वरिष्ठं देवशिल्पीन्द्रं विश्वकर्माग्रकर्मिणम् प्रतिमां वासुदेवस्य कुरु शैलमयीं भुवि
यां प्रेक्ष्य विधिवद् भक्ताः सेन्द्रा वै मानुषादयः येन दानवरक्षोभ्यो विज्ञाय सुमहद् भयम्
त्रिदिवं समनुप्राप्य सुमेरुशिखरं चिरम् वासुदेवं समाराध्य निरातङ्का वसन्ति ते
मम तद् वचनं श्रुत्वा विश्वकर्मा तु तत्क्षणात् चकार प्रतिमां शुद्धां शङ्खचक्रगदाधराम्
सर्वलक्षणसंयुक्तां पुण्डरीकायतेक्षणाम् श्रीवत्सलक्ष्मसंयुक्ताम् अत्युग्रां प्रतिमोत्तमाम्
वनमालावृतोरस्कां मुकुटाङ्गदधारिणीम् पीतवस्त्रां सुपीनांसां कुण्डलाभ्याम् अलंकृताम्
एवं सा प्रतिमा दिव्या गुह्यमन्त्रैस् तदा स्वयम् प्रतिष्ठाकालम् आसाद्य मयासौ निर्मिता पुरा
तस्मिन् काले तदा शक्रो देवराट् खेचरैः सह जगाम ब्रह्मसदनम् आरुह्य गजम् उत्तमम्
प्रसाद्य प्रतिमां शक्रः स्नानदानैः पुनः पुनः प्रतिमां तां समाराध्य स्वपुरं पुनर् आगमत्
तां समाराध्य सुचिरं यतवाक्कायमानसः वृत्राद्यान् असुरान् क्रूरान् नमुचिप्रमुखान् स च
निहत्य दानवान् भीमान् भुक्तवान् भुवनत्रयम् द्वितीये च युगे प्राप्ते त्रेतायां राक्षसाधिपः
बभूव सुमहावीर्यो दशग्रीवः प्रतापवान् दश वर्षसहस्राणि निराहारो जितेन्द्रियः
चचार व्रतम् अत्युग्रं तपः परमदुश्चरम् तपसा तेन तुष्टो ऽहं वरं तस्मै प्रदत्तवान्
अवध्यः सर्वदेवानां स दैत्योरगरक्षसाम् शापप्रहरणैर् उग्रैर् अवध्यो यमकिंकरैः
वरं प्राप्य तदा रक्षो यक्षान् सर्वगणान् इमान् धनाध्यक्षं विनिर्जित्य शक्रं जेतुं समुद्यतः
संग्रामं सुमहाघोरं कृत्वा देवैः स राक्षसः देवराजं विनिर्जित्य तदा इन्द्रजितेति वै
राक्षसस् तत्सुतो नाम मेघनादः प्रलब्धवान् अमरावतीं ततः प्राप्य देवराजगृहे शुभे
ददर्शाञ्जनसंकाशां रावणस् तु बलान्वितः प्रतिमां वासुदेवस्य सर्वलक्षणसंयुताम्
श्रीवत्सलक्ष्मसंयुक्तां पद्मपत्त्रायतेक्षणाम् वनमालावृतोरस्कां मुकुटाङ्गदभूषिताम्
शङ्खचक्रगदाहस्तां पीतवस्त्रां चतुर्भुजाम् सर्वाभरणसंयुक्तां सर्वकामफलप्रदाम्
विहाय रत्नसंघांश् च प्रतिमां शुभलक्षणाम् पुष्पकेण विमानेन लङ्कां प्रास्थापयद् द्रुतम्
पुराध्यक्षः स्थितः श्रीमान् धर्मात्मा स विभीषणः रावणस्यानुजो मन्त्री नारायणपरायणः
दृष्ट्वा तां प्रतिमां दिव्यां देवेन्द्रभवनच्युताम् रोमाञ्चिततनुर् भूत्वा विस्मयं समपद्यत
प्रणम्य शिरसा देवं प्रहृष्टेनान्तरात्मना अद्य मे सफलं जन्म अद्य मे सफलं तपः
इत्य् उक्त्वा स तु धर्मात्मा प्रणिपत्य मुहुर् मुहुः ज्येष्ठं भ्रातरम् आसाद्य कृताञ्जलिर् अभाषत
राजन् प्रतिमया त्वं मे प्रसादं कर्तुम् अर्हसि याम् आराध्य जगन्नाथ निस्तरेयं भवार्णवम्
भ्रातुर् वचनम् आकर्ण्य रावणस् तं तदाब्रवीत् गृहाण प्रतिमां वीर त्व् अनया किं करोम्य् अहम्
स्वयंभुवं समाराध्य त्रैलोक्यं विजये त्व् अहम् नानाश्चर्यमयं देवं सर्वभूतभवोद्भवम्
विभीषणो महाबुद्धिस् तदा तां प्रतिमां शुभाम् शतम् अष्टोत्तरं चाब्दं समाराध्य जनार्दनम्
अजरामरणं प्राप्तम् अणिमादिगुणैर् युतम् राज्यं लङ्काधिपत्यं च भोगान् भुङ्क्ते यथेप्सितान्