कण्डुर् नाम महातेजा ऋषिः परमधार्मिकः सत्यवादी शुचिर् दान्तः सर्वभूतहिते रतः
जितेन्द्रियो जितक्रोधो वेदवेदाङ्गपारगः अवाप परमां सिद्धिम् आराध्य पुरुषोत्तमम्
अन्ये ऽपि तत्र संसिद्धा मुनयः संशितव्रताः सर्वभूतहिता दान्ता जितक्रोधा विमत्सराः
को ऽसौ कण्डुः कथं तत्र जगाम परमां गतिम् श्रोतुम् इच्छामहे तस्य चरितं ब्रूहि सत्तम
शृणुध्वं मुनिशार्दूलाः कथां तस्य मनोहराम् प्रवक्ष्यामि समासेन मुनेस् तस्य विचेष्टितम्
पवित्रे गोमतीतीरे विजने सुमनोहरे कन्दमूलफलैः पूर्णे समित्पुष्पकुशान्वितैः
नानाद्रुमलताकीर्णे नानापुष्पोपशोभिते नानापक्षिरुते रम्ये नानामृगगणान्विते
तत्राश्रमपदं कण्डोर् बभूव मुनिसत्तमाः सर्वर्तुफलपुष्पाढ्यं कदलीखण्डमण्डितम्
तपस् तेपे मुनिस् तत्र सुमहत् परमाद्भुतम् व्रतोपवासैर् नियमैः स्नानमौनसुसंयमैः
ग्रीष्मे पञ्चतपा भूत्वा वर्षासु स्थण्डिलेशयः आर्द्रवासास् तु हेमन्ते स तेपे सुमहत् तपः
दृष्ट्वा तु तपसो वीर्यं मुनेस् तस्य सुविस्मिताः बभूवुर् देवगन्धर्वाः सिद्धविद्याधरास् तथा
भूमिं तथान्तरिक्षं च दिवं च मुनिसत्तमाः कण्डुः संतापयाम् आस त्रैलोक्यं तपसो बलात्
अहो ऽस्य परमं धैर्यम् अहो ऽस्य परमं तपः इत्य् अब्रुवंस् तदा दृष्ट्वा देवास् तं तपसि स्थितम्
मन्त्रयाम् आसुर् अव्यग्राः शक्रेण सहितास् तदा भयात् तस्य समुद्विग्नास् तपोविघ्नम् अभीप्सवः
ज्ञात्वा तेषाम् अभिप्रायं शक्रस् त्रिभुवनेश्वरः प्रम्लोचाख्यां वरारोहां रूपयौवनगर्विताम्
सुमध्यां चारुजङ्घां तां पीनश्रोणिपयोधराम् सर्वलक्षणसंपन्नां प्रोवाच फलसूदनः
प्रम्लोचे गच्छ शीघ्रं त्वं यदासौ तप्यते मुनिः विघ्नार्थं तस्य तपसः क्षोभयस्वांशु सुप्रभे
तव वाक्यं सुरश्रेष्ठ करोमि सततं प्रभो किंतु शङ्का ममैवात्र जीवितस्य च संशयः
बिभेमि तं मुनिवरं ब्रह्मचर्यव्रते स्थितम् अत्युग्रं दीप्ततपसं ज्वलनार्कसमप्रभम्
ज्ञात्वा मां स मुनिः क्रोधाद् विघ्नार्थं समुपागताम् कण्डुः परमतेजस्वी शापं दास्यति दुःसहम्
उर्वशी मेनका रम्भा घृताची पुञ्जिकस्थला विश्वाची सहजन्या च पूर्वचित्तिस् तिलोत्तमा
अलम्बुषा मिश्रकेशी शशिलेखा च वामना अन्याश् चाप्सरसः सन्ति रूपयौवनगर्विताः
सुमध्याश् चारुवदनाः पीनोन्नतपयोधराः कामप्रधानकुशलास् तास् तत्र संनियोजय
तस्यास् तद् वचनं श्रुत्वा पुनः प्राह शचीपतिः तिष्ठन्तु नाम चान्यास् तास् त्वं चात्र कुशला शुभे
कामं वसन्तं वायुं च सहायार्थे ददामि ते तैः सार्धं गच्छ सुश्रोणि यत्रास्ते स महामुनिः
शक्रस्य वचनं श्रुत्वा तदा सा चारुलोचना जगामाकाशमार्गेण तैः सार्धं चाश्रमं मुनेः
गत्वा सा तत्र रुचिरं ददर्श वनम् उत्तमम् मुनिं च दीप्ततपसम् आश्रमस्थम् अकल्मषम्
अपश्यत् सा वनं रम्यं तैः सार्धं नन्दनोपमम् सर्वर्तुवरपुष्पाढ्यं शाखामृगगणाकुलम्
पुण्यं पद्मबलोपेतं सपल्लवमहाबलम् श्रोत्ररम्यान् सुमधुराञ् शब्दान् खगमुखेरितान्
सर्वर्तुफलभाराढ्यान् सर्वर्तुकुसुमोज्ज्वलान् अपश्यत् पादपांश् चैव विहंगैर् अनुनादितान्