विहाय रत्नसंघांश् च प्रतिमां शुभलक्षणाम् पुष्पकेण विमानेन लङ्कां प्रास्थापयद् द्रुतम्
पुराध्यक्षः स्थितः श्रीमान् धर्मात्मा स विभीषणः रावणस्यानुजो मन्त्री नारायणपरायणः
दृष्ट्वा तां प्रतिमां दिव्यां देवेन्द्रभवनच्युताम् रोमाञ्चिततनुर् भूत्वा विस्मयं समपद्यत
प्रणम्य शिरसा देवं प्रहृष्टेनान्तरात्मना अद्य मे सफलं जन्म अद्य मे सफलं तपः
इत्य् उक्त्वा स तु धर्मात्मा प्रणिपत्य मुहुर् मुहुः ज्येष्ठं भ्रातरम् आसाद्य कृताञ्जलिर् अभाषत
राजन् प्रतिमया त्वं मे प्रसादं कर्तुम् अर्हसि याम् आराध्य जगन्नाथ निस्तरेयं भवार्णवम्
भ्रातुर् वचनम् आकर्ण्य रावणस् तं तदाब्रवीत् गृहाण प्रतिमां वीर त्व् अनया किं करोम्य् अहम्
स्वयंभुवं समाराध्य त्रैलोक्यं विजये त्व् अहम् नानाश्चर्यमयं देवं सर्वभूतभवोद्भवम्
विभीषणो महाबुद्धिस् तदा तां प्रतिमां शुभाम् शतम् अष्टोत्तरं चाब्दं समाराध्य जनार्दनम्
अजरामरणं प्राप्तम् अणिमादिगुणैर् युतम् राज्यं लङ्काधिपत्यं च भोगान् भुङ्क्ते यथेप्सितान्
अहो नो विस्मयो जातः श्रुत्वेदं परमामृतम् अनन्तवासुदेवस्य संभवं भुवि दुर्लभम्
श्रोतुम् इच्छामहे देव विस्तरेण यथातथम् तस्य देवस्य माहात्म्यं वक्तुम् अर्हस्य् अशेषतः
तदा स राक्षसः क्रूरो देवगन्धर्वकिंनरान् लोकपालान् समनुजान् मुनिसिद्धांश् च पापकृत्
विजित्य समरे सर्वान् आजहार तदङ्गनाः संस्थाप्य नगरीं लङ्कां पुनः सीतार्थमोहितः
शङ्कितो मृगरूपेण सौवर्णेन च रावणः ततः क्रुद्धेन रामेण रणे सौमित्रिणा सह
रावणस्य वधार्थाय हत्वा वालिं मनोजवम् अभिषिक्तश् च सुग्रीवो युवराजो ऽङ्गदस् तथा
हनुमान् नलनीलश् च जाम्बवान् पनसस् तथा गवयश् च गवाक्षश् च पाठीनः परमौजसः
एतैश् चान्यैश् च बहुभिर् वानरैः समहाबलैः समावृतो महाघोरै रामो राजीवलोचनः
गिरीणां सर्वसंघातैः सेतुं बद्ध्वा महोदधौ बलेन महता रामः समुत्तीर्य महोदधिम्
संग्रामम् अतुलं चक्रे रक्षोगणसमन्वितः यमहस्तं प्रहस्तं च निकुम्भं कुम्भम् एव च
नरान्तकं महावीर्यं तथा चैव यमान्तकम् मालाढ्यं मालिकाढ्यं च हत्वा रामस् तु वीर्यवान्
पुनर् इन्द्रजितं हत्वा कुम्भकर्णं सरावणम् वैदेहीं चाग्निनाशोध्य दत्त्वा राज्यं विभीषणे
वासुदेवं समादाय यानं पुष्पकम् आरुहत् लीलया समनुप्रापद् अयोध्यां पूर्वपालिताम्
कनिष्ठं भरतं स्नेहाच् छत्रुघ्नं भक्तवत्सलः अभिषिच्य तदा रामः सर्वराज्ये ऽधिराजवत्
पुरातनीं स्वमूर्तिं च समाराध्य ततो हरिः दश वर्षसहस्राणि दश वर्षशतानि च
भुक्त्वा सागरपर्यन्तां मेदिनीं स तु राघवः राज्यम् आसाद्य सुगतिं वैष्णवं पदम् आविशत्
तां चापि प्रतिमां रामः समुद्रेशाय दत्तवान् धन्यो रक्षयितासि त्वं तोयरत्नसमन्वितः
द्वापरं युगम् आसाद्य यदा देवो जगत्पतिः धरण्याश् चानुरोधेन भावशैथिल्यकारणात्
अवतीर्णः स भगवान् वसुदेवकुले प्रभुः कंसादीनां वधार्थाय संकर्षणसहायवान्
तदा तां प्रतिमां विप्राः सर्ववाञ्छाफलप्रदाम् सर्वलोकहितार्थाय कस्यचित् कारणान्तरे