यत्रास्ते पुण्डरीकाक्षः शङ्खचक्रगदाधरः पीताम्बरधरः कृष्णः कंसकेशिनिषूदनः
ये तत्र कृष्णं पश्यन्ति सुरासुरनमस्कृतम् संकर्षणं सुभद्रां च धन्यास् ते नात्र संशयः
त्रैलोक्याधिपतिं देवं सर्वकामफलप्रदम् ये ध्यायन्ति सदा कृष्णं मुक्तास् ते नात्र संशयः
कृष्णे रताः कृष्णम् अनुस्मरन्ति रात्रौ च कृष्णं पुनर् उत्थिता ये ते भिन्नदेहाः प्रविशन्ति कृष्णं हविर् यथा मन्त्रहुतं हुताशम्
तस्मात् सदा मुनिश्रेष्ठाः कृष्णः कमललोचनः तस्मिन् क्षेत्रे प्रयत्नेन द्रष्टव्यो मोक्षकाङ्क्षिभिः
शयनोत्थापने कृष्णं ये पश्यन्ति मनीषिणः हलायुधं सुभद्रां च हरेः स्थानं व्रजन्ति ते
सर्वकाले ऽपि ये भक्त्या पश्यन्ति पुरुषोत्तमम् रौहिणेयं सुभद्रां च विष्णुलोकं व्रजन्ति ते
आस्ते यश् चतुरो मासान् वार्षिकान् पुरुषोत्तमे पृथिव्यास् तीर्थयात्रायाः फलं प्राप्नोति चाधिकम्
ये सर्वकालं तत्रैव निवसन्ति मनीषिणः जितेन्द्रिया जितक्रोधा लभन्ते तपसः फलम्
तपस् तप्त्वान्यतीर्थेषु वर्षाणाम् अयुतं नरः यद् आप्नोति तद् आप्नोति मासेन पुरुषोत्तमे
तपसा ब्रह्मचर्येण सङ्गत्यागेन यत् फलम् तत् फलं सततं तत्र प्राप्नुवन्ति मनीषिणः
सर्वतीर्थेषु यत् पुण्यं स्नानदानेन कीर्तितम् तत् फलं सततं तत्र प्राप्नुवन्ति मनीषिणः
सम्यक् तीर्थेन यत् प्रोक्तं व्रतेन नियमेन च तत् फलं लभते तत्र प्रत्यहं प्रयतः शुचिः
यस् तु नानाविधैर् यज्ञैर् यत् फलं लभते नरः तत् फलं लभते तत्र प्रत्यहं संयतेन्द्रियः
देहं त्यजन्ति पुरुषास् तत्र ये पुरुषोत्तमे कल्पवृक्षं समासाद्य मुक्तास् ते नात्र संशयः
वटसागरयोर् मध्ये ये त्यजन्ति कलेवरम् ते दुर्लभं परं मोक्षं प्राप्नुवन्ति न संशयः
अनिच्छन्न् अपि यस् तत्र प्राणांस् त्यजति मानवः सो ऽपि दुःखविनिर्मुक्तो मुक्तिं प्राप्नोति दुर्लभाम्
कृमिकीटपतंगाद्यास् तिर्यग्योनिगताश् च ये तत्र देहं परित्यज्य ते यान्ति परमां गतिम्
भ्रान्तिं लोकस्य पश्यध्वम् अन्यतीर्थं प्रति द्विजाः पुरुषाख्येन यत् प्राप्तम् अन्यतीर्थफलादिकम्
सकृत् पश्यति यो मर्त्यः श्रद्धया पुरुषोत्तमम् पुरुषाणां सहस्रेषु स भवेद् उत्तमः पुमान्
प्रकृतेः स परो यस्मात् पुरुषाद् अपि चोत्तमः तस्माद् वेदे पुराणे च लोके ऽस्मिन् पुरुषोत्तमः
यो ऽसौ पुराणे वेदान्ते परमात्मेत्य् उदाहृतः आस्ते विश्वोपकाराय तेनासौ पुरुषोत्तमः
पाथे श्मशाने गृहमण्डपे वा रथ्याप्रदेशेष्व् अपि यत्र कुत्र इच्छन्न् अनिच्छन्न् अपि तत्र देहं संत्यज्य मोक्षं लभते मनुष्यः
तस्मात् सर्वप्रयत्नेन तस्मिन् क्षेत्रे द्विजोत्तमाः देहत्यागो नरैः कार्यः सम्यङ् मोक्षाभिकाङ्क्षिभिः
पुरुषाख्यस्य माहात्म्यं न भूतं न भविष्यति त्यक्त्वा यत्र नरो देहं मुक्तिं प्राप्नोति दुर्लभाम्
गुणानाम् एकदेशो ऽयं मया क्षेत्रस्य कीर्तितः कः समस्तान् गुणान् वक्तुं शक्तो वर्षशतैर् अपि
यदि यूयं मुनिश्रेष्ठा मोक्षम् इच्छथ शाश्वतम् तस्मिन् क्षेत्रवरे पुण्ये निवसध्वम् अतन्द्रिताः
ते तस्य वचनं श्रुत्वा ब्रह्मणो ऽव्यक्तजन्मनः निवासं चक्रिरे तत्र अवापुः परमं पदम्
तस्माद् यूयं प्रयत्नेन निवसध्वं द्विजोत्तमाः पुरुषाख्ये वरे क्षेत्रे यदि मुक्तिम् अभीप्सथ
तस्मिन् क्षेत्रे मुनिश्रेष्ठाः सर्वसत्त्वसुखावहे धर्मार्थकाममोक्षाणां फलदे पुरुषोत्तमे