तपसा चैव महता जाता वृद्धस्य चात्मजाः नृगायास् तु नृगः पुत्रः कृम्यां कृमिर् अजायत
नवायास् तु नवः पुत्रो दर्वायाः सुव्रतो ऽभवत् दृषद्वत्यास् तु संजज्ञे शिबिर् औशीनरो नृपः
शिबेस् तु शिबयो विप्रा यौधेयास् तु नृगस्य ह नवस्य नवराष्ट्रं तु कृमेस् तु कृमिला पुरी
सुव्रतस्य तथाम्बष्ठाः शिबिपुत्रान् निबोधत शिबेस् तु शिबयः पुत्राश् चत्वारो लोकविश्रुताः
वृषदर्भः सुवीरश् च केकयो मद्रकस् तथा तेषां जनपदाः स्फीता केकया मद्रकास् तथा
वृषदर्भाः सुवीराश् च तितिक्षोस् तु प्रजास् त्व् इमाः तितिक्षुर् अभवद् राजा पूर्वस्यां दिशि भो द्विजाः
उषद्रथो महावीर्यः फेनस् तस्य सुतो ऽभवत् फेनस्य सुतपा जज्ञे ततः सुतपसो बलिः
जातो मानुषयोनौ तु स राजा काञ्चनेषुधिः महायोगी स तु बलिर् बभूव नृपतिः पुरा
पुत्रान् उत्पादयाम् आस पञ्च वंशकरान् भुवि अङ्गः प्रथमतो जज्ञे वङ्गः सुह्मस् तथैव च
पुण्ड्रः कलिङ्गश् च तथा बालेयं क्षत्रम् उच्यते बालेया ब्राह्मणाश् चैव तस्य वंशकरा भुवि
बलेश् च ब्रह्मणा दत्तो वरः प्रीतेन भो द्विजाः महायोगित्वम् आयुश् च कल्पस्य परिमाणतः
बले चाप्रतिमत्वं वै धर्मतत्त्वार्थदर्शनम् संग्रामे चाप्य् अजेयत्वं धर्मे चैव प्रधानताम्
त्रैलोक्यदर्शनं चापि प्राधान्यं प्रसवे तथा चतुरो नियतान् वर्णांस् त्वं च स्थापयितेति च
इत्य् उक्तो विभुना राजा बलिः शान्तिं परां ययौ कालेन महता विप्राः स्वं च स्थानम् उपागमत्
तेषां जनपदाः पञ्च अङ्गा वङ्गाः ससुह्मकाः कलिङ्गाः पुण्ड्रकाश् चैव प्रजास् त्व् अङ्गस्य सांप्रतम्
अङ्गपुत्रो महान् आसीद् राजेन्द्रो दधिवाहनः दधिवाहनपुत्रस् तु राजा दिविरथो ऽभवत्
पुत्रो दिविरथस्यासीच् छक्रतुल्यपराक्रमः विद्वान् धर्मरथो नाम तस्य चित्ररथः सुतः
तेन धर्मरथेनाथ तदा कालञ्जरे गिरौ यजता सह शक्रेण सोमः पीतो महात्मना
अथ चित्ररथस्यापि पुत्रो दशरथो ऽभवत् लोमपाद इति ख्यातो यस्य शान्ता सुताभवत्
तस्य दाशरथिर् वीरश् चतुरङ्गो महायशाः ऋष्यशृङ्गप्रसादेन जज्ञे वंशविवर्धनः
चतुरङ्गस्य पुत्रस् तु पृथुलाक्ष इति स्मृतः पृथुलाक्षसुतो राजा चम्पो नाम महायशाः
चम्पस्य तु पुरी चम्पा या मालिन्य् अभवत् पुरा पूर्णभद्रप्रसादेन हर्यङ्गो ऽस्य सुतो ऽभवत्
ततो वैभाण्डकिस् तस्य वारणं शक्रवारणम् अवतारयाम् आस महीं मन्त्रैर् वाहनम् उत्तमम्
हर्यङ्गस्य सुतस् तत्र राजा भद्ररथः स्मृतः पुत्रो भद्ररथस्यासीद् बृहत्कर्मा प्रजेश्वरः
बृहद्दर्भः सुतस् तस्य यस्माज् जज्ञे बृहन्मनाः बृहन्मनास् तु राजेन्द्रो जनयाम् आस वै सुतम्
नाम्ना जयद्रथं नाम यस्माद् दृढरथो नृपः आसीद् दृढरथस्यापि विश्वजिज् जनमेजयी
दायादस् तस्य वैकर्णो विकर्णस् तस्य चात्मजः तस्य पुत्रशतं त्व् आसीद् अङ्गानां कुलवर्धनम्
एते ऽङ्गवंशजाः सर्वे राजानः कीर्तिता मया सत्यव्रता महात्मानः प्रजावन्तो महारथाः
ऋचेयोस् तु मुनिश्रेष्ठा रौद्राश्वतनयस्य वै शृणुध्वं संप्रवक्ष्यामि वंशं राज्ञस् तु भो द्विजाः
ऋचेयोस् तनयो राजा मतिनारो महीपतिः मतिनारसुतास् त्व् आसंस् त्रयः परमधार्मिकाः