नरान्तकं महावीर्यं तथा चैव यमान्तकम् मालाढ्यं मालिकाढ्यं च हत्वा रामस् तु वीर्यवान्
पुनर् इन्द्रजितं हत्वा कुम्भकर्णं सरावणम् वैदेहीं चाग्निनाशोध्य दत्त्वा राज्यं विभीषणे
वासुदेवं समादाय यानं पुष्पकम् आरुहत् लीलया समनुप्रापद् अयोध्यां पूर्वपालिताम्
कनिष्ठं भरतं स्नेहाच् छत्रुघ्नं भक्तवत्सलः अभिषिच्य तदा रामः सर्वराज्ये ऽधिराजवत्
पुरातनीं स्वमूर्तिं च समाराध्य ततो हरिः दश वर्षसहस्राणि दश वर्षशतानि च
भुक्त्वा सागरपर्यन्तां मेदिनीं स तु राघवः राज्यम् आसाद्य सुगतिं वैष्णवं पदम् आविशत्
तां चापि प्रतिमां रामः समुद्रेशाय दत्तवान् धन्यो रक्षयितासि त्वं तोयरत्नसमन्वितः
द्वापरं युगम् आसाद्य यदा देवो जगत्पतिः धरण्याश् चानुरोधेन भावशैथिल्यकारणात्
अवतीर्णः स भगवान् वसुदेवकुले प्रभुः कंसादीनां वधार्थाय संकर्षणसहायवान्
तदा तां प्रतिमां विप्राः सर्ववाञ्छाफलप्रदाम् सर्वलोकहितार्थाय कस्यचित् कारणान्तरे
तस्मिन् क्षेत्रवरे पुण्ये दुर्लभे पुरुषोत्तमे उज्जहार स्वयं तोयात् समुद्रः सरितां पतिः
तदा प्रभृति तत्रैव क्षेत्रे मुक्तिप्रदे द्विजाः आस्ते स देवो देवानां सर्वकामफलप्रदः
ये संश्रयन्ति चानन्तं भक्त्या सर्वेश्वरं प्रभुम् वाङ्मनःकर्मभिर् नित्यं ते यान्ति परमं पदम्
दृष्ट्वानन्तं सकृद् भक्त्या संपूज्य प्रणिपत्य च राजसूयाश्वमेधाभ्यां फलं दशगुणं लभेत्
सर्वकामसमृद्धेन कामगेन सुवर्चसा विमानेनार्कवर्णेन किङ्किणीजालमालिना
त्रिःसप्तकुलम् उद्धृत्य दिव्यस्त्रीगणसेवितः उपगीयमानो गन्धर्वैर् नरो विष्णुपुरं व्रजेत्
तत्र भुक्त्वा वरान् भोगाञ् जरामरणवर्जितः दिव्यरूपधरः श्रीमान् यावद् आभूतसंप्लवम्
पुण्यक्षयाद् इहायातश् चतुर्वेदी द्विजोत्तमः वैष्णवं योगम् आस्थाय ततो मोक्षम् अवाप्नुयात्
एवं मया त्व् अनन्तो ऽसौ कीर्तितो मुनिसत्तमाः कः शक्नोति गुणान् वक्तुं तस्य वर्षशतैर् अपि
एवं वो ऽनन्तमाहात्म्यं क्षेत्रं च पुरुषोत्तमम् भुक्तिमुक्तिप्रदं नॄणां मया प्रोक्तं सुदुर्लभम्
यत्रास्ते पुण्डरीकाक्षः शङ्खचक्रगदाधरः पीताम्बरधरः कृष्णः कंसकेशिनिषूदनः
ये तत्र कृष्णं पश्यन्ति सुरासुरनमस्कृतम् संकर्षणं सुभद्रां च धन्यास् ते नात्र संशयः
त्रैलोक्याधिपतिं देवं सर्वकामफलप्रदम् ये ध्यायन्ति सदा कृष्णं मुक्तास् ते नात्र संशयः
कृष्णे रताः कृष्णम् अनुस्मरन्ति रात्रौ च कृष्णं पुनर् उत्थिता ये ते भिन्नदेहाः प्रविशन्ति कृष्णं हविर् यथा मन्त्रहुतं हुताशम्
तस्मात् सदा मुनिश्रेष्ठाः कृष्णः कमललोचनः तस्मिन् क्षेत्रे प्रयत्नेन द्रष्टव्यो मोक्षकाङ्क्षिभिः
शयनोत्थापने कृष्णं ये पश्यन्ति मनीषिणः हलायुधं सुभद्रां च हरेः स्थानं व्रजन्ति ते
सर्वकाले ऽपि ये भक्त्या पश्यन्ति पुरुषोत्तमम् रौहिणेयं सुभद्रां च विष्णुलोकं व्रजन्ति ते
आस्ते यश् चतुरो मासान् वार्षिकान् पुरुषोत्तमे पृथिव्यास् तीर्थयात्रायाः फलं प्राप्नोति चाधिकम्
ये सर्वकालं तत्रैव निवसन्ति मनीषिणः जितेन्द्रिया जितक्रोधा लभन्ते तपसः फलम्
तपस् तप्त्वान्यतीर्थेषु वर्षाणाम् अयुतं नरः यद् आप्नोति तद् आप्नोति मासेन पुरुषोत्तमे