गुणास् त्रयश् च पुरुषास् त्रयो देवाः सनातनाः वेदाश् च स्मृतिभिर् युक्ताश् चत्वारस् ते प्रकीर्तिताः
पुरुषार्थाश् च चत्वारो वाणी चापि चतुर्विधा गुणा ह्य् अपि तु चत्वारः समत्वेनेति नारद
सर्वत्र धर्मः सामान्यो यतो धर्मः सनातनः साध्यसाधनभावेन स एव बहुधा मतः
तस्याश्रयश् च द्विविधो देशः कालश् च सर्वदा कालाश्रयश् च यो धर्मो हीयते वर्धते सदा
युगानाम् अनुरूपेण पादः पादो ऽस्य हीयते धर्मस्येति महाप्राज्ञ देशापेक्षा तथोभयम्
कालेन चाश्रितो धर्मो देशे नित्यं प्रतिष्ठितः युगेषु क्षीयमाणेषु न देशेषु स हीयते
उभयत्र विहीने च धर्मस्य स्याद् अभावता तस्माद् देशाश्रितो धर्मश् चतुष्पात् सुप्रतिष्ठितः
स चापि धर्मो देशेषु तीर्थरूपेण तिष्ठति कृते देशं च कालं च धर्मो ऽवष्टभ्य तिष्ठति
त्रेतायां पादहीनेन स तु पादः प्रदेशतः द्वापरे चार्धतः काले धर्मो देशे समास्थितः
कलौ पादेन चैकेन धर्मश् चलति संकटम् एवंविधं तु यो धर्मं वेत्ति तस्य न हीयते
युगानाम् अनुभावेन जातिभेदाश् च संस्थिताः गुणेभ्यो गुणकर्तृभ्यो विचित्रा धर्मसंस्थितिः
गुणानाम् अनुभावेन उद्भवाभिभवौ तथा तीर्थानाम् अपि वर्णानां वेदानां स्वर्गमोक्षयोः
तादृग्रूपप्रवृत्त्या तु तद् एव च विशिष्यते कालो ऽभिव्यञ्जकः प्रोक्तो देशो ऽभिव्यङ्ग्य उच्यते
यदा यदा अभिव्यक्तिं कालो धत्ते तदा तदा तद् एव व्यञ्जनं ब्रह्मंस् तस्मान् नास्त्य् अत्र संशयः
युगानुरूपा मूर्तिः स्याद् देवानां वैदिकी तथा कर्मणाम् अपि तीर्थानां जातीनाम् आश्रमस्य तु
त्रिदैवत्यं सत्ययुगे तीर्थं लोकेषु पूज्यते द्विदैवत्यं युगे ऽन्यस्मिन् द्वापरे चैकदैविकम्
कलौ न किंचिद् विज्ञेयम् अथान्यद् अपि तच् छृणु दैवं कृतयुगे तीर्थं त्रेतायाम् आसुरं विदुः
आर्षं च द्वापरे प्रोक्तं कलौ मानुषम् उच्यते अथान्यद् अपि वक्ष्यामि शृणु नारद कारणम्
गौतम्यां यत् त्वया पृष्टं तत् ते वक्ष्यामि विस्तरात् यदा चेयं हरशिरः प्राप्ता गङ्गा महामुने
तदा प्रभृति सा गङ्गा शंभोः प्रियतराभवत् तद् देवस्य मतं ज्ञात्वा गजवक्त्रम् उवाच सा
उमा लोकत्रयेशाना माता च जगतो हिता शान्ता श्रुतिर् इति ख्याता भुक्तिमुक्तिप्रदायिनी
तन् मातुर् वचनं श्रुत्वा गजवक्त्रो ऽभ्यभाषत
किं कृत्यं शाधि मां मातस् तत्कर्ताहम् असंशयम्
उमा सुतम् उवाचेदं महेश्वरजटास्थिता त्वयावतार्यतां गङ्गा सत्यम् ईशप्रिया सती
पुनश् चेशस् तत्र चित्रम् अध्यास्ते सर्वदा सुत शिवो यत्र सुरास् तत्र तत्र वेदाः सनातनाः
तत्रैव ऋषयः सर्वे मनुष्याः पितरस् तथा तस्मान् निवर्तयेशानं देवदेवं महेश्वरम्
तस्या निवर्तिते देवे गङ्गायाः सर्व एव हि निवृत्तास् ते भविष्यन्ति शृणु चेदं वचो मम निवर्तय ततस् तस्याः सर्वभावेन शंकरम्
मातुस् तद् वचनं श्रुत्वा पुनर् आह गणेश्वरः
नैव शक्यः शिवो देवो मया तस्या निवर्तितुम् अनिवृत्ते शिवे तस्या देवा अपि निवर्तितुम्
न शक्या जगतां मातर् अथान्यच् चापि कारणम् गङ्गावतारिता पूर्वं गौतमेन महात्मना