चन्द्रसूर्यग्रहे काले मत्सांनिध्ये यतव्रतः भूभृते विष्णवे भक्त्या सर्वकालं कृता सुधीः
गाः सुन्दराः सवत्साश् च संगमे लोकविश्रुते यो ददाति द्विजश्रेष्ठ तत्र यत् पुण्यम् आप्नुयात्
तस्माद् वरं पुण्यम् एति स्नानदानादिना नरः गौतम्यां विश्ववन्द्यायां महानद्यां तु भक्तितः
तस्माद् गोदावरी गङ्गा त्वया नीता भविष्यति सर्वपापक्षयकरी सर्वाभीष्टप्रदायिनी
एतच् छ्रुतं मया मातर् वदतो गौतमं शिवात् एतस्मात् कारणाच् छंभुर् गङ्गायां नियतः स्थितः
को निवर्तयितुं शक्तस् तम् अम्ब करुणोदधिम् अथापि मातर् एतत् स्यान् मानुषा विघ्नपाशकैः
विनिबद्धा न गच्छन्ति गोदाम् अप्य् अन्तिकस्थिताम् न नमन्ति शिवं देवं न स्मरन्ति स्तुवन्ति न
तथा मातः करिष्यामि तव संतोषहेतवे संनिरोद्धुम् अथो क्लेशस् तव वाक्यं क्षमस्व मे
ततः प्रभृति विघ्नेशो मानुषान् प्रति किंचन विघ्नम् आचरते यस् तु तम् उपास्य प्रवर्तते
अथो विघ्नम् अनादृत्य गौतमीं याति भक्तितः स कृतार्थो भवेल् लोके न कृत्यम् अवशिष्यते
विघ्नान्य् अनेकानि भवन्ति गेहान् निर्गन्तुकामस्य नराधमस्य निधाय तन्मूर्ध्नि पदं प्रयाति गङ्गां न किं तेन फलं प्रलब्धम्
अस्याः प्रभावं को ब्रूयाद् अपि साक्षात् सदाशिवः संक्षेपेण मया प्रोक्तम् इतिहासपदानुगम्
धर्मार्थकाममोक्षाणां साधनं यच् चराचरे तद् अत्र विद्यते सर्वम् इतिहासे सविस्तरे
वेदोदितं श्रुतिसकलरहस्यम् उक्तं सत्कारणं समभिधानम् इदं सदैव सम्यक् च दृष्टं जगतां हिताय प्रोक्तं पुराणं बहुधर्मयुक्तम्
अस्य श्लोकं पदं वापि भक्तितः शृणुयात् पठेत् गङ्गा गङ्गेति वा वाक्यं स तु पुण्यम् अवाप्नुयात्
कलिकलङ्कविनाशनदक्षम् इदं सकलसिद्धिकरं शुभदं शिवम् जगति पूज्यम् अभीष्टफलप्रदं गाङ्गम् एतद् उदीरितम् उत्तमम्
साधु गौतम भद्रं ते को ऽन्यो ऽस्ति सदृशस् त्वया य एनां गौतमीं गङ्गां दण्डकारण्यम् आप्नुयात्
गङ्गा गङ्गेति यो ब्रूयाद् योजनानां शतैर् अपि मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति
तिस्रः कोट्यो ऽर्धकोटी च तीर्थानि भुवनत्रये तानि स्नातुं समायान्ति गङ्गायां सिंहगे गुरौ
षष्टिर् वर्षसहस्राणि भागीरथ्यवगाहनम् सकृद् गोदावरीस्नानं सिंहयुक्ते बृहस्पतौ
इयं तु गौतमी पुत्र यत्र क्वापि ममाज्ञया सर्वेषां सर्वदा नॄणां स्नानान् मुक्तिं प्रदास्यति
अश्वमेधसहस्राणि वाजपेयशतानि च कृत्वा यत् फलम् आप्नोति तद् अस्य श्रवणाद् भवेत्
यस्यैतत् तिष्ठति गृहे पुराणं ब्रह्मणोदितम् न भयं विद्यते तस्य कलिकालस्य नारद
यस्य कस्यापि नाख्येयं पुराणम् इदम् उत्तमम् श्रद्दधानाय शान्ताय वैष्णवाय महात्मने
इदं कीर्त्यं भुक्तिमुक्तिदायकं पापनाशकम् एतच्छ्रवणमात्रेण कृतकृत्यो भवेन् नरः
लिखित्वा पुस्तकम् इदं ब्राह्मणाय प्रयच्छति सर्वपापविनिर्मुक्तः पुनर् गर्भं न संविशेत्
नहि नस् तृप्तिर् अस्तीह शृण्वतां भगवत्कथाम् पुनर् एव परं गुह्यं वक्तुम् अर्हस्य् अशेषतः
अनन्तवासुदेवस्य न सम्यग् वर्णितं त्वया श्रोतुम् इच्छामहे देव विस्तरेण वदस्व नः
प्रवक्ष्यामि मुनिश्रेष्ठाः सारात् सारतरं परम् अनन्तवासुदेवस्य माहात्म्यं भुवि दुर्लभम्
आदिकल्पे पुरा विप्रास् त्व् अहम् अव्यक्तजन्मवान् विश्वकर्माणम् आहूय वचनं प्रोक्तवान् इदम्