प्रकृतेः स परो यस्मात् पुरुषाद् अपि चोत्तमः तस्माद् वेदे पुराणे च लोके ऽस्मिन् पुरुषोत्तमः
यो ऽसौ पुराणे वेदान्ते परमात्मेत्य् उदाहृतः आस्ते विश्वोपकाराय तेनासौ पुरुषोत्तमः
पाथे श्मशाने गृहमण्डपे वा रथ्याप्रदेशेष्व् अपि यत्र कुत्र इच्छन्न् अनिच्छन्न् अपि तत्र देहं संत्यज्य मोक्षं लभते मनुष्यः
तस्मात् सर्वप्रयत्नेन तस्मिन् क्षेत्रे द्विजोत्तमाः देहत्यागो नरैः कार्यः सम्यङ् मोक्षाभिकाङ्क्षिभिः
पुरुषाख्यस्य माहात्म्यं न भूतं न भविष्यति त्यक्त्वा यत्र नरो देहं मुक्तिं प्राप्नोति दुर्लभाम्
गुणानाम् एकदेशो ऽयं मया क्षेत्रस्य कीर्तितः कः समस्तान् गुणान् वक्तुं शक्तो वर्षशतैर् अपि
यदि यूयं मुनिश्रेष्ठा मोक्षम् इच्छथ शाश्वतम् तस्मिन् क्षेत्रवरे पुण्ये निवसध्वम् अतन्द्रिताः
ते तस्य वचनं श्रुत्वा ब्रह्मणो ऽव्यक्तजन्मनः निवासं चक्रिरे तत्र अवापुः परमं पदम्
तस्माद् यूयं प्रयत्नेन निवसध्वं द्विजोत्तमाः पुरुषाख्ये वरे क्षेत्रे यदि मुक्तिम् अभीप्सथ
तस्मिन् क्षेत्रे मुनिश्रेष्ठाः सर्वसत्त्वसुखावहे धर्मार्थकाममोक्षाणां फलदे पुरुषोत्तमे
कण्डुर् नाम महातेजा ऋषिः परमधार्मिकः सत्यवादी शुचिर् दान्तः सर्वभूतहिते रतः
जितेन्द्रियो जितक्रोधो वेदवेदाङ्गपारगः अवाप परमां सिद्धिम् आराध्य पुरुषोत्तमम्
अन्ये ऽपि तत्र संसिद्धा मुनयः संशितव्रताः सर्वभूतहिता दान्ता जितक्रोधा विमत्सराः
को ऽसौ कण्डुः कथं तत्र जगाम परमां गतिम् श्रोतुम् इच्छामहे तस्य चरितं ब्रूहि सत्तम
शृणुध्वं मुनिशार्दूलाः कथां तस्य मनोहराम् प्रवक्ष्यामि समासेन मुनेस् तस्य विचेष्टितम्
पवित्रे गोमतीतीरे विजने सुमनोहरे कन्दमूलफलैः पूर्णे समित्पुष्पकुशान्वितैः
नानाद्रुमलताकीर्णे नानापुष्पोपशोभिते नानापक्षिरुते रम्ये नानामृगगणान्विते
तत्राश्रमपदं कण्डोर् बभूव मुनिसत्तमाः सर्वर्तुफलपुष्पाढ्यं कदलीखण्डमण्डितम्
तपस् तेपे मुनिस् तत्र सुमहत् परमाद्भुतम् व्रतोपवासैर् नियमैः स्नानमौनसुसंयमैः
ग्रीष्मे पञ्चतपा भूत्वा वर्षासु स्थण्डिलेशयः आर्द्रवासास् तु हेमन्ते स तेपे सुमहत् तपः
दृष्ट्वा तु तपसो वीर्यं मुनेस् तस्य सुविस्मिताः बभूवुर् देवगन्धर्वाः सिद्धविद्याधरास् तथा
भूमिं तथान्तरिक्षं च दिवं च मुनिसत्तमाः कण्डुः संतापयाम् आस त्रैलोक्यं तपसो बलात्
अहो ऽस्य परमं धैर्यम् अहो ऽस्य परमं तपः इत्य् अब्रुवंस् तदा दृष्ट्वा देवास् तं तपसि स्थितम्
मन्त्रयाम् आसुर् अव्यग्राः शक्रेण सहितास् तदा भयात् तस्य समुद्विग्नास् तपोविघ्नम् अभीप्सवः
ज्ञात्वा तेषाम् अभिप्रायं शक्रस् त्रिभुवनेश्वरः प्रम्लोचाख्यां वरारोहां रूपयौवनगर्विताम्
सुमध्यां चारुजङ्घां तां पीनश्रोणिपयोधराम् सर्वलक्षणसंपन्नां प्रोवाच फलसूदनः
प्रम्लोचे गच्छ शीघ्रं त्वं यदासौ तप्यते मुनिः विघ्नार्थं तस्य तपसः क्षोभयस्वांशु सुप्रभे
तव वाक्यं सुरश्रेष्ठ करोमि सततं प्रभो किंतु शङ्का ममैवात्र जीवितस्य च संशयः
बिभेमि तं मुनिवरं ब्रह्मचर्यव्रते स्थितम् अत्युग्रं दीप्ततपसं ज्वलनार्कसमप्रभम्
ज्ञात्वा मां स मुनिः क्रोधाद् विघ्नार्थं समुपागताम् कण्डुः परमतेजस्वी शापं दास्यति दुःसहम्