ऋषिणा लोकपूज्येन त्रैलोक्यहितकारिणा सामोपायेन तद्वाक्यात् पूज्येन ब्रह्मतेजसा
आराधयित्वा देवेशं तपोभिः स्तुतिभिर् भवम् तुष्टेन शंकरेणेदम् उक्तो ऽसौ गौतमस् तदा
वरान् वरय पुण्यांश् च प्रियांश् च मनसेप्सितान् यद् यद् इच्छसि तत् सर्वं दाता ते ऽद्य महामते
एवम् उक्तः शिवेनासौ गौतमो मयि शृण्वति इदम् एव तदोवाच सजटां देहि शंकर गङ्गां मे याचते पुण्यां किम् अन्येन वरेण मे
पुनः प्रोवाच तं शंभुः सर्वलोकोपकारकः
उक्तं न चात्मनः किंचित् तस्माद् याचस्व दुष्करम्
गौतमो ऽदीनसत्त्वस् तं भवम् आह कृताञ्जलिः
एतद् एव च सर्वेषां दुष्करं तव दर्शनम् मया तद् अद्य संप्राप्तं कृपया तव शंकर
स्मरणाद् एव ते पद्भ्यां कृतकृत्या मनीषिणः भवन्ति किं पुनः साक्षात् त्वयि दृष्टे महेश्वरे
एवम् उक्ते गौतमेन भवो हर्षसमन्वितः त्रयाणाम् उपकारार्थं लोकानां याचितं त्वया
न चात्मनो महाबुद्धे याचेत्य् आह शिवो द्विजम् एवं प्रोक्तः पुनर् विप्रो ध्यात्वा प्राह शिवं तथा
विनीतवद् अदीनात्मा शिवभक्तिसमन्वितः सर्वलोकोपकाराय पुनर् याचितवान् इदम् शृण्वत्सु लोकपालेषु जगादेदं स गौतमः
यावत् सागरगा देवी निसृष्टा ब्रह्मणो गिरेः सर्वत्र सर्वदा तस्यां स्थातव्यं वृषभध्वज
फलेप्सूनां फलं दाता त्वम् एव जगतः प्रभो तीर्थान्य् अन्यानि देवेश क्वापि क्वापि शुभानि च
यत्र ते संनिधिर् नित्यं तद् एव शुभदं विदुः यत्र गङ्गा त्वया दत्ता जटामुकुटसंस्थिता सर्वत्र तव सांनिध्यात् सर्वतीर्थानि शंकर
तद् गौतमवचः श्रुत्वा पुनर् हर्षाच् छिवो ऽब्रवीत्
यत्र क्वापि च यत् किंचिद् यो वा भवति भक्तितः यात्रां स्नानम् अथो दानं पितॄणां वापि तर्पणम्
श्रवणं पठनं वापि स्मरणं वापि गौतम यः करोति नरो भक्त्या गोदावर्या यतव्रतः
सप्तद्वीपवती पृथ्वी सशैलवनकानना सरत्ना सौषधी रम्या सार्णवा धर्मभूषिता
दत्त्वा भवति यो धर्मः स भवेद् गौतमीस्मृतेः एवंविधा इला विप्र गोदानाद् याभिधीयते
चन्द्रसूर्यग्रहे काले मत्सांनिध्ये यतव्रतः भूभृते विष्णवे भक्त्या सर्वकालं कृता सुधीः
गाः सुन्दराः सवत्साश् च संगमे लोकविश्रुते यो ददाति द्विजश्रेष्ठ तत्र यत् पुण्यम् आप्नुयात्
तस्माद् वरं पुण्यम् एति स्नानदानादिना नरः गौतम्यां विश्ववन्द्यायां महानद्यां तु भक्तितः
तस्माद् गोदावरी गङ्गा त्वया नीता भविष्यति सर्वपापक्षयकरी सर्वाभीष्टप्रदायिनी
एतच् छ्रुतं मया मातर् वदतो गौतमं शिवात् एतस्मात् कारणाच् छंभुर् गङ्गायां नियतः स्थितः
को निवर्तयितुं शक्तस् तम् अम्ब करुणोदधिम् अथापि मातर् एतत् स्यान् मानुषा विघ्नपाशकैः
विनिबद्धा न गच्छन्ति गोदाम् अप्य् अन्तिकस्थिताम् न नमन्ति शिवं देवं न स्मरन्ति स्तुवन्ति न
तथा मातः करिष्यामि तव संतोषहेतवे संनिरोद्धुम् अथो क्लेशस् तव वाक्यं क्षमस्व मे
ततः प्रभृति विघ्नेशो मानुषान् प्रति किंचन विघ्नम् आचरते यस् तु तम् उपास्य प्रवर्तते
अथो विघ्नम् अनादृत्य गौतमीं याति भक्तितः स कृतार्थो भवेल् लोके न कृत्यम् अवशिष्यते