् तथा
शालांस् तालांस् तमालांश् च निचुलांल् लोमकांस् तथा अन्यांश् च पादपश्रेष्ठान् अपश्यत् फलपुष्पितान्
चकोरैः शतपत्त्रैश् च भृङ्गराजैस् तथा शुकैः कोकिलैः कलविङ्कैश् च हारीतैर् जीवजीवकैः
प्रियपुत्रैश् चातकैश् च तथान्यैर् विविधैः खगैः श्रोत्ररम्यं सुमधुरं कूजद्भिश् चाप्य् अधिष्ठितम्
सरांसि च मनोज्ञानि प्रसन्नसलिलानि च कुमुदैः पुण्डरीकैश् च तथा नीलोत्पलैः शुभैः
कह्लारैः कमलैश् चैव आचितानि समन्ततः कादम्बैश् चक्रवाकैश् च तथैव जलकुक्कुटैः
कारण्डवैर् बकैर् हंसैः कूर्मैर् मद्गुभिर् एव च एतैश् चान्यैश् च कीर्णानि समन्ताज् जलचारिभिः
क्रमेणैव तथा सा तु वनं बभ्राम तैः सह एवं दृष्ट्वा वनं रम्यं तैः सार्धं परमाद्भुतम्
विस्मयोत्फुल्लनयना सा बभूव वराङ्गना प्रोवाच वायुं कामं च वसन्तं च द्विजोत्तमाः
कुरुध्वं मम साहाय्यं यूयं सर्वे पृथक् पृथक्
एवम् उक्त्वा तदा सा तु तथेत्य् उक्ता सुरैर् द्विजाः प्रत्युवाचाद्य यास्यामि यत्रासौ संस्थितो मुनिः
अद्य तं देहयन्तारं प्रयुक्तेन्द्रियवाजिनम् स्मरशस्त्रगलद्रश्मिं करिष्यामि कुसारथिम्
ब्रह्मा जनार्दनो वापि यदि वा नीललोहितः तथाप्य् अद्य करिष्यामि कामबाणक्षतान्तरम्
इत्य् उक्त्वा प्रययौ साथ यत्रासौ तिष्ठते मुनिः मुनेस् तपःप्रभावेण प्रशान्तश्वापदाश्रमम्
सा पुंस्कोकिलमाधुर्ये नदीतीरे व्यवस्थिता स्तोकमात्रं स्थिता तस्माद् अगायत वराप्सराः
ततो वसन्तः सहसा बलं समकरोत् तदा कोकिलारावमधुरम् अकालिकमनोहरम्